कालीपदः
कालीपदः | |
---|---|
जननम् | विंशतिशताब्दी |
वृत्तिः | लेखकः |
राष्ट्रीयता | भारतीयः |
प्रकारः | नाट्यकारः |
विषयाः | पौराणिकनाटकानि |
प्रमुखकृतयः | नलदमयन्तीयम्, माणवक-गौरवम्, अशान्तरत्नाकरम्, स्यमन्तकोद्धारम् |
विषयैः प्रभावितः
भारतीयपुराणशास्त्रम्
|
कालीपदस्य उपनाम काश्यपकविरस्ति । वङ्गदेशीयः एषः कविः संस्कृतभाषायां, वङ्गभाषायां च रचनाः अकरोत्।
कुटुम्बः, अध्ययनं च
[सम्पादयतु]अद्यतनस्य बाङ्गलादेशस्य फरीदपुरमण्डले कविरयं तर्कभूषणस्य हरिदासशर्मणस्तनय आसीत् । अयं १८८८ ख्रीष्टाब्दे जन्म लेभे। अस्य परिवारः कान्यकुब्जप्रदेशीयः श्रूयते । कालीपदस्य पौर्विको भ्राता हरिदाससिद्धान्तवागीश आसीत् । अनेन महामहोपाध्यायस्य शिवचन्द्रसार्वभौमस्य सकाशात् संस्कृतमधीतम् ।
वृत्तिः, उच्चशिक्षा च
[सम्पादयतु]कालीपदेन विद्यालयेषु संस्कृतस्य अध्यापनं प्रारब्धम् । स कोलकातानगर्यो राजकीय-संस्कृत-विद्यालये न्यायविभागे प्राध्यापकपदम् अलञ्चकार । बहूनां पत्रिकाणां सम्पादनमनेन कृतम् । संस्कृतपरिषदः पत्रिकायामस्य निबन्धाः काव्यमालिकाश्च प्रायशः प्रकाशिताः । १९७२ ईशवीये वर्दवान-विश्वविद्यालयेन असौ ‘डी० लिट्’ इत्युपाधिना समलङ्कृतः ।
रचनाः
[सम्पादयतु]तेन बहूनि पुस्तकानि विरचितानि । महाकाव्य-काव्यगद्य-पद्य-समालोचना-दर्शनादि-विविध-विषयेषु अनेन ग्रन्था लिखिताः । तेन निम्नलिखिताः दर्शन-ग्रन्था विरचिताः -
१. न्याय-परिभाषा
२. जातिबाधक-विचारः
३. ईश्वर-समीक्षा
४. न्यायवैशेषिकतत्त्वम्
वङ्गभाषायामपि कवेरस्य रचना नितरां प्रसिद्धाः।
कालिपदेन वाराणसेय-संस्कृत-विश्वविद्यालये न्याय-वैशेषिक-दर्शनमधिकृत्य यदध्यक्षीयभाषणं प्रस्तुतम्, यानि च गङ्गानाथझास्मृति-समारोहे त्रीणि व्याख्यानानि समारोपितानि तानि सर्वाण्यपि प्रकाशितानि । स १६७२ ईशवीये दिवङ्गतः।
अनेन विरचितानि त्रीणि नाटकानि सन्ति ।
१. नलदमयन्तीयम् ।
२. माणवक-गौरवम्।
३. अशान्तरत्नाकरम् ।
४. स्यमन्तकोद्धारम् ।
माणवक-गौरवम्
[सम्पादयतु]माणवक-गौरवस्य प्रथमाभिनयः संस्कृत-साहित्य-परिषदादेशानुसारं प्रयुक्तः । अस्यैवाङ्कस्य तृतीयदृश्यपटे कात्यायनो गुरोः परुषताविषये ब्रवीति -
सर्वाः शिष्यहितायैव गुरोः परुषवृत्तयः।
विद्विषन्ति गुरुं मूढाः पुरुषाः पापपङ्किलाः।।
प्रशान्तरत्नाकरम्
[सम्पादयतु]प्रशान्तरत्नाकरस्य रचयिता कालीपदो वर्तते। तस्य अनुबन्धिकायां कालीपदो लिखति यद्, आदिकविः प्रथमं दस्युरासीत् । कथेयं न केवलम् अध्यात्मरामायणे प्रत्युतान्यत्रापि प्राप्यते । एतदपि नाटकं संस्कृत-साहित्य-परिषदः सदस्यैरभिनीतम् ।
नल-दमयन्तीयम्
[सम्पादयतु]नलदमयन्तीयस्य रचना कालीपदेन १६२७ ख्रीष्टाब्दे कृता । नाटकमिदं कालानुरूपं वर्तते । कविः कथयति -
कालानुरूपरचनाप्रचितं यदि स्यात्।
काव्यं तदा कवयितुः कविता चकास्ति।
वीरस्य भूषणमरातिवधे कृपाणं
शृङ्गाररङ्गसमये तदयोग्यमेव।।
स्यमन्तकोद्धारम्
[सम्पादयतु]स्यमन्तकोद्धारं व्यायोगकोटिकं रूपकम् । अस्य प्रणयनं ख्रीष्टाब्दस्य १६३१ वर्षे सञ्जातम् । अत्र मिथ्यावादो यत् कृष्णेन स्यमन्तक-मणि-कृते प्रसेनो हत इति । कृष्णः मित्राणि प्रति सन्देशं प्रेषयति -
सस्नेहदृष्ट्या चिरमेव दृष्टो युष्माभिरासीदमलो हि कृष्णः।
मिथ्यापवादं व्यपनीय भूयः स्नेहं पुराणं पुरतः स पायात्।।
तस्मात् स्थानात् कृष्णो जाम्बवतो गृहमगच्छत् । तत्र तस्य व्यायोगोचितो वार्तालापोऽभूत्।