भारद्वाजश्रौतसूत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

भारद्वाजश्रौतसूत्रं महर्षिभरद्वाजस्य सम्बन्धं कृष्णयजुर्वेदस्य तैत्तिरीयशाखातः परिज्ञातम्भवति। भारद्वाजशाखीयकल्पसूत्रस्य अनेके ग्रन्थाः समुपलब्धाः भवन्ति। भारद्वाजगृह्यसूत्रस्य सर्वप्रथमप्रकाशनं हार्लण्ड-नगराद् बभूव । अस्य सम्पादनं डॉ० सालौमन्स लाइडेन-महोदयेन १९१३ ईशवीये कृतम् । सम्प्रति १९६४ ई० वैदिकसंशोधनमण्डल-पूनानगरीतः भारद्वाजेन सम्बद्धः श्रौतसूत्रस्य परिशिष्टसूत्रस्य च प्रकाशनमभवत् । ग्रन्थानाम् अन्तरङ्गपरीक्षणेन भारद्वाजश्रौतसूत्रं बौधायनश्रोतसूत्राद् उत्तरकालिकमरितं मन्यते। किञ्च आपस्तम्बश्रौतात् प्राक्कालिकमस्ति। भारद्वाजश्रौतसूत्रस्य हस्तलेखो दक्षिणभारते समुपलब्धोऽस्ति ।

भारद्वाजगृह्यसूत्रे सीमन्तोन्नयनस्य प्रसङ्गे श्लोकोऽयं प्राप्यते -

‘सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः॥

विवृतचक्रा आसीनास्तीरेण यमुने तव॥'

अस्मात् स्थानादग्रे सूत्रकारस्य कथनमस्ति यद्यस्या नद्यास्तटे यजमानस्य निवासोऽस्तु, तस्या नद्या नाम ‘ऊह' इति कर्त्तव्यम् । अस्योदाहरणं टीकाकारेण प्रदत्तम् - 'तीरेण वेगवतीति तव, तीरेण कावेरि तव ।' अस्योदाहरणेन टीकाकारस्य देशरुभयोर्वेगवती–कावेर्ययोर्नद्योरञ्चले प्रतीयते। तेन हि पूर्वोक्तश्लोको भारद्वाजानां मूलस्थानं यमुनानद्या अञ्चलमर्थादुत्तरभारतं मन्यते।

विषयवस्तु[सम्पादयतु]

भारद्वाजश्रौतसूत्रे १५ प्रश्नाः अर्थादध्यायाः सन्ति । अस्य वर्ण्यविषयाः क्रमशः — दर्शपूर्णमास-आाग्न्याधेय-अग्निहोत्र-आग्रयण-निरूढपशुबन्ध-चातुर्मास्य(वैश्वदेवपर्व-साकमेधपर्व-शुनासीरीयपर्व-काम्यचातुर्मास्य-पञ्चसावत्सरिकाः)-पूर्वप्रायश्चित्त-ज्योतिष्टोमः(प्रातःसवन-माध्यन्दिनसवन-तृतीयसवनः)-ज्योतिष्टोमब्रह्मत्यादयः सन्ति । भारद्वाजपैतृमेधिकसूत्राणां मुख्यो विषयः श्राद्धकर्मणः नानाविधान्यनुष्ठानानि सन्ति । ग्रन्थेऽस्मिन् द्वौ प्रश्नौ स्तः । यत्र क्रमशः प्रेतसंस्कार-श्मशाननयन-दाहचिति-पात्रचय-अस्थिसञ्चयन-श्मशानचिति-यमयज्ञादीनां सूत्रेषु प्रतिपादनमस्ति।

भारद्वाजधर्मसूत्रस्य सम्प्रति समुपलब्धिर्नास्ति, किञ्च प्राचीनकाले तस्य सत्ताऽऽसीदिति मन्यते । विश्वरूपेण याज्ञवल्क्यस्मृतौ[१] भारद्वाजमतनिर्देशकवाक्यमपि समुद्धृतं, येन तस्मिन् काले गुरुः शिष्यान् म्लेच्छभाषां पठितुं नादिशत् इति प्रतीयते । शिष्यस्योपानयनं कृत्वा तं संस्कृतपठनाय गुरुः प्रेरयति स्म । शिष्यं सन्ध्योपासनम् अग्निकर्मादिकञ्च अवशयमेव कर्त्तव्यमिति - तथा च भारद्वाजः । न म्लेच्छभाषां शिक्षेत्। म्लेच्छो ह वा एष यदपशब्द इति विज्ञायते । तस्मात् शिष्यमुपनीय साधुशब्दान् शिक्षयेत् सन्ध्योपासाग्नीन्धनानि।' एवं भारद्वाजस्य समग्रकल्पसूत्रमवश्यमेवोपलब्धमासीत् । 

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. ( १॥१५ )