विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अद्यतनं सुभाषितम्
|
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्।
तथा पुराकृतं कर्म कर्तारमनुगच्छति ॥
- सु.भा. - दैवाख्यानम् (९५/१२)
सहस्राधिकाः धेनवः सन्ति चेत् अपि वत्सः तासु धेनुषु स्वमातुः एव समीपं गत्वा तामेव अनुसरति। तथा एव अस्माभिः पूर्वजन्मनि कृतानि कर्माणि अस्मान् अनुसरन्ति एव। |