बीभत्सरसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


बीभत्सस्य जुगुप्सा स्थायिभावो भवति । पदार्थेषु दोषदर्शनादिभिर्जायमाना चित्तसङ्कोचात्मिका जुगुप्सा । कदर्यवस्तुविलोकनजन्मा विचिकित्साख्यश्चित्तवृत्तिविशेषो जुगुप्सा इति रसगङ्गाधरमतम् । बन्धनार्थक "बध" धातोः पित्तविकारार्थे सन् तथा अच् प्रत्यये कृते बीभत्सरूपं सिध्यति। साहित्यदर्पणकारः साहित्यदर्पणे अमुम् रसम् एवं निरूपितवान् अस्ति,
जुगुप्सास्थायिभावस्तु बीभत्सः कथ्यते रसः।
नीलवर्णो महाकालो दैवतोऽयमुदाहृत॥ इति।
भरतमुनिः स्वनाट्यशास्त्रे बीभत्सरसस्य विषये एवं नीरुपितवान् अस्ति, अथ बीभत्सो नाम जुगुप्सा स्थायिभावात्मकः इति। एवम् उक्त्वा समनन्तरमेव बीभत्सरसस्य उत्पत्तिविषये श्लोकः एवम् अस्ति,
अनभिमतदर्शनेनच गन्धरसस्पर्षशब्ददोषैश्च।
उद्वेजनैश्च बहुभिः बीभत्सरसः समुद्भवति।। इति।
स्वाभाविकतया, शारीरिकदोषवशात्, अप्रियस्य वस्तुद्वारा, निषिद्धः उत मलिनपदार्थाद्वा जिगुप्सा नाम स्थायिभावः उत्पत्स्यते। ततः बीभत्सरसः उत्पद्यते। वमनव्रणादयः आलम्बनविभावाः भवन्ति। दुर्गन्धक्रिमिकीटादयः उद्दीपनविभावाः भवन्ति। शरीरसङ्कोचः, नासाच्छादनादयः अनुभावाः भवन्ति। कम्प, वैवर्णादयः सात्विकाः भवन्ति। दोहः, अपस्मारः, आवेगः, शङ्कादयः व्यभिचारीभावाः भवन्ति। एतैः जिगुप्सा नाम स्थायिभावः उत्पत्स्यते। स्थायिभावः यदा पक्वं भवति तदा बीभत्सः भवति। अस्य रसस्य अधिदेवः "महाकालः”।

"https://sa.wikipedia.org/w/index.php?title=बीभत्सरसः&oldid=372732" इत्यस्माद् पुनः प्राप्तिः