बेल्लम्कोन्ड रामराय कविन्द्रुलु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

परिचय:[सम्पादयतु]

बेल्लम्कोन्ड रामराय कविन्द्रुलु ( रामा राव् इत्यपि नाम्ना ज्ञात: ) ( क्रि.श १८७५-१९१४) भारतीय: कवि:, लेखक:, योगि:, संस्कृतविद्वान् तत्वविदश्च आसीत्  । रामराय कवि: १४८ श्रेष्ठसंस्कृतकृतीनां रचयिता अस्ति । येषां ४५ ग्रन्था: न उपलब्यन्ते । केचन ग्रन्था: पूर्णं लब्धा: केचन भागमात्रमेव प्राप्ता: । संस्कृतविद्वांस: रामराय कविं शङ्कराचार्याणाम् अद्वैवसिद्धान्तस्य महान् प्रवक्ता इति मन्यन्ते । तस्य पाण्डित्येन “अपर आदिशङ्कर: “ इति गौरवनाम्नापि पुरस्कृत: ।

बाल्यादेव रामराय कवि: योगसाधक: आसीत् हयग्रीव भगवत: परमोपासक: आसीत् , यत् तस्य शिष्यस्य लङ्का सुन्दरराम शास्त्रीणा ज्ञायते |

बेल्लम्कोन्ड रामराय कविन्द्रुलु

जीवनम् विद्याभ्यास: च[सम्पादयतु]

रामराय कवे: पूर्वनाम: रामा राव् आसीत् । स: बेल्लम्कोन्ड मोहन् राव् हनुमाम्बा दम्पत्यो: पुत्रत्वेन क्रि.श १८७५ वर्षस्य दिसम्बर मासस्य २७ तमे दिनाङ्के अजायत । तस्य जन्म आन्ध्रप्रदेश राज्यस्य पामिडिपडु ग्रामे अभवत् । तस्य जन्म आन्ध्रप्रदेशस्य नियोगि ब्राह्मण कुटुम्बे अभवत् ये रामानुजाचार्याणां विशिष्टाद्वैत सिद्धान्तस्य अनुयायिन: आसन् । रामराय कवे: परिवार: परम्परया विष्णुभक्ता: आसन्  ।

सप्तवर्षे तस्य जनक: निधनं गत: । स: बाल्यादेव गृहशिक्षणं प्राप्नोति स्म तदनन्तरं आरोग्यबादा कारणत: इतोऽपि उत्तरं पठितुम् अशक्त: अभवत् । शङ्करमञ्ची लक्ष्मीनारायण शास्त्री शङ्करमञ्ची सीतारामय्य च एतस्मै उपनिषदां रूद्र-नमकं चमकं, वेदपाठम् आदीनाम् ज्ञानम् अप्रयच्छत: ।  

रामराय कवि: तदनन्तरं महाभाष्यस्य, व्याकरणस्य , तर्कस्य च अध्ययनं अकरोत् पुरिघट्ल राम शास्त्रिण:, भागवतुल हरि शास्त्रिण: , पुरिघट्ल सुब्रमण्य शास्त्रिण: च सान्निध्ये । मनोरमा, शब्देन्दुशेखरम्, पतञ्जलि भाष्यम् च पुरिघट्ल राम शास्त्रिण: सान्निध्ये अपठत् । तेषां सान्निध्ये एव स: सिद्धान्तकौमुदिं सन्धिपञ्चकपर्यन्तम् अपठत् । स: शरद्रात्रि इति सिद्धान्तकौमुदि ग्रन्थाय भाष्यं विरचयति स्म ।

तस्य जीवनकथालेखक: शिष्य: च लङ्का सुन्दरराम शास्त्री रामराय कवि: १४ वयसि एव आध्यात्मिके दीक्षित: अभवत् वदति । दीक्षानन्तरं ‘राव्’ इति शब्दं ‘राय’ इति शब्देन परिवर्तितवान् । तदनन्तरं स: श्रीमत् हयग्रीवशतकं, हयग्रीव अष्टोत्तरशतनामावलीं , श्रीहयग्रीव सहस्रनामावलीं , हयग्रीवनवरत्नस्तुतिं च विरचितवान्।  ये कृतय: दुर्लभं सुन्दरं च सन्ति इति विद्वद्भि: परिगण्यते । अत एव स: स्वयमेव स्वकृतिभ्य: भाष्यं कृतवान् इति विद्वांस: वदन्ति ।

रामराय कवि: ३९ वयसि क्रि.श १९१४ तमे वर्षे निधनं गत: ।

बेल्लम्कोन्ड रामराय कवीन्द्रुलु ट्रस्त संस्थया अस्य महापुरुषस्य कृतय: तेलुगु संस्कृतभाषायां च प्रकाश्यन्ते ।


सम्बद्धाः लेखाः[सम्पादयतु]