भारतीयदार्शनिकाः
दार्शनिकाः दर्शनशास्त्रे निपूणाः भवन्ति। गौतमादयः प्रसिद्धाः।
जरन्नैयायिकः श्रीजयन्तभट्टः
[सम्पादयतु]पद-वाक्य-प्रमाणपारावारीणस्य श्रीजयन्तभद्रस्य जन्मतिथिः = जन्मकाल स्तथा स्थितिकालस्तदीयपुत्रेण विरचितस्य 'कादम्बरीकथासार'-नामकग्रन्थस्या नुसारेण प्राय:--नवमशताब्द्या उत्तरभागात्मक एव कालः प्रतीयते ।
न्यायमञ्जरीग्रन्थे वाचस्पतिमिश्रस्य तथाऽऽनन्दवर्धनस्योल्लेखानुसार मप्यस्य श्रीभट्टस्याऽस्तित्वकालस्तथा स्थितिकालः नवमशताब्द्या उत्तरार्ध एव विज्ञायते ।
श्रीजयन्तभट्टो गौडदेशवासित्वेन गौडब्राह्मणस्तथा भारद्वाजगोत्रोत्पन्नश्चा सीत् । एवमयं गौडवंशावतंसः श्रीभट्टः काश्मीरदेशवासित्वेन तथा महादेवा परपर्यायभूते शङ्करे 'शिवे'ऽव्यभिचारिणीभक्तिभावनाभाविताऽन्तःकरणत्वेन परम ( कट्टर ) शैव आसीत् ।
अस्य पूर्वजा जना बङ्गदेश निवासिनः श्रूयन्ते । अर्थादस्य प्रपितामहः श्रीशक्तिस्वामी बङ्गदेशतः काश्मीरदेशमागत्य पश्चिमदेशवासी जातः ।
अत्रागत्याऽस्य प्रपितामहः श्रीशक्तिस्वामी 'मुक्तपद' अपरपर्यायभूतस्य श्रीमुक्तापीडस्य महाराजस्य, अपरनाम्नः श्रीललितादित्यस्य प्रधानमन्त्री चाऽभूत् ।
अयञ्च श्रीशक्तिस्वामी महान् त्यागसम्पन्नः सन्नेक आदर्शभूतः प्रभूतः पुरुष आसीत् । तथा श्रीजयन्तभट्टस्य पितृपाद-श्रीचन्द्रप्रकाशस्य पितामहः श्रीशक्तिस्वामी आसीत्, अस्य चतुर्थश्रेण्यां ( चौथी पीढ़ी में ) श्रीजयन्तभट्टः समजीजनत् ।
श्रीजयन्तभट्टः महतीं ख्यातिं गतो न्यायशास्त्रे लोकोत्तरविशिष्टपाण्डित्य परिपूर्णो महान् विद्वानासीत् । गङ्गेशप्रभृतयोऽपि महान्तो विद्वांसः श्रीजयन्त भट्ट 'जरन्नैयायिक' शब्देनोच्चारयन्ति स्म ।
जरन्नैयायिकस्य श्रीजयन्तभद्रस्य विद्वत्ताया महत्ताऽनेनापि प्रमाणपूरुषेण ज्ञायते यत् प्रमाणभूतः पुरुषः षड्दर्शनाचार्यः श्रीवाचस्पतिमिश्रोऽपि महोद्भट विद्वान् अस्य शिष्य आसीत् । अत एव तत्त्वात्तं श्रीभट श्रीगङ्गेशोऽपि प्रणनाम । उक्तञ्च-
अज्ञानतिमिरशमनीं परदमनी न्यायमञ्जरी रुचिराम् ।
प्रसवित्रे प्रभवित्रे विद्यातरवे गुरवे नमः ।।[१]
न्यायमञ्जरीकारः श्रीजयन्तभट्ट एवासीत् साक्षात्, अतोऽनेनापि सुस्पष्ट मिदं सिद्धयति यत श्रीवाचस्पतिमिश्रोऽप्यस्यैव महानुभावस्य श्रीजयन्तभट्टस्य भारद्वाजगोत्रोत्पन्नस्यैवाऽस्मद्गोत्रस्यैवैकः सदस्य आसीत् ।
श्रीजयन्तभद्रश्चार्वाकबौद्धदार्शनिकसिद्धान्तानां खण्डनं सम्यक् कृतवान्, स्वीयसिद्धान्तश्च महद्वैदुष्यपूर्णदृष्ट्या संस्थापितवान् ।
श्रीजयन्तभट्टस्य महा विदुषो विषयेऽयमप्यस्ति समुल्लेखनीयो विषयः यत् अस्य 'न्यायमञ्जरी' ग्रन्थस्य लेखनात्मकं कायं महाबन्धनभूते प्रभूते स्थानेऽयं
श्रीभट्टो विहितवानिति श्रूयते । इयञ्च 'न्यायमञ्जरी' गौतमस्य कतिपय सूत्राणामुपर्येव 'प्रमेयबहुला वृत्ति' स्वरूपान्विता वर्तते इत्यपि श्रावणप्रत्यक्ष विषयीक्रियते । तच्च बन्धनभूतं स्थानं न्यायमञ्जरीस्थश्लोकेन सूच्यते -
राज्ञा तु गह्वरेऽस्मिन् शब्दके बन्धने विनिहितोऽहम् ।
ग्रन्थ रचनाविनोदादिह हि मया वासरा गमिताः ॥[२]
इदञ्च बन्धनभूतं स्थानं किमपि, गृहं स्याद्, राजप्रासादो वा कश्चिदै कान्तिकः स्थानविशेषः स्यात्, कारागारो वा स्यादिति तु विचारास्पदीभूतोऽयं विषयः ।
श्रीवर्धमानोपाध्यायः
[सम्पादयतु]एवन्तु वर्धमानोपाध्यायनामानो बहवो विद्वांसोऽभूवन् । परन्तु गङ्गेशोपा ध्यायपुत्रस्य तथा शिष्यस्य श्रीवर्धमानोपाध्यायस्यैवाऽत्राऽस्माभिः समुल्लेखो विधीयते । यथा-न्यायनिबन्धप्रकाशान्ते
'न्यायाम्भोजपतङ्गाय मीमांसापारदशिने ।
गङ्गेश्वराय गुरवे पित्रेऽथ भवते नमः ॥'
एतेनापि सुस्पष्टमिदं विज्ञायते यदस्यैवाऽऽचार्यप्रवर-श्रीवर्धमानोपाध्यायस्य निमित्तकारणीभूतो जन्मदाता श्रीगङ्गेशोपाध्याय एवाऽऽसीत्, अयमेव च श्रीउपाध्यायोऽस्य जन्मदातृत्वेन पिताऽप्यासीत्, गुरुरपि चेति विज्ञेयम् ।
यद्यपि अयञ्च श्रीवर्धमानोपाध्यायो नासीत् स्वीयपितृसमो बुद्धिमान् प्रतिभावांश्च । तथापि तत्रेदमवश्यमेवाऽस्ति वक्तव्यं यत्-स्वल्पे एव वयसि मिथिलायामाचार्यप्रवर-श्रीगङ्गेशोपाध्यायस्याऽनन्तरं बहवो विद्वांसो लेखका श्वाऽभूवन् ।
परन्तु तत्र नूतनशैल्या विशेषतो द्वावेव विद्वांसावभूताम् । ययोरेकः श्रीगङ्गशोपाध्यायस्य पुत्रः श्रीवर्धमानोपाध्यायः, अपरश्च श्रीपक्षधरमिश्रः ।
द्वावेवेमौ महान्तावनुपमवैदुष्यसम्पत्तिमन्तौ विद्वांसौ न्यायशास्त्राम्बुराशये राशित्वम्, तत्साधनम्, तदतिरिक्तञ्चापेक्षितं सर्वमेव प्रदत्तवन्तौ ।
इमो द्वावेव विद्वांसौ मैथिलवंशावतंसभूतौ प्रभूतौ ब्राह्मणकुलसदने जन्मा नावभवताम् । तत्र श्रीवर्धमानोपाध्यायस्य जन्मकाल:-१३ शताब्दी प्रमात्वेन सुनिश्चिता वर्तते इत्यत्र नास्ति कोऽपि विचिकित्सावसरः ।
श्रीवर्धमानोपाध्यायविनिर्मिताः सन्तीमे ग्रन्थाः यथा-
१. न्यायनिबन्धप्रकाशः,
२. न्यायपरिशिष्टप्रकाशः,
३. अन्वीक्षा नयतत्त्वबोधश्चेति सन्ति त्रय एव ग्रन्थाः ।
श्रीवासुदेवसार्वभौमः
[सम्पादयतु]श्रीवासुदेवसार्वभौमः खलु बङ्गालदेशनिवासी बङ्गाली ब्राह्मण आसीत् । अस्य जन्मकालश्चतुर्दशशताब्दी कथयन्ति मनीषिणः ।
अपरे च विद्वांसः पञ्चदशशताब्द्याः षोडशशताब्द्याश्च मध्यकालमेवाऽस्य श्रीसार्वभौमस्य जन्मकालं वदन्ति । परन्तु कर्णाकर्णिकया श्रवणमात्रमेतन्न तु वास्तविकत्वेन निर्धारयितुं शक्नुमः ।।
अस्य श्रीसार्वभौमस्यापि महानैयायिकत्वविषये चास्ति श्रीरघुनाथशिरो मणिरेव प्रमाणम्, यतोऽस्य श्रीसार्वभौमस्य श्रीशिरोमणिः प्रधानभूतः प्रभूतः प्राचीनतमश्चाऽन्तेवसन्नासीदित्यनेनाऽनुमीयते यत् श्रीसार्वभौमोऽपि महानैयायि केषु परिगण्यते स्म । अत एव
'सर्वतो जयमन्विच्छेत् शिष्यादिच्छेत् पराजयम्'। इत्यादि किम्वदन्ती अप्यत्रैव सङ्गच्छते शोभते च । इमां किम्वदन्तीं समाश्रित्यैव वयमिदमपि व्याहर्तुं शक्नुमो यत्-न केवलमयं श्रीसार्वभौमो महानैयायिक एवाऽऽसीत् अपि तु तथाविध एव भाग्यशाल्यपीति विज्ञेयम् । यतो गुरूणां धनं खलु शिष्या एव प्राधान्येन भवन्ति । अत एव
'विद्यायोनिसम्बन्धाद् वुञ्' इति सूत्ररूपेण श्रीपाणिनेः कथनमपि साधु सङ्गच्छते ।
श्रीवासुदेवसार्वभौमश्चिन्तामणिग्रन्थोपरि यां टीकां विहितवान्, तस्याः खण्डनं तदीयशिष्यः श्रीशिरोमणिरेव कृतवान् । __ एवं श्रीसार्वभौमस्य स्वीयं स्वतन्त्रं मतमपि प्रायोऽधिकांशतः सर्वत्रैवोप लभ्यते । यथा-'सार्वभौममतमाशंक्य निराचष्टे' इत्यादि ।
तथैव एवंविधा अपि कियन्तः सिद्धान्ता अस्यैव श्रीसार्वभौमस्य समुप लभ्यन्ते मिलन्ति च, ये चाऽनेनैव सन्ति स्वातन्त्र्येण संचालिताः । यथा
प्रश्नः—किं नामोभयनिष्ठमुभयत्वम् ?
उत्तरम्-एकविशिष्टापरत्वमेवोभयत्वम् । उदाहरणार्थं यथा-भूतत्वमूर्त त्वोभयत्वं हि भूतत्वविशिष्टमूर्तत्वस्वरूपम् ।
एवमेव 'विशिष्टं शुद्धान्नातिरिच्यते' अयमपि नियमः सिद्धान्तो वा तन्नि मितत्वेन तदीय एव । यथा सत्ता = गुणकर्मभेदविशिष्टसत्ता चाऽस्ति परस्पर
मभिन्नैव, भेदराहित्यावच्छिन्नत्वात् । वै० सामानाधिकरण्यसम्बन्धेन ।
अस्य च नियमस्य सिद्धान्तस्य वाऽप्यस्ति आधारभूतो नियमः सिद्धान्तो वा 'विशेष्यवृत्तिधर्मस्य विशिष्टानुयोगिकाऽभावानङ्गीकारात्' इति । अर्थात् गुणकर्मान्यत्वविशिष्टसत्तेत्यत्र विशेष्यीभूतायां सत्तायां वर्तमानस्य सत्तात्वस्या ऽभावो गुणकर्मभेदविशिष्टसत्तायां नाङ्गीक्रियते, नाप्यङ्गीकर्तुं शक्यते इति ।'
इत्थञ्चाऽस्य श्रीवासुदेवसार्वभौमस्य पाण्डित्यं वैदुष्यं वा लोकोत्तरत्वेन वैलक्षण्यमादधान. आसीत् इत्यत्र नास्ति लेशतोऽपि सन्देहानध्यवसायावसरः, अतिशयोक्तिरपि नास्ति । 'विशेषस्तु विशेषवान्' इति न्यायेन विशेषान्तरं च वक्ष्यते ।
अस्य श्रीसार्वभौमस्य रघुनाथशिरोमणिवत् रघुनन्दन-कृष्णानन्दप्रभृतयो ऽनेके शिष्याः समभूवन् । श्रूयते यत् महाप्रभुश्रीकृष्णचैतन्योऽप्यस्यैव शिष्य आसीदित्यप्यस्त्येका किम्वदन्ती।
श्रीरघुनाथशिरोमणिः
[सम्पादयतु]तार्किकशिरोमणिः कल्पनाधिनाथः श्रीरघुनाथ आसीद् बङ्गलादेशनिवासी बङ्गाली ब्राह्मणः । अस्य पितुः शरीरान्तो बाल्यकाले एव जात इति श्रूयते ।
एकस्मिन् दिनेऽयं श्रीशिरोमणिः स्वीयमातुरादेशानुसारं वह्निमानेतुकामः समीपस्थां विशालां पाकशालां गतवान् । बुद्धिवैभवसम्पन्नो बालको रघुनाथः सरलस्वभावमापन्नः सन् पात्रग्रहणमन्तरैवाऽग्निमानेतुं गतवान् । तत्र च महा नैयायिकस्य सार्वभौमोपाह्व-श्रीवासुदेवस्य विशालां भोजनशालां सन्निरीक्ष्य प्रोवाच-मह्यमनलं प्रदीयतामिति ।
तदानीन्तनकालावच्छिन्नं पात्रविहीनमेनं विचार्य सोपहासं श्रीसार्वभौम शिष्या वदन्ति यदग्नि गृहाण । विलक्षणलोकोत्तरप्रतिभाशाली चायं ,श्रीरघु नाथोऽविलम्बेनैवाऽधस्ताद् धूलिमुत्थाप्य व्याजहार, दीयतामग्निरिति ।
इदञ्च समस्तमपि दृश्यदर्शनं विदधान आसनासीनः श्रीसार्वभौमस्तस्य बालकस्याऽलौकिकी प्रतिभां मनसा विचारन् बालकस्यानुगमनं चकार ।
बालकस्य गृहगमनानन्तरं श्रीसार्वभौमस्तदीयां मातरं प्रत्युवाच हे मात स्तेऽयं बालकश्चास्ति महान् बुद्धिमान् प्रतिभावान् प्रत्युत्पन्नमतिमांश्चेति मे मतिः । अयञ्च बालको महानेव तार्किको भवितुमर्हति यदि भवतीमं बालकं मह्यं चेद् दद्याद् दास्यति वा इति । अयञ्च मत्तः सर्वमपि न्यायशास्त्रं महांस्ता किको भविष्यतीति मे सुदृढो विश्वासः ।
रघुनाथस्य माता सादरं सविनयञ्च प्रोवाच-यदयन्तु चास्ति मदीयः समुपकारः । ततश्च तदानीमेव बालकमात्मना सहैव स्वगृहमानीतवान् महान् विद्वान् श्रीसार्वभौमः । तथा 'क' 'ख' इत्यादिवर्णानामेव प्रारम्भिकी शिक्षा प्रारब्धवान् ।
प्रश्नः--एकस्मिन् दिने श्रीरघुनाथः स्वीयं गुरुं श्रीसार्वभौम प्रति पृष्टवान् यद–हे गुरो ! अस्यैव अर्थात् 'क' इत्यस्यैव नामधेयं 'क' इति कथमस्ति कथं वोच्यते ? 'ख' इत्यस्य 'ग' इत्यस्य वा नामकरणं 'क' इति कथं न कृतमित्यु च्यताम् ?
उत्तरम् --श्रीसार्वभौमः समुत्तरयति-'क' इति चास्ति ब्रह्मा । ब्रह्मव च सृष्टे: सर्वतः प्राक् समुत्पन्नो जातः । अत एव 'ब्रह्मा' इत्यस्य स्थानीयः 'क' एव सर्ववर्णेषु 'क' इति नाम्ना प्रोच्यते ।
एवम्भूतं समाधान श्रावणप्रत्यक्षविषयीकृत्य बालकस्य महान् सन्तोषो जातस्तथा गौरवप्रयोज्याया: गुरुभक्तेः श्रद्धायाश्च वास्तविकं गुरुवरं श्रीसार्व भौमं प्रति परमसंवर्धनमभूत् ।
तदनन्तरञ्च श्रीरघुनाथो महानैयायिकस्य श्रीवासुदेवसार्वभौमस्य पार्वे सकलं शास्त्रं .समधीत्याऽन्ततो गत्वा विशेषजिज्ञासानिवृत्तये आहोस्वित् परीक्षणं कर्तुकामः श्रीपक्षधरस्य महान्यायशास्त्रविदुषः सकाशं गतवान् । श्रीरघुनाथ एकाक्षिविहीनः 'काण' आसीदित्यपि विज्ञेयम् ।
तत्र स्वस्थानभूतं प्रभूतं स्वगृहं समागतं श्रीरघुनाथं विलोक्य सर्वेऽपि तत्रत्याः खल्वन्तेवसन्तः समुपहसितवन्तः को भवानेकलोचनः इत्यादिना । अर्थात् -
'आखण्डलः सहस्राक्षः विरूपाक्षस्त्रिलोचनः ।
अन्ये द्विलोचनाः सर्वे को भवानेकलोचनः ।
कल्पक: श्रीरघुनाथशिरोमणिरुत्तरं दत्तवान् -
'आखण्डलः सहस्राक्षः विरूपाक्षस्त्रिलोचनः ।
यूयं विलोचनाः सर्वेऽहं न्यायकलोचनः' ।
'को भवानेकलोचनः' इत्यस्याऽन्यदप्युत्तरं दत्तवान् श्रीरघुनाथशिरोमणिः -
'विदुषां निवहैरिहैकमत्या यददुष्टं निरटङ्कि यच्च दुष्टम् ।
मयि जल्पति कल्पनाधिनाथे रघुनाथे मन्तां तदन्यथैव ॥
पुनः पक्षधरमिश्रो ब्रूते -
'वक्षोजपानकृत काण ! संशये जाग्रति स्फुटे ।
सामान्यलक्षणा कस्मादकस्मादपलप्यते ॥
याथार्थ्येनास्य प्रश्नस्योत्तरं दत्तवान् श्रीशिरोमणिः-सामान्यलक्षणायाः 'अत्र वदन्ती'ति कल्पे । अत्र तदुल्लेखोलेखविस्तरभयान्नहि विधीयते ।
अनुमितिग्रन्थे मङ्गलप्रकरणे सगर्व सर्वानेव नैयायिकान् महानयायिकान् वा निर्भत्सितवान् श्रीरघुनाथशिरोमणिः -
न्यायमधीते सर्वस्तनुते कुतुकान्निबन्धमप्यत्र ।
अस्य तु किमपि रहस्यं केचन विज्ञातुमीशते सुधियः ॥
अस्याऽर्थान्तरमप्याह-हे सुधियः ! अस्य न्यायशास्त्रस्य किमपि रहस्य केचन नैयायिका विद्वांसो विज्ञातुमीशते किमु ?
नव्यन्यायस्य मूलभूतग्रन्थस्य चिन्तामणौ श्रीरघुनाथशिरोमणेश्चास्ति 'दीधिति' नाम्नी टीका। इमामेव टीकामाश्रित्य गादाधरी-टीका, जागदीशी टीकानामपि निर्माणं जातम् ।
नैतावन्मात्रमेव पर्याप्तम् अपि तु श्रीशिरोमणेष्टीका अन्यत्रापि ग्रन्थान्तरे ष्वपि सन्ति निर्माणमापन्नाः । यथा-चिन्तामणिग्रन्थे यास्ति श्रीपक्षधरस्य 'आलोक' टीका तत्राऽप्यस्ति श्रीशिरोमणेः 'दीधिति' नाम्नी टीका। इयञ्च टीका मौलिकग्रन्थवत् वर्तते समानमाना इति ।
एवं खण्डनखण्डखाद्यग्रन्थे कुसुमाञ्जलिग्रन्थे, तथा किरणावलिप्रभृतिषु ग्रन्थेष्वपि सन्ति सर्वथा सन्तोषमादधानाष्टीका अनंतिप्रकाशमाना इति ।
अपि चाऽस्त्यस्य 'स्वतन्त्रपदार्थसंग्रह' नामकस्तावदेको ग्रन्थः, यस्मिन् ग्रन्थेऽयं महानुभावः पृथक्त्वस्य गुणत्वं खण्डितवान् । तथा कालदिशोर्द्रव्यत्वं निराकृतवात्, 'दिक्कालौ नेश्वरादतिरिच्यते' इत्यादिना ।
अपि च सामान्यलक्षणायाः, केवलान्वयिनः, केवलव्य तिरेकिणः, प्राग भावस्य, अभावविषयकबुद्धित्वावच्छिन्नं प्रति प्रतियोगिज्ञानस्य कारणतायाश्च खण्डनं कृतवान्, इत्थञ्च नानाविधानां पदार्थानां खण्डनं मण्डनञ्च विहितवान् श्रीशिरोमणिः । एवं स्थिते इदमेव निर्णीयते यदेवंविधं खण्डनं मण्डनञ्च विदधानस्तथा स्वीयबुद्धयुपजनूतनन्यायपदार्थकल्पनामाश्रित्यैव श्रीरघुनाथः 'शिरोमणि' इत्युपाधिभाजनभूतोऽभूदित्यहं मन्ये ।
श्रीगङ्गेशोपाध्यायानन्तरं तार्किकनिष्ठमहत्त्वावच्छिन्नत्वेन प्रसिद्धि लभ मानो नैयायिकशिरोमणिः खल्वयमेव श्रीरघुनाथशिरोमणिरभूदिति स्वयमेव विदाङ्कुर्वन्तु न्यायाम्भोधिभूता: प्रभूता विद्वांसः ।
अस्याऽनुभावस्य नैयायिकशिरोमणेः श्रीरघुनाथस्य जन्म १४७७ ईसवीये नदियाप्रान्ते बभूव । यश्च नदियाप्रान्तो नदिया, नदिया सान्ती पुरीप्रभृतिशब्दा वल्यापि समुच्यमाना भवति, भवति स्म च ।
अन्यच्चापि-आरम्भवादभावेन भासमानेऽस्मिन् संसारसागरे सततं 'पुन रपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम्' इति श्रीशङ्कराचार्योक्त न्यायेन जननमरणप्रबन्धाग्निना दन्दह्यमानानां जनानां पुनरागतिशून्यं सर्वथा ऽशून्यमानन्दवनलक्षणलक्षितं द्वैतात्मक मार्ग समुपदिष्टवान् दर्शितवांश्च महा नैयायिकशिरोमणिः श्रीशिरोमणिः ।
डा० हरिदत्तशास्त्रिप्रभृतयो विद्वांसोऽस्य महानुभावस्य सन्तिष्ठमानतां १५०० ईसवीयं वदन्तीत्यहमपि शशिबालागौडो मन्ये, यतोऽस्य श्रीशिरोमणेः पूर्णकालिकत्वात् ।
भवानन्दतर्कवागीशः
[सम्पादयतु]भवानन्दतर्कवागीशः अयं भवानन्दस्तर्कवागीशो बंगलादेशवासी कश्चिन्न्यायशास्त्रस्य मूर्धन्यो विद्वानासीदिति श्रूयते । श्रीवागीशस्य महद्वैदुष्यं वैदुष्यमहत्त्वं वा भवतो विहितया दीधितेरुपरि 'दीधितिप्रकाशिका' नाम्न्या टीकया सुस्पष्टं विज्ञायते । तथा तर्कालङ्कारोपाह्वः श्रीजगदीशोऽपि महानुद्भटो नैयायिकोऽस्यैव महानु भावस्याऽन्तेवासी शिष्य आसीत् ।
गुरुभक्तः श्रीजगदीशः 'जागदीशी-व्यधिकरण' नामके ग्रन्थे व्याप्तिलक्षण घटकीभूतस्य प्रभूतस्य सामानाधिकरण्यपदस्य व्यावृत्ति वदन् प्रदर्शयन् वा स्वीयगुरोः श्रीभवानन्दस्य प्रातःस्मरणीयस्य सादरं नामोल्लेखजन्यां परमां भक्ति प्रादर्शयत् । एवमन्यत्रापि बहुषु स्थलेषु मया शशिबालागौड़ेनाऽनुभूयते, अनुभवोऽपि च पौनःपुन्येन विभूषितः ।
श्रीभवानन्दो जगदीशस्य तर्कालङ्कारस्य न केवलं गुरुरेवाऽऽसीदपि तु पालन-पोषणकर्तृत्वेनाऽयं तदीयः पितृस्थानीयोऽप्यासीत् इति श्रूयते । 'बाल स्तावत् क्रीडासक्तः' इति न्यायेन बाल्यावस्थायां महत् क्रीडासक्तोऽयं श्रीजग दीशो निर्धनपितृविहीनगृहे जन्मलाभं कृतवान् ।
एकदा श्रूयते यत् खजूरफलवद्वृक्षं विलोक्य तत्राऽधस्तात् पतितांस्तान् खादन् श्रीजगदीशो यदोपरिभागे स्वीयां दृष्टि प्रयच्छति तदा महदेव रक्तवर्ण खर्जूरफलं तत् समनुभूय वृक्षस्योपरिभागे गत्वा खजूरफलं नेतुकामो यदा हस्तं प्रसारयति तदा कश्चिदेकस्तत्रैव प्रच्छन्नः सर्प एतन्महानुभावाऽभिमुखागतो बभूव ।
प्रतिभाभास्वरोऽयं श्रीजगदीशोऽपि खलु शुक्लपक्षीयश शिशुभ्रबुद्धेः प्राबल्य वशात् तदीयं मुखमेव बलवता हस्तेन जग्राह । तदनन्तरं महता बलेन वेगेन च हस्तस्य सर्वावयवावच्छेदेन संस्पृशन्तं ( लिपटे हुए ) तं सर्प वृक्षस्य लम्बाय मानशाखास्थानीयपत्रीय तीक्ष्णाग्रभागेन निर्जीवं विदधानस्तदीयं मुखमपि तथा विधमेव चकार ।
एतत् सर्वं नाटकस्थानीयं दृश्यं द्रष्टा श्रीभवानन्दस्तस्य बालकस्याऽनुगमनं कृतवान् । पितृविहीनं गृहं गत्वा तदीयाञ्च मातरं दृष्ट्वा प्रोवाच-श्रीभवा नन्दो यदेनं स्वीयं बालकं प्रतिभाभास्वरं जगदीशं मह्यं देहि, अहं पाठयिष्यामि ।
सापि स्वीयां निर्धनतां समनुभवपरायणा सती कदापि कथमपि च पाठ यितुमशक्ता च सती तदीया माता महान्तं हर्षप्रकर्ष समनुभवती बालक जगदीशं ‘गच्छे'त्यादिदेश । तदनन्तरं यादृशं न्यायदर्शनशास्त्रवैदुष्यं प्राप्त वानयं जगदीश इति तु सर्वेऽपि न्यायशास्त्रवेत्तारो विद्वांसो जानन्त्येवेत्यत्र नास्ति लेशतोऽपि विचारचर्चावकाश इति ।
श्रीजगदीशतर्कालङ्कारः
[सम्पादयतु]अहं पूर्वमेवोक्तवान् यत् श्रीजगदीशतर्कालङ्कारश्वासीत् श्रीभवानन्दतर्क वागीशस्य प्रधानभूतः प्रभूतः शिष्यः । अयञ्च श्रीतलिङ्कारः खलु बाल्य कालत एव मल्लविद्यायामपि निष्णात आसीत् । अस्य श्रीतर्कालङ्कारस्य न्याय शास्त्रीयं वैदुष्यं तत्पूर्णञ्चेतिहासं प्रागेवाहं श्रीभवानन्दस्येतिहासे सर्वं निरूपित वान् दर्शितवांश्च ।
एतावांस्तु चास्ति प्राङनिरूपितो विशेषः यत् श्रीजगदीशतर्कालङ्कार ( १६२५ ) ईसवीयकालीनः खलु नवद्वीपवास्तव्यो न्यायशास्त्रस्य महाविदुषः श्रीभवानन्दतर्कवागीशस्य पाठशालायाश्छात्र आसीत् । एवं श्रीरामरुद्रसार्व भौमस्यापि शिष्योऽयमासीदित्यपि श्रूयते । तथाऽयमनेकग्रन्थानां निर्माताऽपि
१. 'दीधिति'-टीकात्मक ग्रन्थोपरि सन्ति चास्य प्रायो बहवो व्याप्तिवादा त्मकाष्टीकाग्रन्थाः । अत एवाऽनेन विरचिताः सर्वा अपि टीका 'जागदीशी'ति नाम्ना सन्ति प्रसिद्धाः । यथा-चास्ति जागदीशी-सिद्धान्तलक्षणग्रन्थः ।
२. जागदीशी-व्याप्तिपञ्चकग्रन्थः ।
३. जागदीशी-सिंहव्याघ्रनामको ग्रन्थः ।
४. जागदीशी-व्यधिकरणग्रन्थः ।
५. जागदीशी-सामान्यनिरुक्तिनामको ग्रन्थः ।
६. जागदीशी-शब्दशक्तिप्रकाशिकाग्रन्थः ।
७. एवमन्येऽपि सन्ति ग्रन्थाः–तर्कामृतम्, पदार्थतत्त्वनिर्णयः, न्यायादर्श प्रभृतयो ग्रन्थाः । एवम्
८. जागदीशी-पक्षता ।
९. जागदीशी-केवलान्वयीग्रन्थः ।
श्रीमथुरानाथतर्कवागीशः
[सम्पादयतु]अयञ्चापि मथुरानाथतर्कवागीशो बङ्गालदेशनिवासी अत एव ब्राह्मणोऽपि सन् बङ्गालित्वधर्मावच्छिन्न एवासीत् । एवं श्रीरामतर्कालङ्कारस्य चाऽयमात्म जतां तथा महती प्रसिद्धि प्राप्तस्य नव्यनैयायिकप्रवरतार्किक कल्पकशिरोमणि श्रीरघुनाथस्य शिष्यताञ्च दधानः, 'कोटालीपाडा'-नामकग्रामस्याऽतीवनिकट वति 'मानीहाटी'-नामकग्रामस्य निवासी चासीदिति श्रूयते ।।
अयञ्च श्रीमथुरानाथतर्कवागीशः (१५७०) ईसवीयकालीनो बहून् टीकाग्रन्थान् लिखितवान्, ये च 'माथुरी'ति नाम्ना प्रसिद्धि लब्धवन्तः । ते च टीकाग्रन्था अधिकांशतो रहस्यान्तत्वेन ख्यातिमागताः श्रतिगोचरीभूता दष्टि गोचरीभूता वा भवन्ति इति । यथा-बौद्धधिक्काररहस्यम्, दीधितिरहस्य मित्यादय इति चाने स्फुटीभविष्यति ।
तावति काले विदुषामयं विद्वत्तामयोऽयं शास्त्रीयसङ्घर्षः प्रवाहद्वये प्रचलित आसीत् । अस्य चास्ति बलवत्तरं प्रमाणं यथा-पञ्चलक्षणी-ग्रन्थस्य द्वितीय लक्षणे 'प्रतियोगिसमानाधिकरणत्व, प्रतियोगिव्यधिकरणत्व, विरुद्धधर्माध्यास स्तत्रैवाऽधिकरणभेदेनाऽभावभेदाऽभ्युपगमो न तु सर्वत्र' सिद्धान्तमिममाश्रि त्यैव 'साध्यवद्भिन्नसाध्याभाववदवृत्तित्वम्' इत्यस्मिन् · व्याप्तिद्वितीयलक्षणे द्वितीयसाध्यपदस्याऽसम्भववारणाय सार्थक्यं श्रीतर्कवागीशेन दत्तं श्रीगदा धरोऽपि तथैव स्वीकृतवान् । परन्तु जगदीशस्तन्निराकृतवान् ।
तर्कवागीशेन लिखिता ग्रन्थाः
[सम्पादयतु]१. श्रीमथुरानाथः 'तत्त्वचिन्तामणि'-ग्रन्थस्योपरि 'तत्त्वचिन्तारहस्ये'ति टीकात्मक ग्रन्थं लिखितवान् । अयमेव ग्रन्थो रहस्यान्तत्वेन प्रसिद्धो वर्तते ।
२. एवमेव 'तत्त्वचिन्तामण्यालोकरहस्यम्' ।
३. दीधितिरहस्यम् ।
४. सिद्धान्तरहस्यम् ।
५. किरणावलिप्रकाश रहस्यम् ।
६. तथैव न्यायलीलावतीप्रकाशरहस्यम्' ।
७. एवं 'न्यायलीलावतीप्रकाशदीधितिरहस्यम्' ।
'तत्त्वचिन्तामणि'-ग्रन्थस्योपरि जायमाना 'माथुरी' चतुर्णामेव खण्डानां प्रकाशिता जातेति नाविदितमस्ति केषामपि न्यायशास्त्रविदुषाम् ।
एवं कुसुमाञ्जलि-आत्मतत्त्वविवेक-ग्रन्थयोरुपरि या चास्ति दीधितिस्तत्र जायमाना श्रीमथुरानाथस्य 'माथुरी' सा चाऽत्यन्तमेव दुरूहा, जटिला, कठिना च वर्तते ।
अस्य श्रीमथुरानाथतर्कवागीशस्य चास्ति खल्वेको 'न्यायरहस्य'ति नामको ग्रन्थः, सोऽस्ति स्वतन्त्रो ग्रन्थः । तात्त्विकदृष्ट्या विचार्यमाणेऽस्मिन् ग्रन्थे न्यायशास्त्रस्य रहस्यमेव निहितमस्ति, अतोऽपूर्वोऽयं चास्ति ग्रन्थः । ।
अपि च विद्वान् संश्चायं श्रीमथुरानाथतर्कवागीशो महानेव भाग्यशाली आसीत् । यतोऽस्य महानुभावस्य वंशपरम्पराऽधुनातनकालावच्छेदेनापि चास्ति पूर्ववदेव प्रचलिता इति ।
श्यामाकान्ततर्कपञ्चाननमहोदया ये चेदानीमेव दिवं गता अभुवन्, ते इत्थं व्याहरन्त आसन् यदस्य वंशजा इदानीमपि 'मानीहाटी'-नामकेऽस्य ग्रामे निवसन्ति निर्वाहञ्च प्रकुर्वन्ति इति ।
श्रीगदाधरभट्टाचार्यः
[सम्पादयतु]अयं श्रीगदाधरभट्टाचार्यो न्यायशास्त्रस्य महान् विद्वानासन् । श्रीजीवा चार्यस्याऽऽत्मजः सन् बङ्गदेशनिवासी चापि श्रूयते। तथाऽयं श्रीभट्टाचार्यो
दर्शनशास्त्रस्येतिहासः बङ्गदेशीयत्वेऽपि रेन्द्रकुलोत्पन्नः, पवनामण्डलान्तर्गत- पक्ष्मीपाश'-नामकग्राम निवासी च श्रूयते । केचन 'बोगड़ा' स्थानीयामस्य जनिं वदन्ति ।
नवद्वीपे स्वास्तित्वसम्पन्नोऽयं श्रीभट्टाचार्यः हरिरामतर्कवागीशस्य सान्नि ध्यमवाप्य समस्तमपि न्यायशास्त्रमधीतवान् अत एव प्रकाण्डनैयायिकोऽभूत् ।
अस्य ‘जनिकालं सप्तदश ( १७वं २) शताब्द्या मध्यकालं प्रस्फोरयन्ति मनीषिणः । केचन विद्वांस १६५० ईसवीयकालीनमेनं प्रवदन्ति, विवदन्ते चात्र बहवः ।
श्रीहरिरामतर्कवागीशस्य युवावस्थायामेव स्वर्गगमनानन्तरं तस्मिन्नेव स्थानेऽध्यापनकार्यार्थमस्य नियुक्तिर्जाता । परन्त्वस्य महानुभावस्याऽध्यापन कार्यतः सर्वथाऽसन्तुष्टि गतास्तेऽन्तेवसन्तोऽध्येतुमेव नहि कामयन्ते स्म ।
अतोऽयं महानुभावो विद्वान् स्वीयाऽध्यापनस्य पदार्थतत्त्वज्ञानस्य वा सम्पुष्टि कर्तुकामोऽरण्ये प्रान्तरे वापि गत्वा तत्र लता-वृक्षादीन् सम्बोध्य पदार्थोपदेशमध्यापनदृष्ट्याऽहर्निशमनिशं विहितवन्त आसन् । तथा न्याय शास्त्रीयेषु कठिनस्थलेषु शास्त्रार्थरूपेण तैरेव. लतावृक्षादिभिः सह विचारचर्चा मपि विदधानः समये समये आसीत् इति च गच्छन्तः समागच्छन्तश्च छात्रा अध्यापकाश्च तदीयान् विचारान् अध्यापनञ्च शृण्वन्त आसन् । ततश्च ते सर्वेऽपि न्यायशास्त्रपदार्थानां सद्रूपतां विज्ञाय पुनरस्याऽध्यापन कार्यतः सर्वथा समाकृष्टाः सन्तोऽस्य पार्वेऽध्येतुं समागतवन्तः । इत्थञ्चाऽयं महानुभावः शतशोऽन्तेवासिनो ऽध्यापयामास ।
महान् विद्वान् श्रीभट्टाचार्यश्चलन्, भ्रमन्, पुरीषमुत्सृजन्, स्नानं प्रकुर्वन् सर्वदैव काले पदार्थं चिन्तयन्नेवाऽहनिशमनिशमासीत् ।।
अस्य महानुभावस्य विषये चास्त्येका किम्बदन्ती यदेकदाऽस्याऽऽत्मजाया विवाहः समुपस्थितो जातः । वरसहिता वरयात्रिणोऽपि समागताः । गोधलिना मको वैवाहिको लग्नोऽपि समाप्ति गतवान् । परन्त्वयं विद्वान् शौचाऽऽलयस्थाने सन्तिष्ठमानः पदार्थमनुचिन्तयन् पङ्क्ति वा विचारयन्नेव सर्वमपि लग्नकालं व्यतीतवान् । छात्राश्च सर्वेऽपीतस्ततो गुरुवरं समन्वेष्टुकामाः परिभ्रमन्ति स्म ।
गुरुवरा इतो गता इति जनैः कथ्यमाने छात्रास्तस्यामेव दिशि गतवन्तः । कियद् दूरमेव गतास्ते छात्राः किं पश्यन्ति यद् गुरवः कस्मिश्चिदेकान्तस्थाने वृक्षास्याऽधस्ताच्च सन्ति सन्तिष्ठमानाः, पुरीषञ्चोत्सृजन्ति ।
छात्रा अपि दर्शनानन्तरमेव दूरतः प्रोच्चारयन्ति-भो गुरवः ! लग्नकालस्तु समाप्ति गतवान् । गुरवो वदन्ति यत्-लग्नकालस्तु पुनरप्यागमिष्यति, परन्तु षडभिर्मासैश्चिन्तनविषयतां गतेयं पङ्क्तिस्त्वद्यैव ( इदानीमेव ) स्मृतिविषयतां गतेति महान् हर्षप्रकर्षः ।
इमे च दार्शनिका विद्वांसो वीतरागास्तपोधनाः बहिर्मुखतां गताः सन्तो ऽन्तर्मुखवृत्तिमापन्नाः स्वीयं यांवज्जीवनं पदार्थचिन्तनपुरःसरं यापयामासुः ।
अस्य लिखिता ग्रन्थाः सन्ति निम्ननिर्दिष्टाः । तथाहि-
१. तत्त्वचिन्तामणौ-आलोकटीका ।
२. न्यायकुसुमाञ्जलौ-टीका।
३. आत्मतत्त्वविवेके-दीधिति टीका।।
४. तत्त्वचिन्तामणौ-दीधितिप्रकाशिका ।
५. सामान्यनिरुक्ति-ग्रन्थः ।
६. मुक्तावल्यां-टीका।
७. दुर्गासप्तशती-टीका।
८. ब्रह्म निर्णयः ।
९. इतोऽतिरिक्ताः सन्ति चतुःषष्टिसंख्याकाः शक्तिवादयो वादग्रन्था अपि ।
तथाहि -
१. प्रामाण्यवादः– ज्ञानगतप्रामाण्यविचारप्रधानग्रन्थः ।
२, व्युत्पत्तिवादः-विभक्त्यर्थनिर्णयप्रधानग्रन्थः ।
३. शक्तिवाद:--पद-पदार्थयोः शक्तिनिर्णयग्रन्थः ।
इमे च प्रागुक्ता वादादयो दश वादान्ता ग्रन्था सन्ति अतीव प्रसिद्धि प्राप्ता ग्रन्थाः । अस्य सम्बन्धे चास्तीयमुक्तिः -
'यो गोतमीयं भुवि षोडशात्मकं, वादैश्चतुःषष्टिमितं समन्वितम् ।
चकार तं ताकिकचक्रवर्तिनं, गदाधरं गण्यगुणं न वेत्ति कः' ।
अनेन पद्यात्मकेन श्लोकेन श्रीगदाधरभट्टाचार्यविनिर्मिताः सन्ति वादान्ताः चतु षष्टि ( ६४ ) संख्याकाः ग्रन्था इति । 'काव्यप्रकाश'-ग्रन्थे रहस्य मप्यस्ति श्रीगदाधरलिखितो ग्रन्थ इति ।
एवं कारणतावादः, मुक्तिवादः, विषयतावादः, सादृश्यवादः, अवच्छेद वादः, पर्याप्तिवादः, आख्यातवादः, नार्थवादः, स्मृतिसंस्कारवादः, कारकवादः, इत्यादयो वादाः सन्ति ।
श्रीअन्नम्भट्टः
[सम्पादयतु]अयञ्च 'अन्नम्भट्टो' विद्वान् १६५० ईसवीये वर्षे स्वास्तित्वसम्पन्नो न्यायवैशेषिकोभयशास्त्रमहत्त्वप्रदर्शकः प्रद्योतकश्चाऽस्तीति सर्वेऽपि दार्शनिका स्तदतिरिक्ताश्च विद्वांसो विदाङकुर्वन्ति ।
श्रीअन्नम्भट्टो विद्वान् दक्षिणप्रदेशान्तर्गत-'आन्ध्र-प्रदेशनिवासी चासीत् । अयमेव च महानुभावो विद्वान् 'तर्कसंग्रह'-नामकं न्यायवैशेषिकोभयविधशास्त्र प्रवेशकारकं द्रव्य-गुण-कर्म-सामान्य-प्रभृतिसप्तपदार्थानां संग्राहक प्रमाण-प्रमेय संशय-प्रयोजनादिषोडशपदार्थानामपि स्वान्त वित्वेन प्रकाशकं ग्रन्थं रचितवान्।
अयञ्च 'अन्नम्भट्टः' आन्ध्रप्रदेशं निवसन्नपि 'वैयाकरण' इति महानेवाऽऽ श्चर्यजनकीभूतोऽयं विषयः । मीमांसकश्चाऽप्यासीदिति कृत्वा पदार्थानां संग्राहक ग्रन्थरचनाकर्तृत्वेन न्याय-वैशेषिकोभयविधशास्त्रपारङ्गतत्वेन पूर्णनैयायिको वैयाकरणो मीमांसकश्चाऽऽसीत् ।
न्यायशास्त्रे चास्त्यस्येयं प्रसिद्धि: -
या 'अन्नम्भट्टेन विदुषा रचितस्तर्कसंग्रहः ।' –तर्कसंग्रहे । तय॑न्त ( प्रमितिविषयीक्रियन्ते ), इति तर्काः, द्रव्य-गुण-कर्मादयः सप्त पदार्थास्तेषां संग्रहः = संक्षेपेण नाम्ना परिगणनपूर्वकं कथनमित्यर्थः ।
एतान् सप्त पदार्थानधिकृत्यैव सर्गो जायते नान्यथेति खलु 'अन्नम्भट्टो' ब्रूते । तत्त्वतो विचार्यमाणे सृष्टौ सप्तपदार्थातिरिक्तो नैकोऽपि पदार्थः समनु भूयते । सप्तपदार्थाश्च प्रानिरूपिता अस्माभिः । तत्र द्रव्यं नवविधम्-पृथिव्य प्तेजोवाय्वाकाशकालदिगात्ममनांसीति । तेषां समुदितं लक्षणं द्रव्यत्वजाति मत्त्वम् । गुणसमानाधिकरणसाक्षात् सत्ताव्याप्यजातिमत्त्वं वा । गुणाश्च सन्ति चतुविशतिसंख्याकाः । ते च यथा-'रूप-रस-गन्ध-स्पर्श-संख्या-परिमाण पृथक्त्व-संयोग-विभाग-परत्वापरत्व-बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्नाश्च एवं गुरुत्व-द्रवत्व-स्नेह-संस्कार-अदृष्ट-शब्दाश्चेत्येवं रूपाः चतुर्विंशतिगुणा विज्ञेयाः । लक्षणञ्चैतेषां गुणत्वजातिमत्त्वम् ।
कर्माणिपञ्चविधानि भवन्ति । तथाहि-उत्क्षेपण-अपक्षेपण-आकुञ्चन-प्रसारण गमनानि पञ्च कर्माणि । लक्षणन्तु कर्मत्वजातिमत्त्वम् इत्येव समुदितं बोध्यम् ।
केचन दार्शनिका दशविधकर्माणि स्वीकुर्वन्ति । तत्र-भ्रमणम्-रेचनम्-स्य न्दनम्-ऊर्ध्वज्वलनम्-तिर्यग्गमनञ्चेति पञ्च ततोऽधिकानि अतिरिक्तानि च कर्माणि सन्ति ।
सामान्यञ्च द्विविधम् —पराऽपरभेदात् । तत्र जगदीशतर्कालङ्कारमहोदया स्तृतीयमपि सामान्यं स्वीकुर्वन्ति-१. परं सामान्यं सत्ता, २. अपरं सामान्यं घटत्व-पटत्वादिरूपम् । ३. तृतीयं सामान्यं पराऽपररूपम्, यथा-द्रव्यत्वादि, गुणत्वादिरूपम् ।
विशेषाणामनन्तत्वात्, समवायस्य चैकत्वात् कथमपि विभागो न भवितु मर्हति । तल्लक्षणन्तु अन्योऽन्याभावविरोधिसामान्यरहितः समवेतो विशेष इति ।
समवायस्तु समवायरहितः सम्बन्धः समवायः । नित्यसम्बन्धत्वं समवाय त्वम् । सम्बन्धत्वं विशिष्टबुद्धि नियामकत्वम् । स च समवाय एक एवेति बोध्यम् ।
अभावस्तु द्रव्यादिषट्कान्योऽन्याभाववान् । अभावत्वञ्च द्रव्यादिषट्कान्यो ऽन्याभाववत्त्वम् । अभावत्वमखण्डोपाधिः इत्यपि केचित् ।
तत्र नव्या अभावत्वं नाऽखण्डोपाधिः, प्रमाणाभावात् । किन्तु समवाय, एकार्थसमवायोभयसम्बन्धेन सत्ताविशिष्टान्यत्वमभावत्वम् । एकार्थसमवायश्च स्वप्रतियोगिकत्व-स्वप्रतियोगिकसमवायप्रतियोगित्वोभयरूपः इति ध्येयम् ।
श्रीविश्वनाथपञ्चाननः
[सम्पादयतु]अयञ्च श्रीविश्वनाथपञ्चाननः १५५६ ईसवीये वर्षे स्वस्थिति दृढीकृतः सन्नेव 'कारिकावली'त्यपरनामधेयं 'भाषापरिच्छेद'-नामक ग्रन्थं रचितवान् । अयञ्च ग्रन्थो न्याय-वैशेषिकोभयशास्त्रीयविषयप्रतिपादकत्वेन न्यायवैशेषिको भयशास्त्रसाधारणः परिगण्यते ।
तदनन्तरं लम्बायमानकालावच्छेदेन राजीवदयावशंवदः स एव विश्वनाथ पञ्चाननः कारिकावल्या उपरि आहोस्वित्तदपरनामधेयस्य भाषापरिच्छेदस्य वोपरि तट्टीका सिद्धान्तमुक्तावलिञ्च रचितवान् । उक्तञ्च -
'निजनिर्मितकारिकावलीमतिसंक्षिप्तचिरन्तनोक्तिभिः ।
विशदीकरवाणि कौतुकान्ननु राजीवदयावशंवदः' ।[३]
अपि च श्रीविश्वनाथपञ्चाननः स्वयं ग्रन्थादौ श्रोतृणां प्रवृत्तिकारणीभूत मभिधेयप्रयोजनसम्बन्धाधिकारिस्वरूपमनुबन्धचतुष्टयं दर्शयन् स्वरचितटीकाया नामधेयं समुल्लिखन्नाह -
'विष्णोर्वक्षसि विश्वनाथकृतिना सिद्धान्तमुक्तावली।
विन्यस्ता मनसो मुदं वितनुतां सद्युक्तिरेषा चिरम्' ।
इतः पूर्वभागावच्छेदेनाऽनुबन्धचतुष्टयं दर्शितमनेन चार्धश्लोकात्मकेन पद्येन स्वरचितटीकाया नामधेयं समुल्लिखति विश्वनाथपञ्चाननः 'सिद्धान्तमुक्तावली' इत्यादिना। अयञ्च श्रीविश्वनाथपञ्चाननः सच्चिदानन्दस्याऽऽनन्दकन्दस्य नन्दनन्दनस्य मथुराचन्द्रस्य श्रीकृष्णचन्द्रस्याऽनन्यभक्तिभाजनभूतो बङ्गदेशीयोऽपि सन् वृन्दावने पवित्रतीर्थस्थाने निवसति स्म । अयञ्च श्रीविद्यानिवासस्य विद्वद्वरस्याऽऽत्मज आसीत् । एवमितोऽतिरिक्तविविधटीकानां लेखकश्चासीत् । तासां टीकानां लेखविस्तरभयान्नामधेयं नोल्लिख्यते ।
अयञ्च न्यायसिद्धान्तमुक्तावली' नामको ग्रन्थो महामहोपाध्याय-श्री विश्वनाथपञ्चाननभट्टाचार्येण न्यायशास्त्राम्बुराशिना विद्यानिवासभट्टाचार्य स्याऽऽत्मजेनैव स्वयं निरमायि । अयञ्चास्ति ग्रन्थः श्रीविश्वनाथपञ्चाननद्वारा स्वविनिर्मित-'कारिका'-ग्रन्थस्याऽऽधेयभूतः प्रभूतो महानिबन्धरूपो यश्चास्ति बङ्गदेशे रचनाकल्लोलकोलाहल: ।
अपि चाऽयं महानिबन्धभूतो ग्रन्थः नानाविध-'दिनकरी-राम रुद्री-प्रभा मञ्जूषा'-लवपुरनिवासिश्रीनृसिंहदेवशास्त्रिविरचितज्ञानाविषयिणी टीका मुकुन्द शर्मविनिर्मित-'अभिनवप्रभा'-सहितस्तथा तत्तत् टिप्पण्या चापि विभूषितः, एवं मया श्रीज्वालाप्रसादगौडेनापि विरचित-कृष्णा-विलासिनी'-संस्कृत-हिन्दी टीकाभ्यां तथा प्राचीन-नवीननैयायिकेतिहासेन सनाथीकृतस्तथा 'गौतमद्वयी' नामिकया भूमिकया भूषितोऽयं कारिकानिरूपितं यत् साहित्यं तादृशसाहित्या वच्छिन्नो न्यायसिद्धान्तमुक्तावलीनामकोऽयं ग्रन्थः समस्तशास्त्राध्येतृणामुपकारं विदधात्वित्येतदर्थं जगन्नाथोऽनाथनाथो भगवान् विश्वनाथो प्रवृत्तिमार्गगामिना मया शशिबालागौडेन भूयो भूयः सम्प्रार्थ्यते ।
अयमपि विश्वनाथः सप्तपदार्थानेव निरूपितवान् स्वीय-न्यायसिद्धान्तमुक्ता वलि-नामके ग्रन्थे । अस्मिन्नपि ग्रन्थे द्रव्य-गुण-कर्म-सामान्य-विशेष-समवाया ऽभावानां सप्तानामेव पदार्थानां निरूपणं कृतवान् विश्वनाथपञ्चाननभट्टाचार्यो महामनीषी नैयायिकः । पदार्थानां विवेचनक्रमस्तर्कसंग्रहोक्तदिशा विज्ञेयः । लक्षणानि अपि तयैव दिशा बोध्यानि ।