भारतस्य राष्ट्रियग्रन्थालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
राष्ट्रियः पुस्तकालयः

राष्ट्रियः पुस्तकालयः (National Library of India) भारतस्य कोलकतानगरे अस्ति । एषः भारते एव बृहद्ग्रन्थालयः वर्तते । तदनन्तरस्थाने अस्ति अण्णाग्रन्थालयः, चेन्नैनगरे । अस्य स्थापना १९४८ तमे वर्षे अभवत् । अस्य विषये राष्ट्रियं महत्वस्थानं दत्तमस्ति । एतस्य मुख्यविषयाः एवं सन्ति ।

• राष्ट्रियमहत्त्वयुतानि प्रकटितानि सर्वाणि पुस्तकानि (दैनन्दिनीः विहाय) तथा पाण्डुलिप्या यानि पुस्तकानि सन्ति तेषां सर्वेषां संरक्षणम् ।
भारतस्य विषये मुद्रितसामग्र्यः याः सन्ति ताः यत्र कुत्रापि मुद्रिताः प्राकाशिताः व स्युः ते अत्र प्राप्तव्याः ।
• सामान्यग्रन्थानां तथा विशिष्टग्रन्थानां सूचीनिर्माणम् अस्य दायित्वम् अस्ति ।
• तदर्थम् अन्तारष्ट्रियस्तरे ये नियमाः सन्ति तेषां नियमानाम् अनुपालनं अनुस्रियते अत्र ।
• अन्ताराष्ट्रिये स्तरे पुस्तकानाम् आदानं प्रदानं च भविष्यति । देशस्य अन्तः अपि एतादृस्य कार्यस्य भूमिकाः निभालयति एषः ग्रन्थालयः ।

इतिहासः[सम्पादयतु]

एषः वस्तुतः ब्रिटिष् राज्ये राज्यपालस्य वासस्थानमासीत् । एतस्य कार्यारम्भः १८३६ तमे वर्षे कोलकतासार्वजनिकग्रन्थालयः इति नाम्ना आरब्धम् । एषः सर्वकारेतरा संस्था आसीत् । ये त्रिशतं रूप्यकाणि यच्छन्ति ते तस्य स्वामिनः भवन्ति स्म । राजकुमारः द्वारकानाथट्यागोरः अस्य प्रथमः स्वामी । तदानीं ३०० रूप्यकाणि अधिकानि एव आसन् ।, निर्धनछात्राणां तथा अन्येषाम् अस्य उपयोगार्थं कानिचन वर्षाणि यावत् मुक्तः अवकाशः प्रदत्तः आसीत् । लार्ड् मेट्कफ़े तदा गवर्नर् जनरल् आसीत् । सः ४६७५ पुस्तकानि फोर्ट् विलियम् कालेजतः अत्र प्रेषितवान् । एतैः पुस्तकैः सह दानिभिः प्रदत्तानि पुस्तकानि ग्रन्थालयस्य मूलपुस्तककोषाः अभवन्। भारतीयपुस्तकानि तथा विदेशीयपुस्तकानि, विशेषतः इङ्ग्लेण्डतः अनीतानि पुस्तकानि अत्र स्थापितानि । दातारः निरन्तरं अस्य कृते पुस्तकं दत्तवन्तः, सर्वकारः अपि पुस्तकानि प्रायच्छत् । अस्य विश्वे महत्त्वयुतं स्थानमस्ति यतः एषः अस्मिन् प्रदेशे प्रथमः सार्वजनिकः ग्रन्थालयः इति । एतादृशाः सुव्यवस्थिताः ग्रन्थालयाः तदानीं यूरोप्मध्ये अपि दुर्लभाः आसन् । कल्कत्तासार्वजनिकग्रन्थालयस्य प्रयत्नेन तत्र अपूर्वाणि पुस्तकानि पत्रिकाः च सङ्गृहीतानि सन्ति । स्वातन्त्र्यानन्तरं भारतसर्वकारः इम्पीरियल् ग्रन्थालयस्य नाम राष्ट्रियग्रन्थालयः इति नामकरणं अकरोत् । (२०१०) भारतसर्वकारस्य संस्कृतिमन्त्रालयः यस्य अधीने एष ग्रन्थालयः कार्यं निर्वहति स्म , सः इदानीं पुरातत्त्वविभागेन स्वीकृते भवने अस्ति । इदानीं तत्र पुस्तकानि स्थापितानि सन्ति । एषः ग्रन्थालयः बेल्वेडेर् मार्गे अस्ति यश्च अलिपुरमध्ये अस्ति । प्रातः नववादनतः रात्रौ अष्टवादनपर्यन्तम् एष कार्यं करोति । शनिवासरे भानुवासरे अन्यविरामदिनेषु प्रातः ९.३० तः सायं ६.00 पर्यन्तं कार्यं करोति । भाषाभवने सर्वेषां अवकाशः नास्ति ।

ग्रन्थालयस्य स्वरूपम्[सम्पादयतु]

• 2,270,000 पुस्तकानि
• 86,000 मानचित्राणि
• 3,200 अधिकानि हस्तलिखितपत्राणि
• ४५ किलोमीटर्व्याप्याः निधानिकाः
• पठनप्रकोष्टे ५५० जनाः उपवेष्टुं शक्नुवन्ति ।

बाह्यानुबन्धः[सम्पादयतु]