बृहत्साम तथा साम्नां...
दिखावट
श्लोकः
[सम्पादयतु]![]() | अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
![](http://upload.wikimedia.org/wikipedia/commons/thumb/8/82/Bhagvad_Gita.jpg/300px-Bhagvad_Gita.jpg)
- बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
- मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ ३५ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य पञ्चत्रिंशत्तमः(३५) श्लोकः ।
पदच्छेदः
[सम्पादयतु]बृहत् साम तथा साम्नां गायत्री छन्दसाम् अहम् मासानां मार्गशीर्षः अहम् ऋतूनां कुसुमाकरः ॥ ३५ ॥
अन्वयः
[सम्पादयतु]तथा साम्नां बृहत्साम । छन्दसाम् अहं गायत्री । मासानां मार्गशीर्षः अहम् । ऋतूनां कुसुमाकरः ।
शब्दार्थः
[सम्पादयतु]- तथा = एवम्
- साम्नाम् = साम्नाम्
- बृहत्साम = बृहत्साम
- छन्दसाम् = छन्दोविशिष्टानां मन्त्राणाम्
- अहं गायत्री = अहं गायत्री ऋक्
- मासानाम् = द्वादशमासानाम्
- अहं मार्गशीर्षः = अहम् आग्रहायणिकः मासः
- ऋतूनाम् = षण्णाम् ऋतूनाम्
- कुसुमाकरः = वसन्तः ।
अर्थः
[सम्पादयतु]तथा सामसु अहं बृहत्साम अस्मि । छन्दोविशिष्टानाम् ऋचाम् अहं गायत्रीच्छन्दः अस्मि । द्वादशसु मासेषु मार्गशीर्षः अहम् । षण्णाम् ऋतूनाम् अहं वसन्तः ।