बीजं मां सर्वभूतानां...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ १० ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य दशमः(१०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् बुद्धिः बुद्धिमताम् अस्मि तेजः तेजस्विनाम् अहम् ॥ १० ॥

अन्वयः[सम्पादयतु]

पार्थ ! सर्वभूतानां सनातनं बीजं मां विद्धि । बुद्धिमतां बुद्धिः तेजस्विनां तेजः अहम् अस्मि ।

शब्दार्थः[सम्पादयतु]

पार्थ = अर्जुन !
सर्वभूतानाम् = सकलप्राणिनाम्
सनातनम् = चिरन्तनम्
बीजम् = प्ररोहकारणम्
मां विद्धि = मां जानीहि
बुद्धिमताम् = धीमताम्
बुद्धिः = धीः
तेजस्विनाम् = प्रगल्भानाम्
तेजः = प्रागल्भ्यम्
अहम् अस्मि = अहं भवामि ।

अर्थः[सम्पादयतु]

पार्थ ! सकलभूतानां चिरन्तनं बीजं मां जानीहि । अहं धीमतां धीः अस्मि तेजस्विनां तेजः च ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]