स्यमन्तकोद्धारम्
स्यमन्तकोद्धारम् | |
---|---|
कृष्णजाम्बवत्योः विवाहः | |
लेखकः | कालीपदः |
देशः | भारतम् |
भाषा | संस्कृतम् |
प्रकारः | रङ्गमञ्चीयाभिनवशैली |
स्यमन्तकोद्धारं व्यायोगकोटिकं रूपकम् । अस्य प्रणयनं ख्रीष्टाब्दस्य १६३१ वर्षे सञ्जातम् । अत्र मिथ्यावादो यत् कृष्णेन स्यमन्तक-मणि-कृते प्रसेनो हत इति । कृष्णः मित्राणि प्रति सन्देशं प्रेषयति -
सस्नेहदृष्ट्या चिरमेव दृष्टो युष्माभिरासीदमलो हि कृष्णः।
मिथ्यापवादं व्यपनीय भूयः स्नेहं पुराणं पुरतः स पायात्।।
तस्मात् स्थानात् कृष्णो जाम्बवतो गृहमगच्छत् । तत्र तस्य व्यायोगोचितो वार्तालापोऽभूत्।
विषयवस्तु
[सम्पादयतु]स्यमन्तकोद्धारो नाम व्यायोगस्त्वेकाङ्की सन्नपि पञ्चदृश्यपरिलसितोऽस्ति । प्रत्येकं दृश्यमङ्कायमानं वर्तते । सर्वाणि पात्राणि तत्र सङ्घीभूय नान्दीपाठं पठन्ति । नाट्यारम्भार्थं प्रस्तावनायां पारिपार्श्वकादयः रूपकवस्तुसम्बन्धनिबन्धिनीं काञ्चित्कल्पितघटनासमस्यां समुपस्थापयन्ति । अष्टादशशतके प्रस्तावनान्ते तु एतादृक् अविधम् आयोजनं सुप्रचलितमासीत् । सर्पदंष्टं कञ्चिद् विलोक्य ब्रवीति सूत्रधारः -
विषघ्नं मणिमाहर्तुं गच्छामि गिरिकन्दरम्।
एष कृष्ण इव प्राप्तः स्वामकीर्तिमपोहितुम्॥
व्यायोगे नियमतो विष्कम्भकप्रवेशकौ न स्तः । रूपकेऽस्मिन् तथापि सर्वत्रार्थोपक्षेपोचितसामग्री तु अङ्कभागे समाविष्टा । रूपकारम्भे सात्यकिपृष्टः कृष्णो ब्रवीति यद् - सूर्यप्राप्तः स्यमन्तकमणिः सत्राजिते स्वभावानुसारं लाभप्रद एवासीत्, किन्तु तस्य पुत्राय प्रसेनाय हानिप्रद् एव। यतो हि प्रसेनः पापकर्मासीत् , मणिरयं च पापात्मानं प्रणाशयति । किमर्थं च कृष्णेन मणिरयं चोरित इति संशयं एतदपि स्पष्टीकुर्वन् माधवो निवेदयति यद्, यदा सत्राजिदिम् आमादाय अत्रागतस्तदा मया ‘मणिरयं सर्वथा राजयोग्य’ इति भणितम् । सपदि समर्पय चैनं महाराजमुग्रसेनम् । सत्राजिता प्रसेनाय मणिं समयं विपरीतमेवाचरितम् ।
वनदेवी-जाम्बवद्-विष्णुशक्तिग्रभृतीनां मानवरूपेण रङ्गमञ्चावतरणं छायातत्त्वात्मकं प्रतिभाति। चतुर्थदृश्ये स्यमन्तकमणियुग्मप्राप्तुकामस्य दारकस्य बालहठसुलभं संविधानं विशेषरमणीयमेव । रूपकेऽस्मिन् वीररस एवाङ्गीरसपदं प्रापितः किन्तु एतस्याद्यन्तव्यापिनी स्थितिर्नास्ति । अन्तिमदृश्यं सर्वथा शृङ्गारपरिलसितमेव । शब्दविन्यासः समप्रसंस्थानशोभावर्द्धक एवास्ति । यथा अधस्ताच्छ्लोके वनप्रियकोकिलस्य प्रयोगः -
बहुश्रुतानां भवतां समागमाद् विशीर्यते मुग्धजनस्य मन्दता।
वसन्तसङ्गाज्जडिमानमात्मनो वनप्रियो मुञ्चति पञ्चमस्वरे॥
कालीपदस्त्वेकोक्तीनां प्रभविष्णुतायां विशेषरूपेण आस्थावान् वर्तते । रूपकेऽस्मिन् गीतानां प्रयोगो बाहुल्येन कृतः कविना । बहुविधप्रयोजनानुसारम् अनेकगीतसमावेशोऽस्ति । वनदेवी तु योग्यतानुसारं सर्वत्रैव गायति । यथा -
'तापस-पूजित, कौस्तुभशोभित भक्तवशीकृतविश्वपते।'
न केवलं गीतस्य पञ्चमदृश्येऽपितु रङ्गपीठे नृत्यस्यापि समायोजनमस्ति। कुमार्यो नृत्यन्ति, गायन्ति च । स्यमन्तकोद्धारस्य सूक्तिराशिरपि रमणीयोऽस्ति । यथा -
१. जनेषु लब्धमानस्य गुणाढ्यस्य मनस्विनः ।
जीवनं मरणं साक्षादपवादो भवेद् यदि।।
२. यदेव पश्यन्ति महाजनानां वृत्तं जनास्तत्र रतिं श्रयन्ते ।
कलङ्कसंशयक्षिप्तैः कटाक्षैर्जनसंसदि ।
बान्धवैरीक्ष्यमाणानां जीवनं मरणायते।।
रूपकेऽस्मिन्नारभट्याश्चरमकोटिको विन्यासः समुपलभ्यते।