फलकम्:Main Page
जाले तव स्वागतम् अस्ति।
एषः कश्चन मुक्तः ज्ञानकोशः,
यस्मिन् कोऽपि सम्पादनं कर्तुं शक्नोति।
संस्कृते १२,२८४ लेखाः सन्ति।
यजुर्वेदः यजूंषि गद्यानि। अध्वर्युणा यज्ञे उपयुज्यमाना मन्त्रा एवात्र यजुर्वेदे सङ्कलिताः, यज्ञस्य वास्तविकं विधानमध्वर्युरेव करोति, अतोऽयं यजुर्वेदो यज्ञविधेरतिसन्निकृष्टं सम्बन्धं रक्षति। यजुर्वेदो द्विप्रकारकः, कृष्णयजुः शुक्लयजुश्च। पौराणिकाः कथयन्ति – व्यासो वैशम्पायनाय वेदं प्रोवाच, स स्वशिष्याय याज्ञवल्क्याय। कुतोऽपि कारणाद् रुष्टो वैशम्पायनो याज्ञवल्क्यमुवाच – देहि मदधीतं वेदमिति। याज्ञवल्क्यो गुरुवचनपालनाय ततोऽधीतं वेदं सद्योवान्तवान्। अन्ये वैशम्पायनशिष्यास्तित्तिरिरुपं धृत्वा याज्ञवल्क्येन वान्तं वेदं गृहीतवन्तः। स एवायं वान्तगृहीतो वेदः कृष्णयजुर्वेदः। वैशम्पायने कुपिते ततोऽधीतं वेदं विसृज्य याज्ञवल्क्यः पुनर्वेदाधिगतये सूर्यमाराधयामास, ततश्च वेदमापततोऽयं वेदः शुक्लयजुर्वेदनाम्नाऽप्रथत। (अधिकवाचनाय »)

मकरसङ्क्रमणं भारतीयानां प्रमुखपर्वसु अन्यतमम् । अस्मात् दिनात् परमपवित्रस्य उत्तरायणकालस्य आरम्भः । इदं पर्व तिलपर्व इत्यपि निर्दिश्यते । तमिळुनाडुराज्ये पोङ्ग्ल इति वदन्ति । एतत् सूर्यस्य चलनसम्बद्धं पर्व । सूर्यस्य एकराशित: अन्यराशिं प्रतिप्रवेशदिनं सङ्क्रमणम् इति उच्यते । सौरमानानुसारं सूर्यस्य मेषादिद्वादशराशिं प्रति प्रवेशदिनम् एव सङ्क्रमणदिनम् ।। (अधिकवाचनाय »)
- पाकिस्थानस्य किशोरः चेन्नै-नगरे जीवनरक्षकं हृदयप्रत्यारोपणं प्राप्नोति।
- मुम्बईनगरे प्रथमः तटीयमार्गः प्राप्यते ।
- बिहारस्य आरामण्डले माहुली-गंगा-नद्याः उपरि अभिनवः प्लवमाना गृहनौका अस्ति ।
- मोहम्मद शमी, पैरा-आर्चर शीतल देवी च अर्जुनपुरस्कारम् अलभताम्।
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत्।।
जनाः विभिन्नानि कार्याणि कुर्वन्ति। कीदृशानि कार्याणि कर्तव्यानि कीदृशानि न कर्तव्यानि इत्येतत् सर्वदा मनुष्यान् बाधते। यस्य कार्यस्य करणेन अन्तरात्मा तुष्यति तच्च कार्यम् अवश्यं करणीयम्। आनन्देन कर्तव्यं च। तस्य विरुद्धं कार्यं तन्नाम यस्य कार्यस्य करणेन अन्तरात्मनः सन्तोषः न भवति तत् कार्यं न करणीयम्। |