जन्तवः
जन्तवः/Animals | ||||
---|---|---|---|---|
जैविकवर्गीकरणम् | ||||
| ||||
उपविभागीयस्तरः | ||||
| ||||
प्राणिनः अनेमालिया/मेटाजोवा वंशस्य बहुकोशजीवाः सन्ति । जन्तूनां शरीररचना जन्मादारभ्य निर्धारितरूपेण विकसितं भवति । केषाञ्चन जन्तूनां जीवने कायान्तरणप्रक्रिया भविष्यति । अधिकांशः प्राणिनः स्वतन्त्ररूपेण गतिशीलाः वर्तन्ते । केचन परावलम्बिनः भवन्ति । भूमौ प्राणिनां जन्म ५४२ वर्षेभ्यः पूर्वेभ्यः आसीत् इति विश्वासः । प्रथमस्तरे प्राणिनां जन्म समुद्रे अभवत् इति विज्ञानिनां मतम् । पशवः जीविनः वर्तन्ते। ते स्वभोजनं रचयितुं न शक्नुवन्ति। अतः ते अन्यान् पशून् पादपान् अथवा गोलासान् भक्षयन्ति। केचन पीठमर्दाः(नायकस्य साहय्यका:) अपि सन्ति। अस्मिन् जगति अनेकाः पशुजातयः सन्ति। केचन पशवः विशालाः केचन लघवः सन्ति। केचन पशवः जलवासिनः सन्ति। केचन पशवः उड्डयनॆ समर्था:। शाकभक्षकाः पादपान् खादन्ति। मांसभक्षकाः अन्यान् पशून् भक्षयन्ति। उभयभक्षकाः पशून् पादपान् च खादन्ति। केचन पशवः सङ्गे वसन्ति। अन्ये पशवः एकचारिणः सन्ति। भ्रमराः करण्डे वसन्ति। तेषां नेत्री भ्रमर-राज्ञी इति कथ्यते। लोकेSस्मिन् विविधाः पशवः सन्ति। तान् यथावर्गं रचयितुम् शक्नुमः। तेषु द्वौ प्रमुखौ वर्गौ स्तः अस्थिमन्तः अनस्थिमन्तः च। कर्कटाः वृश्चिकाः प्रवालाः कीटाः षट्पदाः शम्बूकाः च अनस्थिमन्तः सन्ति। अस्थिमत्सु पञ्चवर्गाः सन्ति। ते मत्स्याः मण्डूकादयः सर्पादयः पक्षिणः कशिनः च।--Mahesh239 (चर्चा) १०:०१, ३० जनुवरि २०१४ (UTC)
शब्दोत्पत्तिः
[सम्पादयतु]प्राणः यस्य अस्ति सः प्राणी ।‘प्राण’ शब्देन सह ‘इन्’ प्रत्ययस्य योजनेन प्राणी शब्दोत्पत्तिः । आङ्ग्लभाषायाम् ‘एनिमल्’ इत्येषः शब्दः लेटिन् भाषायाः ‘अनिमालिया’ इत्येतस्मात् शब्दात् उत्पन्नः । कन्नडे–पाणि, हिन्दी-प्राणि, तमिळु–मिरुगम्, विलन्गु, बङ्गाली-जोन्तु, जानोवर् इत्यादिभिः शब्दैः निर्दिश्यते ।
आहार-शक्तिमूलाः
[सम्पादयतु]सर्वे प्राणिनः स्वयम् अथवा परसाहाय्येन आहारं सम्पादयन्ति । आहारम् अनुसृत्य तेषां भेदाः एवं सन्ति – मांसाहारिणः, सस्याहारिणः, उभयाहारिणः, परपोषिणः च । मूलतः सूर्यस्य शक्तिः एव प्राणिनां शक्तिरूपेण परिवर्तितं भवति यतः प्राणिनः सस्यानि अथवा सस्याहारिजीवान् एव खादन्ति । तेषु स्थिताः इङ्गालस्य घटकाः प्राणिनां शरीरं संवर्धयन्ति ।
वर्गीकरणम्
[सम्पादयतु]अरिस्टाटल् महोदयः [ग्रीक् दार्शनिकः, प्लेटो महोदयस्य शिष्यः, नाना क्षेत्रेषु प्रतिभासम्पन्नः] आधुनिकरीत्या जन्तूनां वर्गीकरणम् आरब्धवान् । तदनन्तरं केरोलस् लिनियस् महोदयः समुचितरीत्या वर्गीकरणम् अग्रे नीतवान् । तेन मतेन प्रमुखतः पञ्च विभागाः आसन् –सूक्ष्मजीवाः, जलचराः, सरीसृपाः, उभयपदिनः, सस्तन्यः चेति । एषु पुनः अनेके विभागाः भवन्ति । ।
प्राणिनां वर्गीकरणम् एवमपि क्रियते - अस्थिमन्तः अनस्थिमन्तः इति । कर्कटाः वृश्चिकाः प्रवालाः कीटाः षट्पदाः शम्बूकाः च अनस्थिमन्तः सन्ति । अस्थिमत्सु पञ्चवर्गाः सन्ति । ते मत्स्याः मण्डूकादयः सर्पादयः पक्षिणः कशिनः च ।
वर्गीकरणम्
[सम्पादयतु]महासाम्राज्यम्: Biota
- साम्राज्यम्: Eukaryota (येषां कोशेसु कोशकेन्द्रम् अस्ति)
- राज्यम्: Metazoa (येषां बहवः कोशाः सन्ति)
- राज्यकम्: Parazoa (येषाम् ऊतयः न सन्ति)
- विभागः: Porifera (demospongiae)
- राज्यकम्: Eumetazoa (येषाम् ऊतयः सन्ति)
- विभागः: Placozoa
- विभागः: Ctenophora
- विभागः: Cnidaria
- विभागः: Platyhelminthes
- विभागः: Rotifera
- विभागः: Annelida
- विभागः: Mollusca
- विभागः: Cephalorhyncha
- विभागः: Onychophora
- विभागः: Nematoda
- विभागः: Arthropoda
- विभागः: Xenoturbellida
- विभागः: Vetulicolia
- विभागः: Echinodermata
- विभागः: Asteroidea (?)
- विभागः: Hemicordata
- विभागः: Chordata
- श्रेणी: Pisces (piscis)
- श्रेणी: Amphibia
- श्रेणी: Reptilia
- वर्गः: Testudinata (कच्छपः)
- वर्गः: Squamata (ललन्तिका)
- वर्गः: Ophidia (सर्पः)
- वर्गः: Crocodylia (मकरः)
- श्रेणी: Aves
- श्रेणी: Mammalia
- वर्गः: Artiodactyla
- वर्गः: Perissodactyla (अश्वः गण्डकः च)
- वर्गः: Proboscidea (हस्थी)
- वर्गः: Cetacea (तिमिङ्गिलः मत्स्यभेदः च)
- Rodentia (मूषः)
- वर्गः: Lagomorpha (शशः)
- वर्गः: Chiroptera (जतुः)
- वर्गः: Primates (कपिः मनुष्यः च)
- वर्गः: Carnivora
- राज्यकम्: Parazoa (येषाम् ऊतयः न सन्ति)
- राज्यम्: Metazoa (येषां बहवः कोशाः सन्ति)