सामग्री पर जाएँ

सात्यकिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सात्यकिः महाभारतस्य किमपि पात्रम् अस्ति। अयं भ्राता।युद्धस्य सर्वाणि १८ दिनानि एषः रणाङ्गणे उपस्थितः आसीत्। युद्धस्यान्ते अश्वत्थामा रात्रौ कपटेन पाण्डवानां शिबिरं ज्वालितवान्।तस्मिन् अग्निकाण्डे शिबिरे निद्रितस्य युयुधानस्य दाहः अभवत्।

पराक्रमी यादववीरः।आजीवनं स कृष्णस्य अर्जुनस्य च साहाय्ये सिद्धः आसीत्।राजसूययज्ञे सः कृष्णेन सह आसीत्।सः सततं राज्यलाभार्थं सङ्घर्षं कर्तुं पाण्डवान् प्रेरयति स्म।कुरुक्षेत्रे सप्तसु महावीरेषु अयम् अन्यतमः। अष्टादश दिवसान् अपि अयं रणे आसीत्। युद्धे तस्य अविरतं सर्वत्र सञ्चारः आसीत्।युद्धे एकस्मिन् दिने सात्यकिः श्रान्तः। श्रान्तं तं कौरववीरः भूरिश्रवाः रथाद् अधः पातयामास।सात्यकिं केशेषु धृत्वा भूरिश्रवाः तस्य शिरच्छेदार्थं खड्गम् उत्थापितवान्।तावद् अर्जुनः तत्र प्राप्तः।तेन सत्वरं भूरिश्रवसः हस्तः सखड्गः छेदितः। अधर्म्यम् एतद् इति मत्त्वा भूरिश्रवाः शस्त्रसंन्यासम् अकरोत्। निःशस्त्रः सः स्वरथे तूष्णीम् उपाविशत्। तावत् सात्यकिः तस्य रथम् आरूढः। खड्गेन सः निःशस्त्रस्य भूरिश्रवसः शिरः कर्तितवान्।बहोः कालात् पूर्वं भूरिश्रवसः पिता सात्यकेः पितामहस्य मस्तके पादप्रहारं कृतवान्।तस्य प्रतिशोधः आसीद् एषः। युद्धस्य अन्ते अश्वत्थामा कपटेन रात्रौ पाण्डवानां शिबिरं ज्वालितवान्। द्रष्टा श्रीकृष्णः ततः पूर्वमेव सर्वान् पाण्डवान् तथा सात्यकिमपि शिबिराद् दूरं नीतवान्। सात्यकिः तदा अपि रक्षितः। गीतायां तस्य वर्णनं कृतं – ‘सात्यकिश्चापराजितः’ तद् अत्र स्मर्यते।महाभारतयुद्धानन्तरं सात्यकिः द्वारकां प्रतिनिवृत्तः। तत्र सः शान्तिपूर्णां कालक्रमणां कृतवान्।एकवारं प्रभासतीर्थे यादवाः अतिमद्यपानेन उन्मत्ताः।तेषां परस्परं महान् सङ्घर्षः जातः। तत्र सात्यकिः हतः।‎

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=सात्यकिः&oldid=453185" इत्यस्माद् प्रतिप्राप्तम्