सामग्री पर जाएँ

फेस्बुक्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
फेस्बुक् (Facebook)
Screenshot
फेस्बुक् इत्यस्य गृहपृष्ठस्य पटलचित्रम्
जालपृष्ठम् facebook.com
प्रकारः सामाजिकजालकर्मसेवा
पञ्जीकरणम् आवश्यकम्
उपलभ्यमाना भाषा(ः) बहुभाषात्मकम् (70)
पञ्जीकृत
व्यवहारकारीणः
एकार्बुदाधिकम् [१] (active October 2012)
लिखितरूपं C++ तथा च PHP[२]
स्वामी फेस्बुक्, निगमितम्
निर्माता
प्रकाशनम्  4, 2004 (2004-02-04)
राजस्वः increase $5.1 billion (2012)[३]
एलेक्सा रैङ्क् increase 2 (February 2013)[४]
वर्तमानस्थितिः Active
Facebook on the Ad-tech 2010

फेस्बुक् इति नाम्ना काचित् सामाजिकजालकर्मसेवा विद्यते। एतस्य विमोचनं २००४ तमस्य वर्षस्य फरवरीमासे अभवत्। एतस्य स्वामित्वं सञ्चालनं च फेस्बुक्, इति निगमितेन क्रियते।[५], फेस्बुक् इत्यस्मिन् एकार्बुदाधिकाः सदस्याः सन्ति।[६] तेषां च अर्द्धाधिकाः फेस्बुक् इत्यस्य प्रयोगं जङ्गमोपकरणे कुर्वन्ति।[७] जालस्थलस्य प्रयोगात् पूर्वे प्रयोक्त्रा पञ्जीकरणं करणीयं भवति। ततः पश्चात् ते स्वकीयं वैयक्तिकं वृत्तं निर्मातुं शक्नुवन्ति। अन्यान् च सदस्यान् मित्रत्वेन योजयितुं शक्नुवन्ति, परस्परं च सन्देशानां विनिमयं कर्त्तुं शक्नुवन्ति। तेषु च सन्देशेषु स्वचालिताः सूचनाः अपि भवन्ति । अपरञ्च, सदस्याः सामान्याभिरुचिकान् समूहान् अपि प्रवेशितुं शक्नुवन्ति, तेषां च व्यवस्थापनं कार्यस्थलं, विद्यालयं, महाविद्यालयं अन्यं गुणं वाऽऽधृत्य भवति। अपि च सदस्याः स्वमित्राणि कार्यस्थलाज्जनाः अथवा घनिष्ठमित्राणि इति वर्गेषु अपि व्यवस्थापयितुं शक्नुवन्ति। अद्य दिने फेस्बुक इति माध्यमेन व्यापारमपि कर्तुं शक्नुवन्ति ।

फेस्बुक् इत्यस्य संस्थापना मार्क-जुकरबर्गः स्वकीयैः महाविद्यालयीयैः सकक्षकैः सह कृतवान्। ते च - एडवर्डो-सेवरिन्, एन्ड्र्यू-मैक्कोलम्, डस्टिन्-मोस्कोविट्ज्, तथा च क्रिस्-ह्यूग्स् इति।[८]

सन्दर्भाः

[सम्पादयतु]
  1. ↑ "Facebook, 1 billion active people fact sheet". आह्रियत October 4, 2012.
  2. ↑ Gavin, Clarke (July 2010). "Facebook re-write takes PHP to an enterprise past Remember C++? They do". Archived from the original on 2012-05-30. आह्रियत 2 February 2010.
  3. ↑ "Facebook Current Report, Form 8-K, Filing Date July 26, 2012". SECDatabase.com. आह्रियत July 26, 2012.
  4. ↑ "Facebook.com Site Info". Alexa Internet. Archived from the original on 2015-03-02. आह्रियत 2013-01-14.
  5. ↑ Eldon, Eric (December 18, 2008). "2008 Growth Puts Facebook In Better Position to Make Money". VentureBeat (San Francisco). Archived from the original on December 19, 2008. आह्रियत December 19, 2008.
  6. ↑ "Facebook Tops Billion-User Mark". The Wall Street Journal (Dow Jones). October 4, 2012. आह्रियत October 4, 2012.
  7. ↑ Sengupta, Somini (May 14, 2012). "Facebook's Prospects May Rest on Trove of Data". The New York Times. आह्रियत May 15, 2012.
  8. ↑ Carlson, Nicholas (March 5, 2010). "At Last – The Full Story Of How Facebook Was Founded". Business Insider.

अधिकं पठनम्

[सम्पादयतु]

बाह्यानुबन्धाः

[सम्पादयतु]

फलकम्:Spoken Wikipedia

"https://sa.wikipedia.org/w/index.php?title=फेस्बुक्&oldid=499210" इत्यस्माद् प्रतिप्राप्तम्