बुलढाणामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बुलढाणा मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)
बुलढाणामण्डलम्

Buldana District

बुलढाणामण्डलम् जिल्हा
मण्डलम्
महाराष्ट्रराज्ये बुलढाणामण्डलम्
महाराष्ट्रराज्ये बुलढाणामण्डलम्
देशः  India
जिल्हा बुलढाणामण्डलम्
उपमण्डलानि बुलढाणा, खामगाव, चिखली, सङ्ग्रामपूर, सिन्दखेड-राजा, देउळगाव-राजा, नान्दुरा, मेहकर, मोताळा, मलकापूर, लोणार, जळगाव-जामोद, शेगाव
विस्तारः ९६४० च.कि.मी.
जनसङ्ख्या(२०११) २५,८६,२५८
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://buldhana.nic.in
कार्पाससस्यानि
लोणार सरोवर:
शेगाव स्थानम्

बुलढाणामण्डलं (मराठी: बुलढाणा जिल्हा, आङ्ग्ल: Buldhana District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं बुलढाणा इत्येतन्नगरम् । बुलढाणामण्डलं 'शेगाव' इति गजाननमहाराजस्य समाधिस्थलाय आमहाराष्ट्रं प्रसिद्धम् । अमरावती इति महाराष्ट्रराज्यप्रशासनविभागे अन्तर्भूतं मण्डलमिदं ।

भौगोलिकम्[सम्पादयतु]

बुलढाणामण्डलस्य विस्तारः ९६४० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि अकोलामण्डलं, वाशिममण्डलम्, अमरावतीमण्डलं च, पश्चिमदिशि जळगावमण्डलम्, औरङ्गाबादमण्डलं च, उत्तरदिशि मध्यप्रदेशराज्यम्‌, दक्षिणदिशि जालनामण्डलम् अस्ति । अस्मिन् मण्डले तापी, गोदावरी, पूर्णा इत्येताः मुख्याः नद्यः प्रवहन्ति ।

कृषि: उद्यमा:[सम्पादयतु]

अस्य मण्डलस्य अर्थव्यवस्थाया: प्रमुखाङ्गं कृषि: । कार्पास:, यवनाल:(ज्वारी), गोधूम:, तण्डुल:, 'बाजरी', कलाय:, किण:(मका), इक्षु: इत्यादीनि अस्य मण्डलस्य सस्योत्पादनानि सन्ति । मण्डलेऽस्मिन् कृषि: वर्षाजलावलम्बिता वर्तते । मण्डलेऽस्मिन् कार्पासोत्पादनं प्रायश: सर्वत्र भवति अत: कार्पासावलम्बिताः हस्तोद्यमा: प्रचलन्ति । सहकारी-शर्करोत्पादन-उद्यमा: प्रचलन्ति अत्र । अत्र 'घोङ्गडी' इति आच्छादनप्रकारनिर्माणं, लघु-खाद्यतैलनिर्माणोद्यमा: इत्यादय: कृष्यवलम्बिता: लघु-उद्यमा: सन्ति ।

जनसङ्ख्या[सम्पादयतु]

बुलढाणामण्डलस्य जनसङ्ख्या(२०११) २५,८६,२५८ अस्ति । अस्मिन् १३,३७,५६० पुरुषा:, १२,४८,६९८ महिला: च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते क्षेत्रे २६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २६८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.९३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४६ अस्ति । अत्र साक्षरता ७६.१४% अस्ति ।

ऐतिहासिकं किञ्चित्[सम्पादयतु]

लोणार सरोवरविषये पुराणग्रन्थेषु 'बैरजतीर्थ' इत्यनेन नाम्ना उल्लेखोऽस्ति इति कथ्यते । प्राचीने कुन्तलप्रदेशे अयं परिसर: समाविष्ट: । मण्डलेऽस्मिन् मौर्य-सातवाहन-बहमनी-मुघल-मराठाराजानाम् आधिपत्यमासीत् । आङ्लाधिपत्यम् अपि अत्रस्थै: जनै: अनुभूतम् । बेरार-प्रान्तविभाजनं भूत्वा मण्डलमिदं स्थापितम् ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले त्रयोदश उपमण्डलानि सन्ति । तानि-

  • खामगाव
  • चिखली
  • सङ्ग्रामपूर
  • सिन्दखेड राजे
  • देउळगाव राजे
  • नान्दुरा
  • बुलढाणा
  • मेहकर
  • मोताळा
  • मलकापूर
  • लोणार
  • जळगाव-जामोद
  • शेगाव

लोकजीवनम्[सम्पादयतु]

मण्डलेऽस्मिन् ग्रामेषु निवसन्त: जना: बहव: सन्ति । तेभ्य: आरोग्य-शिक्षण-व्यसनमुक्ति: इत्यादीनां सुविधानां योजना: प्रचलन्ति । मण्डलेऽस्मिन् काश्चन सामाजिकसंस्था: अपि कार्यरताः सन्ति, या: जनजातीनां विकासार्थं यतन्ते । सहकारिगणेभ्य: विद्युच्छक्त्त्युत्पादनकेन्द्रम्, उद्यमा: च सन्ति । मण्डलेऽस्मिन् बालाजी-मन्दिरम्, देऊळगावराजे, चिखली-पिम्पळगाव, शेगाव इत्येतेषु स्थानेषु यात्रा: प्रचलन्ति । तेभ्य: ज्ञायते यत् अत्रस्था: जना: उत्सवप्रिया: सन्ति ।

व्यक्तिविशेषा:[सम्पादयतु]

मण्डलमिदं केषाञ्चन विभूतिनां जन्म-कार्यस्थं वा वर्तते । तेषु केचन - शेगाव इत्यस्मिन् स्थाने गजाननमहाराजस्य समाधिस्थलम् अस्ति । गजानन महाराज शेगाव स्थानम् आगत्य जनै: सह वासं करोति स्म । केचन ग्रामवासिन: तं गुरुस्थानेऽपि मन्यन्ते । अत: आत्यन्तिकश्रद्धया भक्तजनै: शेगाव ग्रामे तस्य मन्दिरं, समाधिस्थलं च निर्मापितम् ।
शिवाजीमहाराजस्य माता राज्ञी जिजाबाई इत्यस्या: जन्मस्थानमस्मिन् मण्डले वर्तते ।

वीक्षणीयस्थलानि[सम्पादयतु]

  • खामगाव इत्यत्र औद्योगिक-विक्रयणकेन्द्रम्
  • सिन्दखेड राजे इत्यत्र शिवाजीमहाराजस्य माता जिजाबाई इत्यस्या: निवासस्थानं
  • मेहेकर इत्यत्र बालाजीमन्दिरम्
  • शेगाव इत्यत्र गजाननमहाराजस्य समाधिस्थलम्
  • नागझरी इत्यत्र गोमाजीमहाराजस्य श्रीक्षेत्रं
  • देऊळगावराजे इत्यत्र बालाजीमन्दिरम्, तत्र अश्विनमासे यात्रा प्रचलति ।
  • लोणार सरोवर:, धार गोमुखं च
  • सैलानी बाबा 'दर्गाह्'
  • मेहकर इत्यत्र स्वामि-विवेकानन्द आश्रमः
  • नान्दुरा इत्यत्र हनुमानमन्दिरम्

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=बुलढाणामण्डलम्&oldid=481180" इत्यस्माद् प्रतिप्राप्तम्