बालभारतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
बालभारतम्  
Kurukshetra.jpg
लेखकः राजशेखरः
देशः भारतम्
भाषा संस्कृतम्

बालभारतस्य अङ्कद्वयमेवादिदं सम्प्रति लभ्यते, शेषं च नाद्य यावत् समासादितम् । अस्य रचयिता राजशेखरः वर्तते। इदं च द्रौपदी स्वयंवरादारभ्यते । वन्दी घोषयामास -

सकल-भुवन-रक्षा-स्रस्ततन्द्रा नरेन्द्राः

शृणुत गिरमुदारामादराच्छ्रावयामि।

इह हि सदसि राधां यः शरव्यीकरोति

स्मरविजयपताका द्रौपदी तत्कलत्रम्॥[१]

प्रवासिनः पाण्डवाः कृत-विप्रवेषा विप्र-पङ्क्तौ निषेदुः । अर्जुनादृते न कोऽपि साफल्यं लप्स्यते इत्यासीद् द्रोणाचार्यस्य निर्णयः । सर्वेषु पराङ्मुखे राजसु ब्राह्मणवेषोऽजुनो राधामविध्यत । नाज्ञातकुलशीलाय कन्या सम्प्रदेयेति वदतोऽनादृत्य स द्रौपदीमनयत् । प्रतिपूर्णे सति क इह प्रश्नः कुलशीलयोरिति ? शेषा राजानो युद्धोद्यता भीमेन निराकृताः।

अथ विदुरेण वर्जितापि द्यूतक्रीडा समारब्धा । तत्र युधिष्ठिरः सर्वस्वं हारयित्वा द्वादशवर्षीयं वनप्रवासमङ्गीकृतवान् । पणीभूतां हारितां च पाञ्चालीं सभासदनमानीय दुःशासनस्तां निर्वस्त्रां विधातुं यतते स्म किन्तु मायया तस्या नवान्येव वस्त्राणि तामावासयन्ति स्म । दुर्योधनानुजो विकर्णो दुःशासनं निवारयामास -

भो दुःशासन कः क्रमो द्रुपदना-केशाम्बराकर्षणे।

दुर्वृत्तं क्षमते न कस्यचिदयं भ्राता विकर्णस्तव॥[२]

भीम-कृतायाः दुर्योधन-रक्त-पान-प्रतिज्ञायाः अनन्तरं द्वितीयोऽङ्कः परिसमाप्यते । प्रस्तावनायाः परस्तादत्र नाटके वाल्मीकि-व्यासयोः संवादः आयोजितः । व्यासो वदति -

यदुक्तिमुद्रा सुहृदथवीथी कथारसो यच्चुलुकैश्चुलुक्यः।

तथामृतस्यन्दि च यद् वचांसि रामायणं तत् कवितॄन् पुनाति।।[३]

वाल्मीकिश्च व्यासकृतं महाभारतं स्तौति -

दन्तोलूखलिभिः शिलोञ्छिभिरिदं कन्दाशनैः फेनपैः,

पणप्राशनिभिर्मिताम्बु-कवलैः काले च पक्वाशिभिः।

नीवार-प्रसृतिंपचैश्च मुनिभिर्यद्वा त्रयीध्यायिभिः,

सेव्यं-भव्यमनोभिरर्थपतिभिस्तद् वै महाभारतम्।।[४]

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. १.३२
  2. २.४३
  3. १.१७
  4. १.१९
"https://sa.wikipedia.org/w/index.php?title=बालभारतम्&oldid=436874" इत्यस्माद् पुनः प्राप्तिः