प्रशान्तरत्नाकरम्
प्रशान्तरत्नाकरम् | |
---|---|
धनुष्काण्डधारी योद्धा | |
लेखकः | कालीपदः |
देशः | भारतम् |
भाषा | संस्कृतम् |
प्रकारः | रङ्गमञ्चीयाभिनवशैली |
प्रशान्तरत्नाकरस्य रचयिता कालीपदो वर्तते। तस्य अनुबन्धिकायां कालीपदो लिखति यद्, आदिकविः प्रथमं दस्युरासीत् । कथेयं न केवलम् अध्यात्मरामायणे प्रत्युतान्यत्रापि प्राप्यते । एतदपि नाटकं संस्कृत-साहित्य-परिषदः सदस्यैरभिनीतम् ।
विषयवस्तु
[सम्पादयतु]अत्ररत्नाकरो नाम मल्लभिक्षुः क्वचिदपि भिक्षां न लभते । स धनिनां धनं बलादाहर्तुमिच्छति । तस्मिन्नेव समये काचित् भिक्षुकी गायति -
जीव गुणाकर सुचरितमनुसर खलतां परिहर वह बहुमानम्।
भौतिककाये दुरितसहाये मा कुरु मा कुरु गौरवदानम्।।
विधिविपरीतं विधिमनुभीतं मानसमधिकुरु लसदवधानम्।
वरमिह मरणं सुचरितशरणं तदपि वरं नहि पापविधानम्।।
कश्चिद् दस्युस्तत्रागत्य कस्याश्चित्स्त्रियाः समस्त-सामग्री-हरणानन्तरं स दुरात्मा तया सह रमणं कर्तुमभिललाष । रत्नाकरो दण्डप्रहारेण तस्करम् अपसार्य तां ररक्ष । सा स्वकीयां समग्रामपि सामग्रीं रत्नाकराय दातुमियेष । रत्नाकरो ब्रूते -
'भवत्या मातृतुल्याया नापरं किञ्चिदर्थये।
मनस्तापविनाशार्थमाशीरेव प्रदीयताम्।।'
वीरबलनामधेयेन तेन तस्करेण सह रत्नाकरस्य सहता सञ्जाता । रत्नाकरो दस्युसङ्घस्य नेता बभूव । ते सर्वेऽपि चौराः धनिनां धनमपहृत्य दीनेभ्यो वितरन्ति स्म । रत्नाकरः साम्यवादसिद्धान्तविषये ब्रवीति -
गर्वं खर्वयत प्रभावजनितं वित्तेश्वराणां मुहुः।
सर्वेषां समतास्तु भूमिवलये दैन्यं लयं गच्छतात्।
एको भूरिविलासभोगनिरतो भोज्यं विना चापरः।
प्राणैरेव वियुज्यते कथमिदं वैषम्यमालोक्यताम्।।
तृतीयाङ्के रत्नाकरः सुहृद्भिः सह कामेश्वरस्य राजधानीमाक्रमितुमियेष । तं कपटप्रबन्धेन भ्रान्तं कृत्वा असौ तस्य समस्तं कोश-धनं जहार । राजपुरुषैः सर्वं रहस्यं ज्ञातम् । ते सर्वेऽपि निगृहीताः मुहुर्मुहुश्च ताडिताः। किन्तु सहचराणां सहयोगेन पुनरपि मुक्ता अजायन्त । रत्नाकरस्य कुकृत्यैर्दुःखितस्य पिता आत्महत्यां चकार । अष्टमाङ्कानुसारं रत्नाकरपरिवारस्य सर्वेऽपि सदस्याः मृत्युं प्राप्तवन्तः । रत्नाकरोऽपि क्रूरां वृत्तिं परित्यज्य तपस्यायां संलग्नोऽभवत् ।
विशेषम्
[सम्पादयतु]एकोक्तीनां विपुलता समुल्लेखनीयास्ति । रङ्गपीठे राज्ञो तस्य वेश्यायाश्च परस्परालिङ्गनम् अभारतीयम्। प्रथमाङ्केऽन्योन्यताडनस्य दृश्यं मनोरञ्जकं वर्तते।