बाळ ठाकरे
दिखावट
बाळ केशव ठाकरे | |
---|---|
शिवसेनापक्षस्य संस्थापकः अध्यक्षश्च | |
In office 19 July 1966 - 17 November 2012 | |
Preceded by | सृष्टं स्थानम् |
Succeeded by | उद्धव ठाकरे |
व्यैय्यक्तिकसूचना | |
Born |
पुणे, बाम्बे प्रेसिडेन्सि, ब्रिटिश् भारतम् (अधुना महाराष्ट्रराज्ये, भारतम्) | २३ १९२६
Died |
१७ २०१२ मुम्बई, महाराष्ट्रराज्यम्, भारतम् | (आयुः ८६)
Political party | शिवसेना |
Spouse(s) | मीना ठाकरे |
Children |
बिन्दुमाधव ठाकरे जयदेव ठाकरे उद्धव ठाकरे[१] |
बाळ ठाकरे हिन्दुत्वस्य प्रतिपादकः, महाराष्ट्रवादी नायकः, शिवसेनापक्षस्य संस्थापकाध्यक्षश्च । अस्य जन्म १९२६ तमवर्षस्य जनवरीमासस्य २३ दिनाङ्के अभवत् । स्वस्य विचाराणाम् उपस्थापनार्थं १९६६ तमवर्षस्य जूनमासस्य नवदशदिनाङ्के शिवसेनानामकं राजकीयदलम् आरब्धवान् । एतस्य पिता केशवठाक्रे सामाजिककार्यकर्ता तथा प्रगतिपरः लेखकः आसीत् । महाराष्ट्रस्य एकीकरणस्य आन्दोलने सक्रियः आसीत् । हिन्दुत्वस्य प्रादेशिकतायाः च विषये तीव्रम् आग्रहवान् बाळासाहेबः एतयोः विषये निरन्तरं जनान् प्रेरयन् सङ्घटनस्य बलम् वर्धितवान्। महाराष्ट्रे भारतीयजनतापक्ष-शिवसेनयोः संयुक्तसर्वकारस्य रचनायाम् एतस्य महत् योगदानम् अस्ति । २०१२ तमवर्षस्य नवम्बरमासस्य १७ दिनाङ्के मुम्बयीनगरे दिवङ्गतः । अस्य अन्त्यक्रियायां सम्मिलितः ऐतिहासिकः २०लक्षात्मकः जनसागरः एतस्य जनप्रियतां द्योतयति ।
टिप्पणी
[सम्पादयतु]- ↑ Menon, Meena (17 November 2012). "Leader who brought ethnic politics to Mumbai melting pot". The Hindu (Chennai, India).
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- Profile by BBC dated 19 July 2000 referring to him as the "uncrowned monarch of Maharashtra"
- Funeral pictures Archived २०१२-११-२१ at the Wayback Machine