फलकम्:Main Page
जाले तव स्वागतम् अस्ति।
एषः कश्चन मुक्तः ज्ञानकोशः,
यस्मिन् कोऽपि सम्पादनं कर्तुं शक्नोति।
संस्कृते १२,५३१ लेखाः सन्ति।

रामायणम् रामस्य अयनं (चरितं) रामायणम्। आदिकाव्यस्य रामायणस्य कर्ता श्रीमद्वाल्मीकिः। रामायणे न केवलं युद्धमात्रं वर्णितम् अपि च सकलालङ्काराणां प्रकृतिसौन्दर्यस्य च धर्मस्य च वर्णनं दृश्यते। सरलसंस्कृतभाषापठनार्थम् अत्यन्तोपयोगि साधनं च भवत्येतत्। महाभारते रामायणस्य कथा वर्णिता दृश्यते। पाणिनेः अष्टाध्याय्याम् अपि कैकेयीकौसल्यादयः शब्दाः दृश्यन्ते। अतः रामायणं महाभारतात् पाणिनेः च पूर्वम् आसीत् इति स्पष्टम्। रामायणं कदा आसीत् इति विषये मतभेदाः बहवः सन्ति। तथापि एतावत्तु वक्तुं शक्यते यत् वाल्मीकिः रामायणं क्रि•पू•पञ्चसहस्रवर्षेभ्यः पूर्वं रचितवान् स्यात् इति। (अधिकवाचनाय »)

विजयनगरसाम्राज्यस्य स्थापना कर्णाटकराज्ये चतुर्दशशतकस्योत्तरार्धे अभवत्। कर्णाटकस्य इतिहासे अत्यन्तं प्रमुखघटना एषा इति इतिहासकाराः वदन्ति। विजयनगरसाम्राज्यं १३३६ तमे वर्षे हरिहरः (हक्क) तथा बुक्करायः इति सहोदराभ्यां संस्थापितम्। अस्य साम्राज्यस्य राजधानी आसीत् विजयनगरम्। विजयनगरम् इदानीन्तनस्य कर्णाटकस्य "हम्पी"प्रदेशः। कृष्णदेवरायस्य शासनावसरे एतत् साम्राज्यम् उत्तुङ्गस्थितिं प्राप्नोत्। यद्यपि १५६५ तमे वर्षे ताळीकोटेयुद्धे अस्य साम्राज्यस्य पराभवः जातः तथापि पुनरेकं शतकं यावत् लघुप्रमाणेन शासनम् अकरोत्। तदानीन्तनकालस्य दक्षिणभारतस्य राज्यानि इण्डोनेशियापर्यन्तम् अपि प्रभावस्य प्रसारम् अकुर्वन्। विशालः आग्नेय-एषिया-प्रदेशः अपि एतेषाम् अधीने आसन्। कालान्तरे हिन्दुराजवंशाणां बहमनिसुल्तानानां च परस्परं कलहः आरब्धः। तस्य परिणामरूपेण तावत्पर्यन्तं दूरे एव स्थितयोः हिन्दु-मुस्लिं-संस्कृत्योः परस्परं सम्पर्कः सञ्जातः। कला-शिल्पकलाक्षेत्रे विजयनगरसाम्राज्यस्य योगदानं महत् अस्ति। कन्नडं,तेलुगुभाषा, संस्कृतभाषायाःइत्यादिभाषासाहित्ये अपि तेषां योगदानम् अविस्मरणीयम्। अस्य साम्राज्यस्य पतनस्य कारणीभूताः उत्तरभारते साम्राज्यस्थापनं कृतवन्तः सुल्तानाः। एते सुल्तानाः रजपूतानां स्थानस्य देहल्याः समीपे एव प्रथमं राज्यस्थापनम् अकुर्वन्। विजयनगरसाम्राज्यस्य पतनेन सह २००० वर्षाणि यावत् पुरातनी भारतस्य अभिजातसंस्कृतिः ह्रासमार्गम् आप्नोत्, भारतीये इतिहासे नवः अध्यायः च आरब्धः। (अधिकवाचनाय »)
- उत्तराखण्ड-राज्ये संस्कृत-आयोगस्य स्थापना
22 जुलाई 2026 तमे दिनाङ्के उत्तराखण्ड-राज्य-सर्वकारेण संस्कृत-भाषायाः प्रवर्धनाय 'संस्कृत-आयोगः' इति स्थापयितुं निर्णयः कृतः। अस्य आयोगस्य उद्देश्यं संस्कृत-शिक्षणस्य, अनुसन्धानस्य, प्राचीन-पाण्डुलिपीनां डिजिटल-करणस्य, भारतीय-ज्ञान-परम्परायाः तथा च एआई-क्षेत्रे संस्कृतस्य उपयोगस्य वर्धनम् अस्ति। मुख्यमन्त्रिणा पुष्कर-सिंह-धामिना 10 अगस्त 2026 पर्यन्तं विदूषां परामर्शः आहूतः।
* प्रधानमन्त्रिणा एक्स-मञ्चे संस्कृत-सुभाषितं प्रेषितम्
21 जुलाई 2026 तमे दिनाङ्के भारतस्य प्रधानमन्त्रिणा नरेन्द्र-मोदिना एक्स-मञ्चे एकं संस्कृत-सुभाषितं प्रकाशितम्। अत्र तेन एकाग्रतायाः सङ्कल्प-शक्तेः च महत्त्वं प्रतिपादितम्। "एकाग्रताथ सङ्कल्पः स्नायुवद् वर्द्धनक्षमौ। नित्याभ्यासप्रयोगाभ्यामधिकाधिकमृध्यतः॥" इति श्लोकम् उद्धृत्य तेन स्पष्टं कृतं यत् निरन्तराभ्यासेन एव मनुष्यस्य सङ्कल्प-शक्तिः वर्धते।
* अस्ट्रेलियादेशस्य एडिलेड-नगरे पैसिफिक-संस्कृत-सम्मेलनम्
20 जुलाई 2026 तमे दिनाङ्के अस्ट्रेलियादेशस्य एडिलेड-नगरे बीएपीएस श्रीसहजानन्दस्वामिमन्दिरे पञ्चदिवसीयं पैसिफिक-संस्कृत-सम्मेलनम् आयोजितम्। अस्मिन् सम्मेलने अस्ट्रेलिया-न्यूजीलैंड-देशाभ्यां सार्धत्रिशताधिकैः प्रतिनिधिभिः सहभागिता कृता, येषु 292 छात्राः आसन्। अत्र बीएपीएस सहजानन्दस्वामि-अनुसन्धान-संस्थानेन प्रचालितानाम् अन्तर्जालीय-संस्कृत-पाठ्यक्रमाणां महत्त्वं प्रदर्शितम् अस्ति। अनेन सम्मेलनेन संस्कृत-भाषायाः प्रसारः सञ्जातः।
यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः।
लोके सामान्यः पुरुषः अपि अन्यैः कृतं स्वस्य अपमानं न सहते। स्वाभिमानी पुरुषः अन्यैः कृतम् अपमानं न सहते इति तु न वक्तव्यम्। तस्य उदाहरणम् अपि कविना दत्तं यत् सूर्यकान्तमणिः यदा सूर्यकिरणैः स्पर्शं प्राप्नोति तदा झटिति प्रज्वलति। अचेतने मणौ एव एतादृशः स्वभावः दृश्यते। सचेतनानां विषये तु वक्तव्यमेव नास्ति। |