बाष्पस्थाली
साधारणतया पूर्वं पाकगृहे चुल्लेः उपरि पात्रं विधाय आहारपचनकार्यं कुर्वन्ति स्म । एषा दीर्घकालिकी प्रक्रिया आसीत् । तथैव अधिक- इन्धनस्य व्ययः अपि भवति स्म । अतः अल्पसमये अल्प-इन्धनस्य साहाय्येन पाकः करणीयः चेत् बाष्पस्थाल्याः (Pressure Cooker ) उपयोगः सुकरः भवति । का एषा बाष्पस्थाली नाम ? मानवः आहारं सामान्यतया पाकक्रियानन्तरं स्वीकरोति । पाकार्थं जलम् उष्णं भवेत् एव । यथा यथा जलम् अधिकतापमानेन उष्णं भवति तथा बाष्पस्य उत्पादनं भवति । तस्य बाष्पस्य कारणात् अधिका शक्तिः भवति तस्य शक्तिः, बलं (Pressure) वर्धते । यदा बलं शिथिलं भवति तदा तापः अल्पः भवति । बाष्पस्थाल्याम् अयमेव सिद्धान्तः प्रयुज्यते ।
सामान्यतः बेङ्गळूरुनगरे सप्तनवतिपरिमाणेन जलम् उष्णं भवति । चेन्नैनगरे एतत् प्रमाणं शतं भवति । बाष्पस्थाल्याः तापमबलस्य शताधिकविंशतिपरिमाणेन जलम् उष्णम् भवति । बाष्पस्थाली अत्युभिनियं, हिण्डालियं, स्टेन् लेस्स् स्टील् इत्यादिभिः धातुभिः निर्मिता भवति । अस्य भगौ वर्तेते । अधस्तन भागस्य पात्रं विस्त्रवम् । तस्योपरि आवरणपात्रं वर्तते । आवरणपात्रे रब्बर् इति वस्तुना निर्मितं कङ्कणं निक्षि-प्यते । बाष्पं बहिर्गन्तुं न शक्नोति । अतः बाष्पस्थाल्याम् अधिकतापेन जलम् उष्णं भवति तच्च बाष्पं तत्रैव बलरूपेण कार्यं करोति । १२० सोत्सियस् परिमाणेन तापमानं उत्पाद्यते । अधिकम् उष्णम् अल्पसमये भवितुं अस्य पात्रस्य तले ताम्रधातोः लेपनं भवति । इदं “क्लाडिंग् (Cladding) इत्युच्यते । आवृतपात्रे अधिक तापमानेन अधिक बाष्पम् उत्पाद्यते । तदा पात्रस्य विस्फोटनं न भवितव्यम् इति आवरणस्य उपरि भाररूपं वस्तु तथा विलायनलोहस्य कवाटं इति द्वे सुरक्षासाधने निक्षिप्यते । यदा अधिक तापमानेन प्रतिपन्नं बाष्पं भारवस्तु उपरि उन्नयति, तदा तस्य अधोभागे स्थितस्य रन्ध्रद्वारा बाष्पं बहिर्गच्छति । तदा पात्रे स्थापिताः तण्डुलकणाः, शाकादयः पक्वाः भवन्ति । बाष्पस्थाल्याः अन्तर्स्थितं बाष्पं पूर्णप्रमाणेन बहिः यदा गच्छति तदा एव पात्रस्य आवरणम् उद्घाटितव्यम् ।