फलकम्:मुख्यपृष्ठं - प्रमुखः लेखः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ईशोपनिषदः शान्तिमन्त्रः

ईशावास्योपनिषत् शुक्लयजुर्वेदीया उपनिषत्। उपनिषत्सरणौ ईशोपनिषत् प्रथमा वर्तते। शुक्लयजुर्वेदस्य संहितोपनिषदियम्। अष्टादशमन्त्रात्मिका विद्यते। इयम् उपनिषत् ज्ञानभक्तिकर्ममार्गाणां समन्वयम् उपदिशति। अत्रत्यः तत्त्वोपदेशः सर्वाङ्गपरिपूर्णः विद्यते। पूर्णमदः पूर्णमिदमिति शान्तिपाठः आरभ्यते। अनन्तगुण-अनन्तशक्ति-अनन्तज्ञानेन युक्तः परमात्मा सर्वसम्पूर्णः। इदं व्यक्तविश्वमपि नियमबद्धमित्यतः वस्तुतः सम्पूर्णमस्ति। (अधिकवाचनाय)