माणवकगौरवम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
माणवकगौरवम्  
Atreyamuni.jpg
सशिष्यः गुरुः
लेखकः कालीपदः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनयशैली

माणवकगौरवस्य प्रथमाभिनयः संस्कृत-साहित्य-परिषदादेशानुसारं प्रयुक्तः ।

विषयवस्तु[सम्पादयतु]

अत्र आचार्यः धौम्यो विलम्बोत्थितं कात्यायनं छात्रान्तराणि विनिद्रयितुमादिष्टवान् । ते सर्वेऽपि छात्रा गुरुमातुः स्नानार्थं सरोवर-गामिमार्गस्य सौष्ठवकरणे दत्तावधाना बभूवुः । हारीतेन विरुद्धमाचरितम्।

एकस्मिन् दिवसे स्नात्वा निवर्तमानो धौम्यो क्षुधा-पिपासा-मूर्छितम् उपमन्युं नाम कञ्चिच्छिक्षार्थिनं व्यलोकयत् । स तं कमण्डलुजलेन जीवयामास ।

द्वितीयाङ्के आरुणिनामकस्य छात्रस्य पितरौ चिन्तितौ दृश्येते । माता गुरोः कठोरतामेव निरन्तरं वर्णयति, किन्तु पितुः समाश्वासनेन उपनीतः स गुरोरादेशपालने सर्वाधिको दृढव्रतो बभूव । कदाचित् स केनचित् सर्पेण दंशितः । तेनैव पथा गच्छता धन्वन्तरिणा विहितचिकित्सोऽसौ पुनरपि जीवितो जातः।

चतुर्थाङ्के हारीतो गुरुद्वेषकारणात् कुष्ठपीडितोऽस्ति | धौम्यस्तं सूर्योपस्थानार्थमादिष्टवान् । उपमन्युः गोचारणकार्ये नियुक्त आसीत् । सोऽपि महत् कष्टमन्वभूत् । गुरोर्मनोधारणासीद् यत् सुवर्णं तप्तं भूत्वैव रमणीयालङ्कारतां प्रयाति -

विना हुताशस्य विशेषतापनं न जातु शुद्धिं समुपैति काञ्चनम्।

न वा तदेवायसताडनाद् ऋते मनोहरालङ्करणत्वमञ्चति।।

आरुणेर्गुरुभक्तिं दृष्ट्वा धौम्यो निजगाद - 'सम्पूर्णमद्य ते सुदुष्करं शिष्यव्रतम् । तदद्यारभ्य सर्वास्ते विद्याः सरहस्या प्रतिभास्यन्ति।'

एकस्मिन् दिवसे सन्ध्यायामुपमन्युर्धेनूः समादाय न प्रत्याजगाम । स आन्ध्यदोषात् कूपे निपतितः । स गुरोरनुग्रहेण पुनरपि लब्धदृष्टिर्जातः । हारीतोऽपि स्वकीयगुरुद्रोहकारणवशात् कुष्ठपीडया निरन्तरं रोदति । यथा -

अश्रुणा तस्य दीनस्य हृदय-प्लाविना भृशम्।

सानुतापविलापैश्च पाषाणोऽपि विदीर्यते ॥

विहङ्गकुलनिर्ह्रादैः सायं शिशिरबिन्दुभिः।

तद्दुःखदुःखिता नूनं रुदन्ति वनदेवताः।।

सोऽपि गुरोः अनुग्रहेण झटित्येव कुष्ठविहीनोऽभवत् । मूर्तिमती गुरुभक्तिर्गगनतो बव्रे - 'शिष्ये गुरौ च यशसामभिवृद्धिरस्तु' इति।

विशेषम्[सम्पादयतु]

माणवकगौरवस्य कथानकं सर्वथा नवीनमेव । नायको ब्राह्मणोऽस्ति । नाटकस्यास्य संविधानं संस्कृतिपरकम् । राजतन्त्रस्य, मुनिजीवनस्य, नीतेश्च सूक्ष्मनिदर्शनं पदे-पदे परिभाषितम् । अस्य भूमिका महत्त्वशालिनी। नाटके जागरणस्य गीतानां बाहुल्यं वर्तते । यथा प्रथमाङ्के चतुर्थदृश्य-पटस्यारम्भो ब्रह्मचारिणो निम्नलिखितेन गीतेन भवति -

अयि जागृति मूढ जीव निद्रां किमु सेवसे।

न कथमरुणरागरक्तपूर्वगगनमीक्षसे।।

द्वितीयाङ्क तृतीयाङ्कयोर्मध्यभागो विवेकगानरूपः । सर्वेषु पात्रेषु गतवत्सु रङ्गमञ्चे विवेक एकाक्येवागच्छति । सप्तमाङ्कस्य तृतीयदृश्ये गुरुभक्तेर्गीतमेवं वर्तते -

'अभया गुरुपदसेवा, यो गुरुमञ्चति कुशलं स भजति। तस्य हि तुष्टा देवाः ||'

नाटके दृश्यपटानां विशेषता वर्तते । वैतालिका रूपकान्तरेषु प्रायोऽङ्कान्तभागे कालवर्णनं प्रकुर्वन्ति । नाटकेऽस्मिन् कार्यमिदं धौम्येन सम्पाद्यते । एकोक्तीनां सर्वत्र बाहुल्यं वर्तते । प्रथमाङ्कस्यैकोक्तौ धौम्यो देश-कालस्य वैषम्यं प्रति समुद्विग्नतां व्यनक्ति । अस्यैवाङ्कस्य तृतीयदृश्यपटे कात्यायनो गुरोः परुषताविषये ब्रवीति -

सर्वाः शिष्यहितायैव गुरोः परुषवृत्तयः।

विद्विषन्ति गुरुं मूढाः पुरुषाः पापपङ्किलाः।।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=माणवकगौरवम्&oldid=434789" इत्यस्माद् पुनः प्राप्तिः