भयानकरसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


भयानकस्य भयं स्थायिभावो भवति । क्रूराऽऽकारादिदर्शनादिभिः प्राणिनां हृदयेषु जायमानमनर्थाशङ्कनं भयम् । व्याघ्रदर्शनादि जन्मापरमानर्थविषयको वैक्लव्याख्यश्चित्तवृत्तिविशेषो भयमिति रसगङ्गाधरकारः। यद्यपि भयत्रासशब्दौ सामान्यतस्समानार्थकौ प्रयुज्येते तथापि मरणादिरुपपरमानर्थशङ्कनं भयं, मरणभिन्नाऽनर्थशङ्कनं त्रासः इति तयोर्भेदो वर्तते । तयोर्भयं स्थायिभावः, त्रासस्तु सञ्चारी भावः । भीः धातोः अच् प्रत्यकृते अन् आदेशे "भयानक" इति रूपं सिध्यति। भरतमुनिः स्वनाट्यशास्त्रे अमुम् रसमधिकृत्य एवं निरूपितवान् अस्ति। तद्यथा, "भयानको नाम भयस्थायिभावात्मकः” इति। सः अस्मिन्नेव ग्रन्थे भयकारणानि कानि इति निरूपितवान् अस्ति। सः श्लोकः एवं भवति।
विकृतरवस्त्वदर्शनसङ्ग्राममारण्यशून्यगृहगमनात्।
गुरुनृपयोरपराधात् कृतकश्च भयानको ज्ञेयः॥
शृङ्गारादि रसेषु भयस्थायीभावसहितः भयानकरसः भवति। भयाय कारणम् आलम्बनविभावः भवति। अस्य भयङ्करव्यापारः उद्दीपनविभावः भवति। स्नेहः, रोमाञ्चनम्, कम्पनम्, प्रलयादय़ः व्यभिचारीभावाः भवन्ति। गद्गदस्वरेण कथनम् अनुभावः भवति। अस्य रसस्य देवः कालः (यमः)।

"https://sa.wikipedia.org/w/index.php?title=भयानकरसः&oldid=372727" इत्यस्माद् पुनः प्राप्तिः