प्राचीनविश्वविद्यालयाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


भारतदेशे शिक्षाप्रक्रिया एवं गुरुकुलद्वारा विकसिता । वसिष्ठः, कण्वः, व्यासः, भरद्वाजः, परशुरामः शौनकः, सान्दीपनिः जाबालिः, इत्यादीनां महर्षीणां गुरुकुलानि तदा प्रसिध्दाः आसन् ।

  • वसिष्ठानां गुरुकुलम् अयोध्यानगरस्य उत्तरभागे हिमालयपर्वतप्रदेशे आसीत् । वसिष्ठः इति महर्षिः इक्ष्वाकुवंशस्य कुलगुरुः आसीत् ।
  • कण्वाश्रमः मालिनीनदीतीरे हिमालयस्य समीपे आसीत् । तत्र वेदवेदाङ्गानि दर्शनानि इत्यादीनां शास्त्राणाम अध्ययनं प्रचलति स्म । शकुन्तला कण्वमहर्षिणा पुत्रीत्वेन परिगृहीता आसीत् । राजा दुष्यन्तः यदा एतेषाम् आश्रमं प्रविष्टः तत्रत्यां व्यवस्थां संवीक्ष्य आश्चर्यचकितः जातः । यतः तत्र आश्रमपरिसरे ऋग्वेदयजुर्वेदसामवेदानां पाठाः प्रचलन्ति स्म ।
  • व्यासमहर्षेः आश्रमः हस्तिनापुरात् गङ्गानदीतः च अग्रे हिमालयस्य निकटे आसीत् ।
  • गङ्गायमुनयोः तीरप्रदेशे भरद्वाजमुनेः आश्रमः आसीत् । द्रोणद्रुपदौ एतेषां शिष्यौ आस्ताम् । आयुर्वेदशास्त्रस्य विद्वान् अग्निवेशोऽपि अस्मिन् गुरुकुले एव शिक्षां प्राप्तवान् । तदा गुरुकुले वेदवेदाङ्गैः सह आयुर्वेदधनुर्वेदाद्युपवेदानामपि अध्ययनम् असीत् । आचार्य भरद्वाजोऽपि एषु शास्त्रेषु पाण्डित्यं प्राप्तवानासीत् । अष्टादशविद्यानाम् अध्ययनं भवति स्म ।

तानि च –

  अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः
                   पुराणं धर्मशास्त्रं च विद्याह्येताश्चतुर्दश ।
आयुर्वेदो धनुर्वेदोगन्धर्वश्चेति ते त्रयः
                     अर्थशास्त्रं चतुर्थं तु विद्याह्यष्टदशैव हि ॥

  • परशुरामाश्रमः महेन्द्रपर्वतप्रदेशे आसीत् । भीष्मकर्णौ च तस्य गुरुकुले एव अधीतवन्तौ ।
  • शौनकानां गुरुकुलं नैमिषारण्ये स्थितमासीत् । तस्मिन् काले एतत् गुरुकुलम् अत्यन्तं महत् विद्याकेन्द्रमासीत् । अत्रापि दश सहस्राधिक छात्राः अध्ययनं कुर्वन्ति स्म ।
  • सान्दीपनेः आश्रमः उज्जयन्याः समीपे अवर्तत । कृष्णसुदामौ अत्रैव विद्याभ्यासं कृतवन्तौ । एतेन कारणेनैव एतत् गुरुकुलम् ऎतिहासिकमहत्त्वं प्राप्तवदस्ति ।

एषु गुरुकुलेषु अध्यापनार्थं ये आचार्याः अध्यापकाः च भवन्ति तेषां जीवननिर्वहणार्थं निश्चितरुपेण भूभागाः अपि स्थाप्यन्ते स्म । ते भूभागाः अपि करमुक्ताः आसन् । छात्राः विशेषरुपेण गुरुणां संरक्षणे एव भवन्ति स्म । गुरुणां सम्मुखे एव अध्ययनं कुर्वन्ति इति कारणतः तान् अन्तेवासिनः इत्येव आह्वयन्ति “ अन्ते समीपे वस्तुं शीलं यस्य सः अन्तेवासी” इति ।

सम्बद्धाः लेखाः[सम्पादयतु]