बारेचेहरिया-भावना-महोत्सवः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नेविगेशन पर जाएँ खोज पर जाएँ

आसामप्रदेशस्य शोणितपुरमण्डलान्तर्गतस्य जामुगुरिहट्टनामके स्थाने पञ्चवर्षेषु एकवारम् अनुष्ठीयते भाओनाख्यः महोत्सवः। बारेचहरीया-भावना इति आसामप्रदेशस्य शोणितपुरमण्डलान्तर्गतस्य जामुगुरिहट्टनामके स्थाने पञ्चवर्षेषु एकवारम् अनुष्ठीयमानः भाओनामहोत्सवः। वारेचहरीया-इत्यत्र स्थितयोः वारेशब्दस्य अनेके इत्यर्थः चहरीयाशब्दस्य च नागरिकाः इत्यर्थः। अर्थात् ग्रामान्तराणां नागरिकाः एकत्र सम्भूय भावनायाः यत् उद्यापनं कुर्वन्ति तदेव बारेचहरीया-भावना इति नाम्ना ज्ञायते। एतद् भावनाख्यम् अनुष्ठानं प्रायः त्रयोदशाधिकद्विशततमवर्षेभ्यः एतत्स्थानस्य ऐतिह्यम् आवहत् वर्तते। एतदनुमीयते यत् प्रायः सप्तनवत्युत्तरसप्तदशशततमख्रीष्टाब्दात् अष्टनवत्युत्तरसप्तदशशततमख्रीष्टाब्दात् वा अद्यावधि जामुगुरिहट्टनामके स्थाने एतद्भावनाख्यम् अनुष्ठानम् अनुष्ठीयमानं वर्तते।

इतिहासः[सम्पादयतु]

बारेचहरीया-भावना-महोत्सवस्य मुख्यद्वारम्

आनुमानिके सप्तनवत्युत्तरसप्तदशशततमख्रीष्टाब्दे अष्टनवत्युत्तरसप्तदशशततमख्रीष्टाब्दे वा जामुगुरिहट्टनामके स्थाने प्रथमवारस्य कृते बारेचहरीयाभावना-इत्याख्यस्य अनुष्ठानं जातम्। कथमस्य प्रथमारम्भः जातः इत्यस्मिन् विषये लिखितं विवरणं न किञ्चिदपि लभ्यते। परन्तु बारेचहरीयाभावनायाः उपरि कलियावराख्यस्य स्थानस्य हेजाराभाओनायाः कामपुराख्यस्य स्थानस्य वारेगञाभाओनायाः च प्रभावः अस्तीति अनुमीयते। सप्तनवत्युत्तरसप्तदशशततमख्रीष्टाब्दात् चतुर्विंशतिवारमस्य उत्सवस्य अनुष्ठानं जातम्। दक्षिणजामुगुर्यन्तर्गतस्य पाछिग्रामस्य पश्चिमदिशि अवस्थिते रघुदलनिपथाराख्यनामके स्थाने प्रथमैकविंशतेः भावनायाः आरम्भः जातः। इतोऽपि सप्तोत्तराष्टादशशततमख्रीष्टाब्दे तस्यैव ग्रामस्य खुनखोयाहट्टाख्यस्थानस्य समीपे, द्वादशाधिकाष्टादशशततमख्रीष्टाब्दे वरभगीयाख्यग्रामस्य पश्चिमदिशि अवस्थिते फाकुयापथाराख्यस्थाने, सप्तदशाधिकाष्टादशशततमख्रीष्टाब्दे पुनः रघुदलन्याख्यस्थाने, पञ्चनवत्युत्तराष्टादशशततमख्रीष्टाब्दे शलगुरिग्रामस्य पश्चिमदिशि अवस्थिते डोमरवाकरे-इत्याख्ये स्थाने च बारेचहरीयाभावनाख्यम् अनुष्ठानम् अनुष्ठितोऽभवत्। एकोत्तरनवशततमख्रीष्टाब्दे काठवारीग्रामस्य उत्तरदिशि अवस्थिते ढाकरेपथारेनामकस्थाने अष्टादशानां वारेचहरीयाभाओनायाः उद्यापनम् अभवत्। पञ्चोत्तरनवदशतमख्रीष्टाब्दे एकविंशतिखलासु डेकासुन्दरग्रामस्य पकामूरापथारेनामके स्थाने बृहदेकं मण्डपं निर्माय एषः उत्सवः उद्यापितः। ततः दशाधिकनवशततमख्रीष्टाब्दे वरहमपुर-सरुभगीयाग्रामस्य मध्यभागे स्थिते वालिपरापथारनामके स्थाने एषः उत्सवः उद्यापितः। सप्तदशाधिकनवशततमख्रीष्टाब्दात् सप्ताधिकद्विसहस्रतमख्रीष्टाब्दपर्यन्तं साकल्येन चतुर्दशवारं पकामूरापथारनामके स्थाने वारेचहरीयाभाओनाख्यः उत्सवः आयोजितः। मध्ये एकवारं त्रिपञ्चाशदधिकनवशततमख्रीष्टाब्दे पातलस्य चुकग्रामस्य उत्तरदिशि अवस्थिते फुटुकातलिपथारनामके स्थाने उत्सवः एषः उद्यापितः। अस्मिन् वत्सरे अर्थात् त्रयोदशाधिकद्विसहस्रतमख्रीष्टाब्दे फेव्रुयारिमासस्य चतुर्विंशतिदिनांकतः आरभ्य सप्तविंशतिदिनांकपर्यन्तम् एषः उत्सवः आयोजितः आसीत्। एतस्य उत्सवस्य प्रसाराय स्वीकृतौ च गजेनवरुयाख्यः महोदयः विशिष्टं स्थानं भजते।

अनुष्ठानविधिः[सम्पादयतु]

बारेचहरीयाभावनायाः मुख्यमण्डपांशः पद्मपुष्पस्य आकृत्या निर्मीयते। पद्मस्य प्रतिपार्श्वम् एकैकस्याः खलायाः निर्माणं क्रियते। एकस्यां खलायाम् सप्त खुंट्याख्यं द्रव्यं तिष्ठति। मण्डपस्य दक्षिणपार्श्वे गम्बुजाकृत्याः निर्माणं कृत्वा तदुपरि सुवर्णवर्णानां कलसानां स्थापनं क्रियते। प्रत्येकं खलायाः मध्यभागे दौले-इत्याख्यस्य सिंहासनस्य स्थापनं क्रियते। खलानां सम्मुखभागे एकैकं वाटसोरा-इत्याख्यं द्रव्यं तिष्ठति, तेषां समीपे एकैकं कृत्वा छोँघर-इत्याख्यं द्रव्यं तिष्ठति। प्रत्येकं खलायाः वाटसोरा-इत्याख्यस्य वस्तुनः छोँघर-इत्याख्यस्य वस्तुनः च आकृतिः समानमेव भवति। गम्बुजेन साकं रभा खलासमूहः च सप्तभागेन विभज्यते। ते च-

क) गुर्वासनम्।
ख) विशिष्टानाम् जनानाम् आसनम्।
ग)गुर्वासनस्य प्रदक्षिणार्थं मार्गः।
घ) रङ्गभूमिः अभिनयक्षेत्रो वा।
ङ) वाटसोरा।
च) मुकलिस्थानम्।
छ) मूलभूता वाटसोरा च।

वैशिष्ट्यम्[सम्पादयतु]

जातिधर्मवर्णनिर्विशेषेण सार्वजनिकतया उत्सवस्य उद्यापनं, धर्मीय-सांस्कृतिकं रङ्गप्रतिष्ठानं च लक्षशः जनाः उपभोगं कुर्वन्ति इत्येवास्य उत्सवस्य वैशिष्ट्यम्। कस्यचित् प्रशिक्षितस्य कौशलिनः वा जनस्य सहयोगम् उपेक्ष्यैव ग्रामस्थाः जनाः स्वेषां बुद्धिबलमुपयुज्य सुन्दरस्य एकस्य मण्डपस्य निर्माणं कुर्वन्ति। केन प्रथमवारम् एतत्कृतमिति न ज्ञायते अधुनापि। एतस्य वैशिष्ट्यं यत् चतुर्दशतः एकविंशतिपर्यन्तम् एकस्मिन् समये एव भिन्नखलायां भाओनानाटस्य अनुष्ठानम्।


सम्बद्धाः लेखाः[सम्पादयतु]