बसवजयन्ती

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

द्वादशे शतके कर्णाटकराज्ये महत्वपूर्णं परिवर्तनं समाजे दृष्टम् आसीत् तस्य कारणं महात्मा बसवेश्वरः शिवशरणाश्च । तत्समये अल्लमप्रभुः अक्कमहादेवी मडिवाळमाचय्या चेन्नबसवण्णः सिद्धरामः इत्यादि जनाः भक्ताः शरणश्रेष्ठाः आसन् । बसवयुगः इति सः कालः प्रसिद्धिं गतः आसीत् ।

बाल्यं जीवनं च[सम्पादयतु]

जगज्योतिबसवेश्वरः बसवण्णः, बसवेशः, बसवः इति च प्रसिद्धः आसीत् । बसवण्णमहोदयः वैशाखमासस्य शुक्लपक्षस्य तृतीये दिने (अक्षयतृतीया) विशेषपर्वदिने कर्णाटके बिजापुरमण्डले बागेवाडीनामके ग्रामे (इदानीं बसवनबागेवाडी इति ख्यातम्) क्रिस्ताब्दे ११३७ तमे वर्षे जन्म लब्धवान् । अस्य पिता मादरसः माता च मादलाम्बिका । शैवब्राह्मणकुटुम्बे जन्म प्राप्य बसवः उपनयनसंस्कारसमये वैदिकधर्मस्य पद्धतिं विरुद्ध्य गृहात् निर्गतवान् । श्रीजातवेदमुनेः सकाशात् शास्त्राणि अधीत्य सर्वशास्त्रागमादिषु कुशलः सञ्जातः ।

तत्त्वानि[सम्पादयतु]

बिज्जळभूपालस्य सेवायां कोषाधिकारिरुपेण कल्याणनगरे कार्यं कर्तुं प्रवृत्तः अभवत् । कर्णाटके भक्तिभण्डारी इति प्रसिध्दः एषः अनेकानि अभिवृद्धिकार्याणि कारितवान् । “सर्वे जनाः समानाः । तरतमभावः न योग्यः । विशेषरुपेण यज्ञयागदिकं व्यर्थाचरणम् । सर्वप्राणिषु दया एव श्रेष्ठधर्मः । स्वर्गनरके अत्रैव स्तः । उत्तमभाषणेन स्वर्गदर्शनं कटुभाषणेन नरकदर्शनं च भविष्यति “ इति तस्य विचाराः आसन् । सः जातिवादं निन्दितवान् । “सर्वाणि कार्याणि समानानि सन्ति । उच्चनीचभावः तरतमभावः आधार रहितः अस्ति । उत्तमकार्येण मानवः शरणः(शिवभक्तः) भवति अन्ते शिवसान्निध्यं प्राप्नोति । गुरूणां जङ्गमानां लिङ्गस्य च सेवा एव जीवने महत्त्वम् आवहति “ इत्यादिकं वदन् वीरशैवमतस्य आरम्भं कृतवान् ।

शरणपरम्परा[सम्पादयतु]

पूर्वं शिवभक्ताः शिवशरणाः आसन् । किन्तु बसवेश्वरः सर्वनजहृदयं प्रविश्य नवीनविचारेण जनान् आकर्षितवान् । प्रतिदिनम् अनेकजनानाम् भोजनव्यवस्थाम् कृतवान् । अनेके शरणजनाः जङ्गमाः कल्याणनगरम् (इदानीं बसवकल्याणम् इति ख्यातम् अस्ति। बीदरमण्डले अस्ति एतत् नगरम्।) आगतवन्तः। हिन्दुधर्मस्य दोषरुपं जातिवादम् अस्पृश्यतां च निष्कासयितुं प्रयत्नं कृतवान् । तेषां सर्वेषां व्यक्तित्वेन ज्ञानेन गौरवः भवतु न जात्याधारेण इति घोषितवान् । जातिः न मुख्या , कार्यं मुख्यमिति उक्तवान् । केचन बसवेश्वरः राज्यकोशस्य धनम् अव्यवहारे उपयुक्तवान् इति राज्ञे निवेदितवन्तः । बिज्जळराजः सर्वं परीक्षितुं व्यवस्थाम् अकरोत् । किन्तु गणनाप्रसङ्गे राज्यस्य धनं सर्वं सुरक्षितम् आसीत् । अनेन राजा बिज्जलो अपि शिवशरणः अभवत् ।

वचनपरम्परा[सम्पादयतु]

धर्माचरणशास्त्रचर्चादिकार्यार्थं कल्याणनगरे ‘शून्यसिंहासनम्’ एकम् अनुभवमन्टपे स्थापितं बसवेश्वरेण । अस्य पीठस्य अधिकारी परशिवरुपी अल्लमप्रभुः शिवरशरणानां सर्वेषां परीक्षां कृत्वा अध्यक्षः अभवत् । अल्लमप्रभुना बसवेश्वरः अपि परीक्षितः । भक्तियुक्तः बसवेश्वरः सर्वेषु अतीव शरणश्रेष्ठः सञ्जातः। बसवेश्वरः बिज्जलराजस्य प्रधानसचिवः अपि अभवत् । वीरशैवधर्मनियमाः उपदेशाः अतीवप्रियाः अभवन् । दिने दिने बसवेश्वरस्य प्रतिष्ठा वर्धिता अभवत् । अनुभवमन्टपे मादरचेन्नय्यः अम्बिगरचौडय्यः माचय्यः, हरळय्यः इत्यादयः सहस्रशः भक्ताः शरणाः आसन् । बसवेश्वरस्य मातुलस्य सिद्धरस्य सुता नागलाम्बिका तथा अन्यमातुलस्य बलदेवस्य सुता गङ्गाम्बिका च द्वे पत्न्यौ आस्ताम् । मङ्गलवाडेनगरे स्थितः मातुलः बलदेवः एव बसवेश्वराय बिज्जलराजस्य आस्थाने उद्योगं दापितवान् आसीत् । श्री बसवेश्वरः वेदशास्त्रपुराणादिषु वर्तमानं विषयं सरलकन्नडभाषया वचनरुपेण उक्तवान् ।अनेके शिवशरणाः अपि वचनानि रचितवन्तः । वचनसादहित्यम् इति एतत् प्रसिद्धम् अस्ति । अन्तरङ्गस्पर्शी उपदेशः अत्र अस्ति । मानवानां जीवने यद् आवश्यकम् अस्ति तद् कथं प्राप्तव्यम् ? कथं जीवनं कर्तव्यम् ? कथं संसारबन्धनतः मोक्षः भवेत् ? इत्यादि विषयाः धर्माचरणविषयाः निरुपिताः सन्ति ।

  1. कळबेड कोलबेड-चौर्यं मास्तु,मारणं मास्तु।
  2. लोकदडोंक नीवेके तिद्दुविरि ? निम्म निम्म मनवा सन्तैसिकोळ्ळि निम्म निम्म तनुव सन्तैसिकोळ्ळि-लोकस्यवक्रतायाः परिष्कारः मास्तु। स्वशरीरं मनः च समाश्वसयन्तु।
  3. आचारवे स्वर्ग अनाचारवे नरक-सदाचारः एव स्वर्गः, अनाचारः एव नरकः।
  4. कायकवे कैलास-कर्मकरणम् एव कैलासः।
  5. देवनोब्ब नाम हलवु-एकः देवः ,नामानि अनेकानि।
  6. नुडिदरे मुत्तिन हारदन्तिरबेकु-अस्माकं मुखतः निर्गतानि वचनानि मुक्तामाला इव शोभेयुः।

इत्यादीनि कानिचनोदाहरणानि ।

धार्मिकक्रान्तिः[सम्पादयतु]

बसवेश्वरस्य उपदेशाः उत्तमाः आसन् । वचनानि अतीवसुन्दराणि आकर्षणयुक्तानि अनुभवगोचराणि । जातिभेदं निष्कासयितुम् असृश्यतां निवारयितुं बसवेश्वरः अन्तर्जातीयविवाहं कारितवान् । मधुवरसस्य ब्राह्मणस्य पुत्र्या चर्मकारस्य हरळय्यसुतेन सह च विवाहं कारितवान् । अनेन शरणयोः विभागः अभवत् ।अन्ते कल्याणनगरे महान् कोलाहलः अभवत् । राजा बिज्जलः बसवेश्वरम् अन्यत्र गन्तुम् आदिष्टवान् । बसवेश्वरः कूडलसङ्गमक्षेत्रमागत्य स्थितवान् । कल्याणे युद्धम् घोरम् अभवत् सर्वे शरणाः यत्र कुत्रापि गताः अभवन् । बसवेश्वरस्य तत्वादर्शाः उत्तमाः आसन् । अतः एव अद्यतनकाले सामाजिकपरिवर्तनकारणस्य बसवेश्वरस्य प्रशंसा कुर्वन्ति । बसवजयन्ती उत्सवे बसवेश्वरस्य तत्त्वानां चिन्तनं, वचनगानम्, उपन्यासाः, प्रदर्शनं बसवेश्वरस्य भावचित्रस्य यात्रोत्सवः इत्यादयः भवन्ति । महानचेतनः बसवेश्वरः कूडलसङ्गमक्षेत्रे ११६७ तमे वर्षे शिवैक्यः अभवत् । अद्यापि जनाः वचनानां गानम्,उक्तवाक्यानामनुसरणं समानता अस्पृश्यतादिविषये बसवेश्वरस्य अभिप्रायान् सगौरवं स्मरन्ति ।

"http://sa.wikipedia.org/w/index.php?title=बसवजयन्ती&oldid=232278" इत्यस्माद् पुनः प्राप्तिः