बसवकल्याणम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
बसवकल्याणम्
—  नगरम्  —
बसवकल्याणस्य दुर्गम्
Coordinates: 17°52′22″N 76°56′59″E / 17.87278°N 76.94972°E / 17.87278; 76.94972
देशः  भारतम्
राज्यम् कर्णाटकम्
मण्डलम् बीदरमण्डलम्
औन्नत्यम्
बसवकल्याणम्
जनसङ्ख्या (2006) १,०२,५४६
भाषाः
 • अधिकृताः कन्नड
भारतीय सामान्यकालमानम् (UTC+5:30)
पत्रालयकूटसंख्या 585 327
दूरवणीकूटसंख्या 08481
वाहनपञ्जीकरणम् KA39


बसवकल्याणं (Basavakalyan) कर्णाटकस्य बीदरमण्डले विद्यमानं किञ्चन प्रमुखं नगरम् । बीदरमण्डले पञ्च उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति बसवकल्याणम् । बसवकल्याणस्य प्रभावः कर्णाटकस्य इतिहासस्योपरि महान् अस्ति । एतस्य ग्रामस्य पुराणपृष्ठभूमिका अस्ति । ऐतिहासिकपृष्ठभूमिका अपि अस्ति । सहस्राधिकानां शिवशरणानां पादधूल्या एषः ग्रामः पवित्रः जातः अस्ति । चालुक्यानां राजधानी इत्यपि नाम अस्ति । कळचूरी राजानामपि राजधानी आसीत् । कल्याणी, कल्याणपुरम् इत्यपि इदं निर्दिशन्ति । एषः ग्रामः बीदरतः ९ कि.मी. दूरे अस्ति ।

कल्याणे चालुक्याः, देवगिरौ यादवाः, तोगलकाः, बह्मनि, बरीदशाही, आदिलशाही, मोगलाः, मराठाः च शासनं कृतवन्तः । अत्रत्यं लघु दुर्गं वास्तुदृष्ट्या महत्वपूर्णम् अस्ति ।

इतिहासः[सम्पादयतु]

कल्याणचालुक्येषु प्रसिद्धः राजा विक्रमादित्यः-६ । एतस्य कालः सुवर्णयुगः इति कथ्यते । विक्रमशकस्य आरम्भः २६-२-१०७७ तः अभवत् । एतस्मिन् काले बहिर्भागेभ्यः, अन्यदेशेभ्यः पण्डिताः, पामराः, राजश्रयार्थम् आगच्छन्ति स्म । काश्मीरतः आगतः बिल्हणकविः संस्कृतेन विक्रमाङ्कदेवचरितम् इति काव्यम् अत्रैव लिखितवान् । एतेन मिताक्षरम् इति शासनं रूपयितुं साध्यमभवत् ।

कल्याणम् अनेके कवयः स्वकाव्येषु उल्लिखितवन्तः । द्वादशशतकम् अनुलक्ष्य वदामश्र्चेत् अधिकानि वचनानि अत्रैव सृष्टानि । १२ शतके कल्याणं स्वर्गम् अतिशेते स्म । अत्र सज्जनाः, सहृदयाः, कवयः, पामराः, शिवशरणाः दार्शनिकाः बहवः आसन् । तदा कळचूरीराजः बिज्जळः राज्यं पालयति स्म । एतस्य समस्तपृथ्वीवल्लभः, समस्तभुवनाश्रयः, त्रिभुवनमल्लः, परमेश्र्वरः, परमभट्टारकः इत्यादयः बिरुदाः आसन् ।

एतस्य मन्त्री आसीत् भक्तिभण्डारी बसवेश्वरः । एषः कालः सुवर्णाक्षरैः लेखनीयः । समग्रदेशे कल्याणमिति शब्दं श्रुत्वा जनाः आनन्दम् अनुभवन्ति स्म । प्रपञ्चस्य प्रथमलोकसभा इति कथ्यमानः अनुभवमण्डपः कल्य़ाणे स्थापितः आसीत् । बसवेश्वरः यं स्वप्नं बाल्ये दृष्टवान् आसीत् तं साकारीकर्तुं कल्याणे प्रयत्नं कृतवान् ।

कल्याणे बसवण्णस्य प्रभावः अगाधः आसीत् । अन्येभ्यः स्थानेभ्यः कल्याणम् आगत्य कायकं कृतवन्तः । एतादृशानां महापुरुषाणां संख्या महती एव आसीत् । चोळदेशतः मादरचेन्नय्यः, माळवतः डोहारकक्कय्यः, काश्मीरतः मोळिगेमारय्यः, राणीमहादेवी च, अफघानिस्थानतः मरुळशङ्करदेवः उरिलिङ्गपेद्दी दम्पती च, प्रभुदेवः, अक्कमहादेवी, सिद्धरामय्यः, अजगण्णः मुक्तायक्का, गुजराततः आदय्यः, शान्तिनाथः, बिजापुरतः मडिवाळमाचीदेवः, किन्नरीबोम्मय्यः, अम्बिगरचौडय्यः, गाणदकन्नप्पः, हरळय्यः, अक्कनागम्मा, गङ्गम्मा, चिक्कय्यः सोमव्वा - एवं सहस्राधिकाः शिवशरणाः कल्याणमागताः । अत्र वासमपि कृतवन्तः कल्याणं पवित्रं कृतवन्तः ।

वचनप्रकारः कन्नडसाहित्ये विनूतनः विषयः । एषः कल्याणतः एव आरब्धः सदा आढ्यानां गृहे या साहित्यदेवी वसन्ती आसीत् सा निर्धनानां गृहमपि आगतवती । अत्र आगत्य तानपि साहित्यकृतिनिर्माणार्थं प्रेरितवती । एषः श्लाघनीयः विषयः । कल्याणभूमिः शिवशरणानां वासभूमिः जाता, कर्मभूमिश्र्च जाता १२ शतके । बसवण्णः यदर्थं कल्याणमागतवान् तदर्थमेव शिवशरणाः आगतवन्तः। तेन भगवान् अल्लमप्रभुः अत्र सुस्थितः । कल्याणे दीपज्वालनाय बहवः सहकारं दत्तवन्तः ।

चालुक्यानां, कळचूरिराजानां च राजधानी भूत्वा शोभितं कल्याणं बसवण्णकारणतः बसवकल्याणम् अभवत् । कन्नडराज्यस्य इतिहासे कल्याणस्य नाम अजरामरं जातम् । कल्याणमित्युक्ते साधुसज्जनानां बहुप्रीतिः । नैतिकमौल्यैः युक्तः ग्रामः आसीत् कल्याणम् ।

कल्याणस्य महाद्वारे चन्नबसवण्णेन लेखितं शिलाशासनम् एवम् अस्ति । "कल्याणपट्टणं भूलोकस्य कैलासः इव परिशोभते । अत्र सत्वयुक्ताः निस्पृहाः निजैक्याः, महाज्ञानिनः, परमशिवयोगिनः, शिवानुभवसम्पन्नाः केवलं भवन्ति । अन्ये अत्र न भवन्ति । पापिनां, कोपिनाम्, असत्यवादिनाम्, अनाचारिणां कल्याणे प्रवेशः नास्ति ।"

एतस्मिन्नेव शिलाशासने एव कल्याणस्य वर्णनस्य सारांशः एवम् अस्ति - कल्याणपट्टणस्य विस्तारः १२ योजनम् अस्ति । दुर्गस्य भित्तेः परिधिः ४५ योजनम् अस्ति । ७२ माण्डलिकाः अत्र सन्ति । राहुतादयः लक्षशः वसन्ति । षण्णवत्युत्तरैकलक्षशिवालयाः ( एकलक्षम् + ९६ ) अत्र सन्ति । त्रिपुरान्तकेश्र्वरदेवालयः प्रमुखः अस्ति । सहस्राधिकमठैः शोभते । ईदृशे कल्याणपट्टणे सर्वाचारसम्पन्नः बसवेश्र्वरः शिव सङ्कथाविनोदेन रञ्जयति । एतत् चन्नबसवण्णस्य भक्तिपूर्णं वचनम् ।

कल्याणपट्टणेन अनुभवमण्डपद्वारा जगते कश्चन आदर्शभूतः सन्देशः दत्तः । प्रभुदेवस्य मतानुगुणं कल्यणे धार्मिकसामर्थ्थं बहु अस्ति । तस्य एकस्य वचनस्य सारांशः एवमस्ति - कल्याणे शिवभक्तिनामकनलेन शिवप्रकाशः शोभते । कल्याणविषये बहवः साधुसज्जनाः स्वकीयेषु वचनेषु उल्लिखितवन्तः ।

कल्याणं शताधिकवर्षाणि परकीयाणां दर्पैः दौर्जन्यैः अधिकाराट्टहासैः आक्रान्तः ग्रामः । परन्तु बसवण्णस्य कर्मभूमिः यदा जाता तदा शिवानुग्रहेण कष्टानां सहनाशक्तिः जनैः प्राप्ता । बहूनि वर्षाणि बहवः राजानः कल्याणं पालितवन्तः । कल्याणस्य महत्त्वं तु बसवण्णेन आनीतमिति वक्तुं शक्यते ।

बसवण्णस्य कर्मभूमिः बसवकल्याणं भूलोकस्य कैलासः अस्ति । बसवकल्याणदर्शनेन काशीदर्शनपुण्यं लभ्यते इति विश्र्वासः जनेषु अस्ति । बसवनबागेवाडि, कूडलसङ्गमः, बसवकल्याणम् एतानि बसवण्णस्य पादस्पर्शेन पूतानि क्षेत्राणि । एतेषां दर्शनेन जीवनस्य कष्टकार्पण्यानि नष्टानि भवन्ति । तावती शक्तिः एतेषां क्षेत्राणाम् अस्ति । दर्शनेन सह बसवादिशिवशरणानाम् आदर्शानाम् अनुसरणम् अस्माभिः करणीयम् । तेन अस्माकं जीवनं सार्थकं भवति । जीवनं पवित्रं भवति ।

दर्शनीयानि स्थानानि[सम्पादयतु]

बसवकल्याणे तथैव तत्समीपे च बहूनि दर्शनीयानि स्थानानि सन्ति । बसवेश्र्वरदेवालयः, परुषकट्टे , इण्टिकाकूपः, प्रभुदेवगद्दुगे, बसवण्णस्य ज्ञानगृहम्, हडपदअप्पण्णस्य गुहा, अक्कनागम्मागुहा, नीलम्मागुहा, त्रिपुरान्तकसरोवरः, घनलिङ्गरुद्रमुनिगवि, विज्ञानेश्र्वरगवि, नूतनानुभवमण्डपः, नारायणपुरस्य शिवमन्दिरम्, हारकूड, उमापुरमन्दिरम्, मुस्तापुरम्, राजेश्र्वरम्, वोळ्केरे, गोरठा, मण्टाळा, हारकूडु, चण्डकापुर इत्यादीनि स्थानानि पवित्राणि दर्शनीयानि च ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=बसवकल्याणम्&oldid=247333" इत्यस्माद् पुनः प्राप्तिः