सामग्री पर जाएँ

भाष्यनिबन्धकाराः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भाष्यनिबन्धकाराः भाष्येषु महत्त्वपूर्णं योगदानं यच्छन्ति। धर्मशास्त्रवाङ्मयस्यान्तिमपर्यायरूपस्य निबन्धसाहित्यस्याकारोऽति विशाल:। निबन्धसाहित्यस्य प्रारम्भकाले भाष्यग्रन्थाः रचिताः। प्राचीननिबन्ध ग्रन्थाः केचित् स्मृतिपथमनागतानामपि निबन्धकाराणां नामानि स्मारयन्ति । ते च निबन्धकर्तारः परवर्त्तिषु धर्मनिबन्धेषूदाह्रियन्ते । ते भवन्ति यथा धारेश्वरभोजदेव-देवस्वामि -जितेन्द्रिय -बालक -बालरूप - योग्लोक- कामधेनु प्रकाश-पारिजात-भर्तृयज्ञ -विद्यापति -हरिहरप्रमुखाः । तेषां ग्रन्थानां दुर्लभत्वात्तेषामुद्धरणान्येव तेषां परिचयं दातुं शक्नुवन्ति ।

निबन्धसाहित्यस्य काल: १००० ख्रीष्टाब्दतः परं प्राय: लिपिबद्धो भवति । भाष्यकाराणां कालस्तु ८०० ख्रीष्टाब्दात् परमागच्छति। भाष्यकारा: निर्दिष्टस्मृतेः धर्मसूत्रस्य वा व्याख्यानं स्वाभिप्रायानुसारमुपस्थापयन्ति । आवश्यकस्थलेषु अन्यस्थानस्थितानां प्रमाणवचनानामुपस्थापनमपि कुर्वन्ति । भाष्यकारा: कदाचित् प्रान्तीयाचाराणां परम्पराणांशब्दानां प्रयोगमपि प्रतिपादयन्ति। धर्मशास्त्रप्रतिपादितविषयाणां सरलीकरणाय, स्मृतिवचनानां पर्यालोचनाय, तेषु स्मृतिवचनेषु प्रतीयमानविरोधपरिहाराय, मुनिवचनानामेकवाक्यतारक्षणाय च भारतवर्षस्य सर्वेषु प्रान्तेषु धर्मनिबन्धृभिः निबन्धग्रन्थाः विरचिताः सन्ति। निबन्धग्रन्थेषु निबन्धृणां स्वातन्त्र्यमनुभूयते । ते च निबन्धस्य विषयविन्यासं स्वेच्छानुसारं निवेशयन्ति । प्रकरणानुसारं प्रमाणवचनानि संयोजयन्ति । अत: धर्मशास्त्रसाहित्ये निबन्धकाराणां स्थानं सर्वोपरि वरीवर्तते ।

साम्प्रतं प्रचलितेषु धर्मशास्त्रनिबन्धेषु निबन्धकाराः पुनः वर्णाश्रम धर्मविशेषकृत्यादीनि विविधश्रुतिस्मृतिपुराणैकवाक्यतानिरूपणपुरःसरं देशाचारभेदेन भिन्नभिन्ननिबन्धग्रन्थान् रचितवन्तः । तेषां भाष्यनिबन्धकाराणां परिचयः इदानीमुपस्थाप्यते ।

असहायः

[सम्पादयतु]

धर्मशास्त्रेतिहासे आचार्यस्यासहायस्य नाम श्रूयते । परन्तु तस्य कृतयः नाद्यावधि प्राप्यन्ते । असहायस्य कालविषयेऽपि स्पष्टं न किञ्चित् कथयितुं शक्यते । विश्वरूपाचार्य- मेधातिथि- विज्ञानेश्वर- देवणभट्ट प्रभृतिभिरसहायस्य मतमुद्धृतत्वात् तस्य काल: प्रायत: ७५० ख्रीष्टाब्दमध्य एव सम्भवेत् ।

डा. जोलिमहोदयेन सम्पादित: नारदस्मृतेः असहायभाष्यस्य कश्चनांश: कल्याणभट्टेन संशोधितः। संशोधितेऽस्मिन् संस्करणे प्रारम्भादभ्युपेत्या शुश्रूषाख्यप्रकरणस्य एकविंशतितमश्लोकं यावद् विद्यते । व्यवहारमयूखस्य प्रथमाध्याये उल्लिखितं यत् कल्याणभट्टः राज्ञः केशवभट्टस्य प्रेरणया प्रोत्साहनेन चासहायभाष्यस्य संशोधनं कृतवान् । विश्वरूपाचार्य-अनिरुद्धभट्टादीनां[] मतानुसारमसहाय: गौतमधर्मसूत्रोपरि टीका लिखितवान्। सरस्वतीविलासकारस्य[] मतानुसारमाचार्योऽसहायः मनुस्मृतौ भाष्यं विरचितवान् । विवादरत्नाकरे चण्डेश्वरोऽपि असहायं मनुटीकाकाररूपेण मनुते । अस्मात् स्पष्टीभवति यदसहायः गौतमधर्मसूत्र-मनुस्मृति-नारदस्मृतिषु भाष्यं विरचितवान् ।

भारुचिः

[सम्पादयतु]

आचार्यभारुचिः धर्मशास्त्रनिबन्धृषु प्रसिद्धः प्राचीनश्चासीत् । सः विशिष्टाद्वैतवादी दार्शनिकश्चासीत् । असौ विश्वरूपाचार्यस्य समकालीन आसीदिति ऐतिहासिका: आमनन्ति । रामानुजाचार्य: वेदार्थसंग्रहे पूर्ववर्तिनां षण्णामाचार्याणां नामपरिगणनावसरे भारुचे: नाम स्वीकरोति । ते चाचार्याः भवन्ति यथा बौधायनः, टंकः, द्रमिडः, गुरुदेवः, कपर्दः, भारुचिश्च। श्रीनिवासस्य यतीन्द्रमतदीपिकायामपि गुरुवर्गाणां नाम परिगणनावसरे भारुचेः नाम स्वीकृतमस्ति ।

मिताक्षरा[]- पराशरमाधवीय[] - वेदार्थसंग्रह - यतीन्द्रमतदीपिका सरस्वतीविलासादिषु[] ग्रन्थेषु भारुचिमतान्युदाहृतानि सन्ति । अतः भारुचेः कालः ९०० तः १००० ख्रीष्टाब्दमध्ये एव स्वीकर्तुं शक्यते ।

सरस्वतीविलासानुसारं ज्ञायते यद् भारुचिः विष्णुधर्मसूत्रस्य भाष्यकार आसीत् । यतस्तत्र विष्णुधर्मसूत्रस्य बहूनां सूत्राणां व्याख्यानमस्ति ।भारुचिः मनुस्मृतावपि व्याख्यां कृतवान् ।भारतीय विद्याभवन,मुम्बई प्रकाशितनवटीको पेतायां मनुस्मृतौ भारुचिव्याख्यानं प्रकाशितमस्ति । सुदर्शनाचार्य: आपस्तम्बगृह्यसूत्रभाष्ये भारुचिमतं वर्णयति। भारुचिविज्ञानेश्वरयोर्मध्येऽनेके सिद्धान्तगतप्रभेदाः दृश्यन्ते, ये मिताक्षरायां प्रतिपादिताः सन्ति । आचार्यभारुचिः दाक्षिणात्य: आसीत् ।

श्रीकरः

[सम्पादयतु]

मैथिलधर्मनिबन्धसंप्रदाये श्रीकराचार्यनाम्ना कश्चन धर्मनिबन्धकार आसीत् । अद्यावधि तस्य निबन्धग्रन्थस्य स्वरूपं न दृश्यते ।

श्रीकरः विश्वरूपस्य समकालीनोऽथवा तस्मात् किश्चित् कालात् पूर्वं परं वा सम्भवेत् । अतस्तस्य काल: ८०० तः ९०० ख्रीष्टाब्दमध्ये एवानुमीयते।

श्रीकरस्य मतानि स्मृतिचन्द्रिकायां [], विज्ञानेश्वरस्य मिताक्षरायां, जीमूतवाहनस्य दायभागे, चण्डेश्वरस्य राजनीतिरत्नाकरे, मेधातिथे: मनुभाष्ये, हेमाद्रेः चतुर्वर्गचिन्तामणौ, स्मृतिसारे, नीलकण्ठस्य व्यवहारमयूखे, सरस्वतीविलासे च विचारितानि सन्ति ।

कामधेनुः

[सम्पादयतु]

कामधेनुनाम्ना कश्चन धर्मनिबन्धकार आसीत् । यस्य कृतिरिदानीं यावन्न प्राप्यते। लक्ष्मीधरभट्टस्य ब्रह्मचारिकाण्डे, व्यवहाररत्नाकरेऽपि लक्ष्मीधरस्य सखा गोपाल: कामधेनुनाम्ना महान्तं धर्मनिबन्धं प्रणीतवानिति लिखितमस्ति।

गहडवालनृपतेः गोविन्दचन्द्रस्य राजत्वकाले प्रणीतोऽयं कामधेनुः । अतस्तस्य काल: १०५० तः ११०० ख्रीष्टाब्दमध्येऽनुमीयते ।

श्रीधराचार्यस्य स्मृत्यर्थसारे[], अनिरुद्धभट्टस्य हारलतायां, चण्डेश्वरस्य विवादरत्नाकरे[], लक्ष्मीधरस्य कृत्यकल्पतरौ कामधेनुः प्रामाणिकग्रन्थरूपेण स्वीक्रियते । चण्डेश्वर: राजनीतिरत्नाकरे[] गोपाल: कामधेनुग्रन्थं प्रणीतवानिति लिखति । कल्पतरुग्रन्थस्य प्रणयनात् कियत्कालात् पूर्वं कामधेनुग्रन्थः प्रणीत आसीत् । मिताक्षरा-मनुभाष्य-अपरार्कादिभिः कामधेनुमतमनुद्धृतत्वात् कामधेनुकारः तेषां समसामयिक: भवेदिति सम्भाव्यते।

देवस्वामी

[सम्पादयतु]

देवस्वामिनाम्ना कश्चन धर्मनिबन्धकारोऽवर्त्तत, यस्य धर्मशास्त्रीया कृतिरिदानीं यावद्दुर्लभाऽस्ति । सोऽपि आश्वलायनश्रौतसूत्रोपरि गृह्यसूत्रोपरि च भाष्यमुल्लिखितवान् । देवस्वामिविरचिते धर्मनिबन्धे आचार-व्यवहार अशौचादीनां विषयाणां समावेशः भवति । चतुर्विंशतिमतसंग्रहव्याख्याने[१०] भट्टोजिदीक्षितोऽशौचविषये श्राद्धविषये च देवस्वामिन उद्धरणं प्रददाति। नन्दपण्डितस्य केशववैजयन्तीटीकायां देवस्वामिवचनमुद्धृतमस्ति । देवणभट्टस्य स्मृतिचन्द्रिकायां व्यवहारकाण्डेऽशौचकाण्डे च देवस्वामिन उद्धरणानि उपस्थापितानि सन्ति। अत: देवस्वामिन: काल: १००० तः ११०० ख्रीष्टाब्दमध्ये स्थिरीकर्तुं शक्यते। नैध्रुवगोत्रोत्पन्न: दिवाकरपुत्र: नारायण: स्वरचिताश्वलायन गृह्यसूत्रभाष्ये उल्लिखति यद् देवस्वामिरचितभाष्यात् स: सहायतां गृहीतवान् । तथैवाश्वलायनश्रौतसूत्रभाष्यकार: गार्ग्यनारायणोऽपि देवस्वामिरचित-श्रौतसूत्र भाष्याद् बहु साहाय्यं गृहीतवानिति स्वीकरोति ।

भर्त्तृयज्ञः

[सम्पादयतु]

प्राचीनधर्मशास्त्रीयभाष्यकारेषु भर्तृयज्ञस्य नाम आगच्छति । प्रायशः भर्तृयज्ञः असहायस्य समकालीन आसीदिति अनुमीयते । अतस्तस्य काल: ८०० तः ८५० ख्रीष्टाब्दमध्ये स्वीक्रियते । मेधातिथे: मनुभाष्ये[११], त्रिकाण्डमण्डने, आपस्तम्बसूत्रध्वनितार्थकारिकायाञ्च भर्तृयज्ञस्य मतमुद्धृतमस्ति । भर्तृयज्ञः कात्यायनश्रौतसूत्रोपरि एका टीका लिखितवानिति अनन्तदेवः उल्लिखति।सोऽपि श्राद्धकल्पग्रन्थं प्रणीतवान् । गदाधर-चण्डेश्वर-नरसिंहवाजपेयिभ्यश्च ज्ञायते यदसहायवद् भर्तृयज्ञोऽपि गौतमधर्मसूत्रस्य टीकाकार आसीत् ।

असौ निबन्धकार: वङ्गीय: जितेन्द्रियस्य समसामयिकश्चासीत्। अतस्तस्य काल: ११०० तः ११५० ख्रीष्टाब्दमध्ये एवानुमीयते। बालक: धर्मशास्त्रस्याचार काल -व्यवहार -प्रायश्चित्तादिविषयेषु कमपि विशालं धर्मनिबन्धं प्रणीतवान् । परन्तु स: ग्रन्थ: नेदानीं प्राप्यते । तस्य मतानि जीमूतवाहनस्य दायभागग्रन्थे[१२], भवदेवस्य प्रायश्चित्तनिरूपणे, रघुनन्दनस्य व्यवहारतत्त्वे, शूलपाणे: दुर्गोत्सवविवेके[१३] च चर्चितानि सन्ति ।

बालरूप

[सम्पादयतु]

वङ्गीयः धर्मनिबन्धकार: बालरूप: बालकस्य समसामयिक आसीत्। अतस्तस्य काल: १०५० तः ११०० ख्रीष्टाब्दमध्य एव स्वीक्रियते । तस्य मतानि हरिनाथस्य स्मृतिसारे, मिसरुमिश्रस्य विवादचन्द्रे, वाचस्पते: विवादचिन्तामणौ[१४], जीमूतवाहनस्य दायभागे, आदित्यभट्टस्य कालादर्श च प्राप्यन्ते ।

योग्लोकः

[सम्पादयतु]

योग्लोकनाम्ना कश्चन मैथिलधर्मनिबन्धकार आसीत् । य: काल विषय, व्यवहारविषयञ्चोपजीव्य निबन्धग्रन्थं विरचितवान् । योग्लोकस्य काल: १००० तः १०५० ख्रीष्टाब्दमध्ये सम्भाव्यते । स: जीमूतवाहनात् पूर्ववर्ती, श्रीकरस्य परवर्ती चासीत्। योग्लोकस्य मतानि जीमूतवाहनस्य व्यवहारमातृकायां[१५], कालविवेके, रघुनन्दनस्य व्यवहारतत्त्वे च चर्चितानि सन्ति।

जितेन्द्रियः

[सम्पादयतु]

वङ्गीयधर्मनिबन्धकारेषु जितेन्द्रियोऽन्यतमः। सः महान्तमेकं धर्मनिबन्धमाचार- व्यवहार-प्रायश्चित्तादिविषयकं विलिख्यात्यधिकां प्रसिद्धिं प्राप्तवान् । परन्तु स: निबन्धग्रन्थः सर्वात्मना विलुप्तः। तस्य कालोऽपि परम्परया १००० तः ११०० ख्रीष्टाब्दमध्ये एव स्वीक्रियते।

जीमूतवाहनस्य दायभाग[१६]ग्रन्थानुसारमसौ जितेन्द्रियः व्यवहारविषये, प्रायश्चित्तविषये च ग्रन्थं प्रणीतवान् । जीमूतवाहनस्य कालविवेकग्रन्थाज्ज्ञायते यत् सः कालविषयकं धर्मनिबन्धमपि विरचितवान्। रघुनन्दनभट्टाचार्यस्य दायतत्त्वेऽपि जितेन्द्रियस्य मतमुद्धृतमस्ति ।

प्रकाश:

[सम्पादयतु]

धर्मशास्त्रवाङ्मये प्रकाशनाम्ना कश्चन निबन्धकार: निबन्धग्रन्थो वाऽऽसीत्, यस्मिन् विषये स्पष्टा सूचना नोपलभ्यते । तथापि प्रकाशनाम्ना कश्चन धर्मनिबन्धकार: महार्णवप्रकाशनामकं धर्मनिबन्धं विरचितवानिति ऐतिहासिकानामभिमतम् । प्रकाशकृतः धर्मनिबन्धग्रन्थः व्यवहार-दान श्राद्धादिविषयेषु लिखित आसीत् । तस्य कालः ११०० तः ११५० ख्रीष्टाब्दमध्येऽनुमीयते। प्रकाशस्य मतानि चण्डेश्वरस्य विवादरत्नाकरे[१७], दानरत्नाकरे[१८], वाचस्पते: विवादचिन्तामणौ १८, हेमाद्रेः चतुर्वर्गचिन्तामणौ. मित्रमिश्रस्य वीरमित्रोदये[१९] चोद्भूतानि सन्ति ।

पारिजात:

[सम्पादयतु]

धर्मशास्त्रवाङ्मये पारिजातनाम्ना बहवः धर्मनिबन्धग्रन्थाः दृश्यन्ते । परन्त्वयं पारिजातः तेष्वन्यतमो न वेति एतिहासिका: न प्रतिपादयन्ति । असौ ११०० तः ११५० ख्रीष्टाब्दमध्ये वर्तमान आसीत् । अयं निबन्धग्रन्थः व्यवहार-दानादिविषयेषु लिखितो वर्त्तते। अस्य मतानि विवादरत्नाकरे[२०] दानरत्नाकरे, कृत्यकल्पतरौ, हलायुधस्य ग्रन्थेषु, हरिनाथस्य स्मृतिसारे चोद्धतानि भवन्ति ।

प्रदीप:

[सम्पादयतु]

प्रदीपनाम्ना कश्चन निबन्धकारः निबन्धग्रन्थो वाऽऽसीत् । स च निबन्धग्रन्थः सर्वथा दुष्प्राप्यः । अयं च ग्रन्थः व्यवहार- श्राद्धविषययोरुपरि प्रणीत आसीत् । अत्र भवदेवस्य मतमालोचितत्वात् ११०० ख्रीष्टाब्दात् परमेव भवेत् । पुनः स्मृत्यर्थसार-स्मृतिचन्द्रिकयोः प्रदीपमतमालोचितत्वात् ११५० ख्रीष्टाब्दात् पूर्वमेव भवेत् । अतोऽस्य काल: ११०० तः ११५० ख्रीष्टाब्दाभ्यन्तरे एवानुमीयते ।

श्रीधरस्य स्मृत्यर्थसारे, देवणभट्टस्य स्मृतिचन्द्रिकायां, प्रतापरुद्रस्य सरस्वतीविलासे[२१], रामकृष्णस्य जीवत्पितृकनिर्णये[२२] च प्रदीपमतान्युद्धृतानि सन्ति ।

विश्वरूपाचार्यः

[सम्पादयतु]

विश्वरूपस्यापरं नाम भवति सुरेश्वरः। स: कुमारिलस्य शङ्कराचार्यस्य च साक्षाच्छिष्य आसीत् ।

सुरेश्वरः स्वविरचिते नैष्कर्म्यसिद्धौ, तैत्तिरीयोपनिषद्भाष्यवार्त्तिके च स्वयमात्मानं शङ्कराचार्यस्य शिष्यत्वेनोद्घोषयति । अत: विश्वरूपस्य काल: ८०० तः ८२५ ख्रीष्टाब्दमध्ये एव स्वीक्रियते ।

विश्वरूपाचार्यः याज्ञवल्क्यस्मृतौ बालक्रीडानाम्नी टीकां विरचित वान् । इयं च टीका टि. गणपतिशास्त्रिमहोदयेन त्रिवेन्द्रम् संस्कृतग्रन्थमालायां प्रकाशिता वर्त्तते । याज्ञवल्क्यस्मृतेः आचार-प्रायश्चित्ताध्याययोः विश्वरूप टीका विस्तृता भवति। विश्वरूपस्य व्याख्यानशैली सरला भवति । पूर्वमीमांसायां तस्य पारदर्शिताऽऽसीत् । बालक्रीडाटीकायां कुमारिलकृत- श्लोकवार्त्तिकस्य बहून्युद्धरणानि दृश्यन्ते । बालक्रीडायां विश्वरूपः पञ्चाशदधिका: स्वलिखितकारिका: उपस्थापयति। विश्वरूपस्य दार्शनिकसिद्धान्ताः शङ्कराचार्यानुमोदिता एव प्रतीयन्ते।

विश्वरूपः स्वव्याख्याने बहूनां स्मृति-धर्मसूत्राणां प्रमाणवचनानि स्वीकरोति । परवर्तिकालीनधर्मनिबन्धग्रन्थेषु मिताक्षरा-दायभाग-व्यवहारमातृका स्मृतिचन्द्रिका[२३]-हारलता-सरस्वतीविलास[२४]-तिथिनिर्णय-कालनिर्णय निर्णयसिन्धुप्रभृतिषु ग्रन्थेषु विश्वरूपस्य मतानि चर्चितानि सन्ति।

मेधातिथि:

[सम्पादयतु]

मेधातिथि: मनुस्मृतेः व्याख्याकारेषु सर्वप्रसिद्ध आसीत् । स च मनुस्मृतौ मनुभाष्यं प्रणीतवान् । तस्य मनुभाष्यमुन्नतमुपदेशात्मकं, प्रशस्तं, पाण्डित्यपूर्णं, पूर्वमीमांसाविचारैः परिपूर्णञ्च प्रतिभाति। मेधातिथि: भट्टवीरस्वामिनः पुत्रः, दाक्षिणात्यश्चासीदिति जोलीमहोदयः कथयति । तत्रैव 'मेधातिथिप्रभृतिभिः दाक्षिणात्यैरेवं निश्चितत्वात्' इति सरस्वतीविलास स्मृतिचन्द्रिकादिषु प्राचीनधर्मनिबन्धेषु प्रतिपादितत्वात्तस्य दाक्षिणात्यत्वं सिद्ध्यति । परन्तु बूहलरमहोदयः कानिचित् प्रमाणान्युपस्थाप्य मेधातिथे: काश्मीरीयत्वं प्रतिपादयति । परन्तु नेदं मतं युक्तियुक्तं ग्रहणयोग्यं च प्रतिभाति। काल:- मेधातिथि: स्वमनुभाष्ये असहाय-कुमारिलयोः मतान्युद्धरति । अतः मेधातिथे: कालः ८२० ख्रीष्टाब्दात् परमेव भवेत् । मिताक्षरायां च सः प्रामाणिक ग्रन्थकाररूपेण स्वीक्रियते । अत: स: १०५० ख्रीष्टाब्दात् पूर्वमेव सम्भवेत् । अतः सर्वैरैतिहासिकैः मेधातिथेरानुमानिककाल: ख्रीष्टीयदशमशतक एव स्वीक्रियते।

कृतयः - मेधातिथे: पूर्वमीमांसाविषये गभीरज्ञानमासीत् । तस्य मनुभाष्ये विध्यर्थवादयोः बहुलप्रयोग: दृश्यते । सोऽपि जैमिनिसूत्राणि, शावरभाष्यस्यांशं, कुमारिलमतञ्च प्रायश उद्धरति । मेधातिथि: वैदिकसाहित्येन सह तथा व्याकरण-मीमांसा-वेदान्त-स्मृतिभिः सह संपूर्णरूपेण परिचित आसीदिति तस्य भाष्यत: ज्ञायते ।

मनुभाष्यातिरिक्तं मेधातिथि: स्मृतिविवेकनाम्ना विशालं धर्मनिबन्धं व्यरचयत् । स्मृतिविवेकस्योद्धरणानि पराशरमाधवीय -तिथिनिर्णयादिषु धर्मनिबन्धेषु दृश्यन्ते । मेधातिथि: असहाय-शंकराचार्य-कुमारिल-कामसूत्र वाक्यपदीयप्रभृतीनां मतानि स्वग्रन्थेषूद्धरति ।

अपरार्कः

[सम्पादयतु]

अपरादित्य: जीमूतवाहनवंशस्य शिलाहार राजकुमार आसीत् । स: आनन्ददेवस्य पुत्र: नागार्जुनस्य च पौत्र आसीत् । शिलाहाराभिलेखानुसार तस्य परिवारजनाः स्थानत्रयं व्याप्य आसन् । यथा- उत्तरकोङ्कणः, दक्षिणकोङ्कणः, कोल्लापुरश्च

राज्ञः अपरादित्यस्य दानपत्रे १११५ तः ११३० ख्रीष्टाब्दमध्यवर्ती काल उल्लिखितोऽस्ति । अतस्तस्य काल: द्वादशशतकस्य प्रथमार्धे एव स्थिरीक्रियते । अपरार्कः स्वग्रन्थे मिताक्षराकारमतं खण्डयति। अतस्तस्य काल: ११०० ख्रीष्टाब्दात् परमेव स्वीक्रियते । स्मृतिचन्द्रिकाकारेण[२५] देवणभट्टेन अपरार्कमतमुद्धृतत्वात् तस्य काल: १२०० ख्रीष्टाब्दात् पूर्वमेव निश्चीयते । देश:- मङ्खस्य श्रीकण्ठचरिते[२६] वर्णितमस्ति यत् कोङ्कणस्य राजा अपरादित्यः राज्ञः जयसिंहस्य विद्वन्मण्डली निकषा तेज:कण्ठं दूतरूपेण प्रेषितवान् । अद्यापि काश्मीरभूमावपरार्ककृता याज्ञवल्क्यटीका प्रचलति । अतोऽपरादित्यः काश्मीरप्रान्ते सुपरिचितः। कृतयः - अपरार्क: याज्ञवल्क्यस्मृतौ अपरार्कधर्मनिबन्धं व्यरचयत् । कालान्तरं स ग्रन्थः अपरार्कयाज्ञवल्क्य-धर्मनिबन्धनाम्ना सुपरिचितः। अयं च ग्रन्थः आनन्दाश्रममुद्रणालय, पुनाद्वारा द्वाभ्यां भागाभ्यां १९०३-१९०४ ख्रीष्टाब्दयोर्मध्ये प्रकाशितः। अपरार्कः विष्णुसमुच्चयग्रन्थमपि प्रणीतवान् । तत्र ग्रन्थान्ते विद्याधरवंशस्य जीमूतवाहनकुलस्य राजा शिलाहार अपरार्क इति लिखितमस्ति । धर्मनिबन्धेऽस्मिन्नुभ्रतानां ग्रन्थानां ग्रन्थकाराणां नामानि यथा गौतम-आपस्तम्ब-वसिष्ठ - विष्णु - बौधायन -देवल - पैठीनसि - शंखलिखित हारीत- नारद - बृहस्पति - कात्यायन -मनु- पराशर- यम- आदिपुराण आदित्यपुराण- कूर्मपुराण- कालिकापुराण- देवीपुराण-नन्दीपुराण- नृसिंहपुराण पद्मपुराण- ब्रह्मपुराण- ब्रह्माण्डपुराण-भविष्यपुराण-भविष्योत्तरपुराण मत्स्यपुराण-मार्कण्डेयपुराण-लिङ्गपुराण-वराहपुराण-वामनपुराण-वायुपुराण विष्णुपुराण-विष्णुधर्मोत्तरपुराण-शिवधर्मोत्तर-स्कन्दपुराणानि । ग्रन्थेऽस्मिन् कुमारिलसिद्धान्ता अनेकत्र प्रतिपादिताः। परवर्तिधर्मनिबन्धग्रन्थेषु दायभाग स्मृतिचन्द्रिका-व्यवहार-प्रकाशादिष्वपरार्कमतानि चर्चितानि सन्ति ।

भवदेवभट्टः

[सम्पादयतु]

उत्कलप्रदेशस्य भुवनेश्वरस्थ-अनन्तवासुदेवमन्दिरान्तर्गतशिलालेखे भवदेवस्यैतिह्यं वर्णितमस्ति । किलहर्णमहोदयोऽस्य शिलालेखस्य संपादक: आसीत् । तस्मिन् शिलालेखे भवदेवभट्टस्य प्रशस्तिपरकाः श्लोकाः प्राप्यन्ते। शिलालेखतत्त्वानुसारं भवदेव: सामवेदस्य कौथुमशाखानुयायी ब्राह्मण आसीत्। स च गोवर्द्धनस्य पुत्र आसीत् । तस्य मातु: नाम साङ्गोका, पुत्रस्य नाम च रथाङ्ग आसीत् । बालबलभीभुजङ्गः, धर्माध्यक्षश्च अस्योपाधय आसन्। भवदेवः वङ्गाधिपस्य हरिवर्मदेवस्य मन्त्री धर्माध्यक्षश्चासीत् । असौ धर्मशास्त्र- मीमांसा आयुर्वेद-अस्त्रविद्यासु निष्णात आसीत् । स च प्रासादनिर्माणकलानिपुण आसीदिति ज्ञायते । तस्य परिवारसदस्याः पश्चिमवङ्गस्य हुगलीनद्या: पश्चिमदिशि राधामण्डलान्तर्गताः सिद्धलग्रामनिवासिन आसन् । काल:- राज्ञः हरिवर्मदेवस्य शासनकालानुसारमसौ ख्रीष्टीयैकादशशतकस्या न्तिमभागे द्वादशशतकस्य प्रथमभागे वा विद्यमान आसीत् । भवदेवस्य मतानि देवणभट्ट - हेमाद्रि - मिसरुमिश्र - हरिनाथादीनां कृतिषु, सरस्वतीविलासे चोद्धृतत्वात्तस्य कालोऽवश्यं ११०० तः ११५० ख्रीष्टाब्दमध्ये सम्भवेत् ।

भवदेवभट्टः बहून् ग्रन्थान् विरचितवान् । ते भवन्ति यथा -

१) सम्बन्धविवेकः- रघुनन्दनस्य संस्कारतत्त्वे, उद्वाहतत्त्वे च भवदेवस्य ग्रन्थोऽयमुद्धतोऽस्ति ।

२) कर्मानुष्ठानपद्धति: अथवा दशकर्मदीपिका अथवा दशकर्मपद्धति: - अयं ग्रन्थः प्रकाशितः, परन्तु इदानीं दुर्लभः। अयं च ग्रन्थः सामवेदानुयायिनां कृते प्रणीतः। ग्रन्थेऽस्मिन् संसारपद्धतिरहस्यनाम्नी एका टीका वर्त्तते ।

३) प्रायश्चित्तनिरूपणम्- अयं च ग्रन्थः वरेन्द्र रिसर्च सोसाइटि, राजशाही, वेंगलद्वारा श्रीननिगोपालमजुमदारमहोदयानां संपादनया १९२७ ख्रीष्टाब्दे प्रकाशितः।

४) तौतातितमततिलकम्- ग्रन्थोऽयं कुमारिलभट्टमतानुसृतः, पूर्वमीमांसातत्त्वोपेतश्च वर्त्तते। अयं च ग्रन्थोऽधिकरणमुखेन प्रतिपादितः। सरस्वतीभवनसिरिज, वनारसद्वारा १९३९ ख्रीष्टाब्दे प्रथमभागस्य, १९४४ ख्रीष्टाब्दे चास्य द्वितीयभागस्य प्रकाशनं सञ्जातम् ।

५)शावसूतिकाशौचप्रकरणम्- अयं ग्रन्थ: डा. रामचन्द्रहाजरामहोदयेन संपादितः, गवर्नमेण्ट संस्कृत रिसर्च सोसाइटि अफ् कलिकताद्वारा प्रकाशितश्च। अत्र प्रकरणद्वयं विद्यते । यथा- शावाशौचप्रकरणम्, सूतकाशौचप्रकरणञ्चेति । तत्रान्तिमश्लोकः यथा-

‘वङ्गाधिपधर्माध्यक्षो भट्टश्रीभवदेवाह्वयः।

शवसूतकादिविशुद्धिप्रकरणमवलोक्य संहिताश्चक्रे ॥

इति श्रीबालबलभीभुजङ्गापरनाम- श्रीवङ्गाधिराजधर्माध्यक्ष- भट्टाचार्यभवदेवकृतं शावसूतकाशौचप्रकरणं समाप्तम् । (पृ-४९) ६) व्यवहारतिलकम्- व्यवहारतत्त्ववत् व्यवहारप्रकाशग्रन्थवच्च भवदेवभट्टः व्यवहारतिलकं रचितवान् । व्यवहारतत्त्वे उत्तरविषये, वीरमित्रोदयस्य व्यवहारप्रकाशे आततायिविषये, मिसरुमिश्रस्य विवादचन्द्रे, सरस्वतीविलासे, नन्दपण्डितकृतायां वैजयन्तीटीकायां भवदेवमतानि चर्चितानि सन्ति । परन्त्वयं ग्रन्थोऽद्यावधि अप्रकाशितोऽस्ति ।

रघुनन्दनः प्राय: बहुत्र प्रामाणिकग्रन्थकारत्वेन भवदेवस्य मतान्युद्धरति।

भोजदेवः

[सम्पादयतु]

परमारवंशोद्भवः भोजदेव: धारानगऱ्या अधिपतिरासीत् । भोजदेवस्य पितुर्नाम सिन्धुराजः सिन्धुलो वा आसीत् । अस्य पितामहस्य नाम सीयकदेवः, पितृव्यस्य नाम वाक्पतिराजः मुजो वाऽऽसीत् । भोजदेवः अद्भुतप्रतिभावान् पुरुष आसीत् । सः स्वराजधानीमुज्जयिनीत: धारानगरी प्रति नीतवान् । अत: स: धारेश्वर-मालवाधिपतिनाम्नाऽपि प्रसिद्ध आसीत् ।

भोजप्रबन्धात् ज्ञायते यद्राजा भोजः पञ्चाशद्वर्षाणि(५०) यावत् राज्यशासनमकरोत् । भोजदेवस्योत्तराधिकारिण: जयसिंहस्य काल: १०५५ ५६ ख्रीष्टाब्दयोर्मध्ये निश्चीयते। अतः भोजराजस्य राजत्वकाल: १००५ तः १०५४ ख्रीष्टाब्दमध्ये स्वीक्रियते । सुशीलकुमारदेमहोदयस्य मतानुसारमस्य राजत्वकाल: १०१०-१०५५ ख्रीष्टाब्दमध्ये निश्चीयते[२७] । डा. वी. राघवन् महोदय: भोजस्य राज्याभिषेककालं १०१० ख्रीष्टाब्दे, मरणञ्च १०६२ ख्रीष्टाब्दे निश्चिनोति[२८] । प्रतिपालभाटियामहोदयमतानुसारं भोजदेवस्य कालः १०११ ख्रीष्टाब्दत: १०५५ ख्रीष्टाब्दमध्य एव स्वीक्रियते[२९]

भोजराजः धर्मशास्त्र-काव्यशास्त्र-व्याकरण-चिकित्साशास्त्र ज्योति:शास्त्र- शैवदर्शन-वास्तुविद्या-योगशास्त्र-चम्पूकाव्यादिषु अनेकान् ग्रन्थान् प्रणीतवान् । सः सर्वेषामाश्रयदाताऽऽसीत् । स च सर्वासु विद्यासु आत्मनोऽनुरागं द्योतयितुं बहून् ग्रन्थान् रचितवान् । तस्य ग्रन्थाः भवन्ति यथा -

१) भुजबलनिबन्ध:- धर्मशास्त्र - ज्योति:शास्त्रतत्त्वसंवलितोऽयं ग्रन्थः। अयं चाष्टादशाध्यायैः विभक्तः। अत्र मुख्यतः प्रतिपादितविषयाः भवन्ति यथा कर्णवेधः, उपनयनं, विवाहदशमेलकम् , स्त्रीजातकं, गृहप्रवेशः,संक्रान्तिस्नानं, द्वादशमासकृत्यञ्चेति ।

२) सरस्वतीकण्ठाभरणम्- अलङ्कारशास्त्रविषयकग्रन्थः।

३) संग्रहप्रकाश:- साहित्यविषयकग्रन्थः ।

४) सरस्वतीकण्ठाभरणम्- व्याकरणविषयकः ।

५) शृङ्गारप्रकाश:-साहित्यविषयकग्रन्थः।

६) योगसूत्रवृत्ति:-पातञ्जलयोगसूत्रे वृत्तिग्रन्थः।

७) राजमृगाङ्क:- वैद्यकग्रन्थः।

८) राजमृगाङ्क:-(राजमार्तण्डो वा) ज्योति:शास्त्रीयग्रन्थः।

९) भूपालपद्धति:- ज्योति:शास्त्रीयः,धर्मशास्त्रीयग्रन्थश्च ।

१०) धर्मनिबन्ध:- व्यवहारश्राद्धकालविषयकः। अस्य ग्रन्थस्योद्धरणं मिताक्षरा[३०] दायभाग-हारलता-स्मृतिचन्द्रिका[३१]-शुद्धिक्रियाकौमुदी-कृत्यकौमुदी[३२]- निर्णयामृत-कालविवेक-समयप्रदीपादिषु भोजदेवस्योद्धरणानि दृश्यन्ते ।

भोजदेवस्य पुत्रः जयसिंहः धर्मशास्त्रे जयसिंहकल्पद्रुमनामकं विशालधर्मनिबन्धग्रन्थं विरचितवान् । स च ग्रन्थ: वेकटेश्वरष्टीम् प्रेस्, बम्बे द्वारा १९२४ ख्रीष्टाब्दे प्रकाशित आसीत् ।

विज्ञानेश्वरः

[सम्पादयतु]

विज्ञानेश्वरः धर्मशास्त्रवाङ्मये प्रसिद्धं नाम । सः भरद्वाजगोत्रीयः, पद्मनाभभट्टस्य सुपुत्रश्चासीत् । विज्ञानेश्वरः परमहंसस्योत्तमस्य च शिष्य आसीत्। विज्ञानेश्वरः स्वभाष्यस्यान्तिमे स्वयमात्मानं विज्ञानयोगीति कथयति । सः चालुक्यवंशोद्भवस्य नृपतेः विक्रमार्कदेवस्य शासनकालेऽवर्त्तत । पारस्कर - गृह्यसूत्रस्य भाष्यकार: हरिहर: विज्ञानेश्वरस्य शिष्य आसीदिति आशौचदशकग्रन्थे उल्लिखति । व्यवहारशिरोमणिकार: नारायणोऽपि विज्ञानेश्वरस्य शिष्य आसीदिति स्वयं स्वग्रन्थे उद्घोषयति। विज्ञानेश्वर: प्रख्यातनामा, यशस्वी, प्रगाढविद्वान्, पूर्वमीमांसक: सर्वशास्त्रवेत्ता चासीत् । विज्ञानेश्वर: निजामशासनान्तर्गते कस्मिंश्चिद् ग्रामे न्यवसत् । तदा कल्याणनगरं कर्णाटकस्य विदारमण्डलान्तर्गतमासीत् ।

विक्रमार्कदेव:(षष्ठः) राजधान्यां कल्याणनगर्यां पञ्चाशद्वर्षाणि यावदर्थात् १०७६ तः ११२६ ख्रीष्टाब्दं यावत् राजत्वं कृतवान् । विज्ञानेश्वरः याज्ञवल्क्यस्मृते: टीकायां मिताक्षरायामन्तिमे विक्रमार्कदेवस्य प्रशंसा करोति । भोजदेवस्य राजत्वकाल: १००५ तः १०५५ ख्रीष्टाब्दपर्यन्तं स्वीक्रियते। विज्ञानेश्वर: विश्वरूप-मेधातिथि-धारेश्वर-श्रीकरादीनां मतान्युद्धरति। अत: विज्ञानेश्वरस्य काल: १०५० तः पूर्वं न सम्भवेत् । विज्ञानेश्वरस्य मतानि कृत्यकल्पतरु- स्मृतिचन्द्रिका- वीरमित्रोदय- सरस्वतीविलास-भगवन्त भास्करादिषूद्धृतानि सन्ति। अत: विज्ञानेश्वर: १२०० ख्रीष्टाब्दात् पूर्ववर्ती प्रायः भवेत् । अत एव विज्ञानेश्वरस्य काल: १०५० तः ११२० ख्रीष्टाब्दमध्ये निश्चीयते।

आचार्य: विज्ञानेश्वरः याज्ञवल्क्यस्मृतौ मिताक्षराटीकां विरचितवान्। धर्मशास्त्रे विज्ञानेश्वरविरचितस्य मिताक्षराग्रन्थस्यापूर्वं वैशिष्ट्यं विद्यते । मिताक्षराटीका ऋजुमिताक्षरानाम्नाऽपि उच्यते । इयं न केवलं याज्ञवल्क्य स्मृतेः टीकारूपा, परन्तु महत: निबन्धग्रन्थस्य महत्त्वं धारयति । अनेके महत्त्वपूर्णाः स्मार्त्तसिद्धान्ता: मिताक्षरात: विकसिताः भवन्ति । आधुनिक हिन्दुविधावपि मिताक्षरा सर्ववादिस्वीकृताऽस्ति । विज्ञानेश्वर: याज्ञवल्क्यस्मृतौ आचाराध्यायापेक्षया व्यवहारप्रायश्चित्ताध्याययोः विस्तरशः वर्णनं करोति । व्याकरणे पतञ्जले: महाभाष्यवत्, साहित्ये मम्मटस्य काव्यप्रकाशवत्, जैमिनीयदर्शने प्रशस्तपादभाष्यवच्च धर्मशास्त्रे मिताक्षराटीका प्रसिद्धिमाप्नोति। वङ्गप्रान्तं विहाय समग्रे भारते वर्षे मिताक्षराया: महानादर: परिलक्ष्यते । विज्ञानेश्वरः मिताक्षरायां बहुत्र पूर्वमीमांसारीत्या विषयव्यवस्थां करोति, स्वाभिमतं च प्रतिपादयति ।

मिताक्षरायां विज्ञानेश्वर: सर्वेषां स्मृतिग्रन्थानां धर्मसूत्राणामन्येषां बहूनां ग्रन्थानां, ग्रन्थकाराणाञ्चोदाहरणानि प्रस्तौति । ते भवन्ति यथा - अङ्गिरा: - बृहदङ्गिराः- मध्यमाङ्गिराः- अत्रि-आपस्तम्ब-आश्वलायन-उपमन्यु-उशना: ऋष्यशृङ्ग -कश्यप-काण्व-कात्यायन-कार्णाजिनि-कुमार-कृष्णद्वैपायन-क्रतु गार्ग्य-गृह्यपरिशिष्ट-गोभिल-गौतम-च्यवन-छागल-चतुर्विशंतिमत-जमदग्नि जातुकर्ण्य-जाबाल-जैमिनि-दक्ष-देवल-धौम्य-नारद-पराशर-पारस्कर पितामह-पुलस्त्य-पैठीनसि-प्रचेतस्-प्रजापति-बृहस्पति-बौधायन-भारद्वाज भृगु-मनु-वृद्धमनु-मरीचि-मार्कण्डेय- यम-याज्ञवल्क्य -बृहद्याज्ञवल्क्य लिखित-लौगाक्षि-वसिष्ठ-विष्णु-व्याघ्रपाद-व्यास-शङ्ख- शङ्खलिखित-शातातप-शौनक-संवर्त्त-सुमन्तु-हारीताः।

मिताक्षराकार: निबन्धकारेषु असहाय-विश्वरूप-मेधातिथि-श्रीकर भारुचि-भोजदेवानुद्धरति। एतदतिरिक्तं निरुक्त-योगसूत्र-पाणिनि-सुश्रुत मत्स्यपुराण-स्कन्दपुराण-भविष्यपुराण-ब्रह्माण्डपुराण-विष्णुपुराण-अमरकोष गर्भोपनिषत्-जाबालोपनिषत्-काठकगृह्य-नाट्यशास्त्रादीनि विज्ञानेश्वर: उद्धरति। विवादरत्नाकरे मिताक्षराकारस्य मतानि चतुर्षु स्थानेषूद्धृतमस्ति[३३]

विज्ञानेश्वर: मिताक्षरायां विशेषत: मीमांसान्यायान्, नियमविधि परिसंख्याविध्यो: व्याख्यानं विस्तरश: करोति । लिप्सासूत्रं, क्रत्वर्थपुरुषार्थयो: भेदं, विकल्पभेदान्, दण्डापूपिकन्यायं, शाबरभाष्यमतं, माषमुद्गन्यायं, शाखाधिकरणन्यायं च सन्निवेशयति ।

मिताक्षराटीका संक्षिप्ता, निखिलार्था, गूढतत्त्वावबोधा च भवति । अत एव तस्यार्थस्यावगाहनं बहुषु स्थलेषु न सुकरं मन्यते । एतदर्थं कैश्चिद् विद्वद्भिः मिताक्षरायाः टीका: प्रणीताः सन्ति । ते च टीकाकाराः भवन्ति यथा -

१) विश्वेश्वरभट्टः- सुबोधिनीटीकाकारः। सुबोधिनीटीका जे.आर्.घारपुरे द्वारा प्रकाशिता ।

२) नन्दपण्डित:-प्रमिताक्षराटीकाकारः,

३) बालम्भट्टः - बालम्भट्टीटीकाकारश्च ।

विज्ञानेश्वरः मिताक्षरातिरिक्तं त्रिंशछ्लोकीम्, अशौचदशकं च विरचितवान्। अशौचदशकग्रन्थे तच्छिष्येण हरिहरेण टीका विरचिताऽस्ति । नारायणभट्टस्य भागिनेयः, भट्टोजिदीक्षितश्च तदुपरि टीकां विरचितावास्ताम् ।

शतानन्दः

[सम्पादयतु]

उत्कलीयधर्मनिबन्धकारेषु शतानन्द: प्रथमाचार्य आसीत् । सोमवंशीय राजत्वस्यान्तिमकाले सुप्रसिद्धज्योतिर्विद्रूपेण धर्मनिबन्धकाररूपेण चोत्कलप्रान्ते शतानन्द: सर्वजनविदित आसीदिति ऐतिहासिका:[३४] प्रतिपादयन्ति।

शतानन्दः स्वपरिचयदेशकालादीनां विषये स्वरचितभास्वतीग्रन्थे श्लोकमेकं विरचितवान् । यथा -

'खखाश्विवेदप्रमिते युगाब्दे दिव्योक्तित: श्रीपुरुषोत्तमस्थः।

सरस्वतीशंकरयोस्तनुजः श्रीमांच्छतानन्द इति प्रसिद्धः॥'

एतत्प्रमाणानुसारं ज्ञायते यत् शतानन्दमिश्रः पुरीनगरस्य पुरुषोत्तमक्षेत्रस्य वा एक: ख्यातनामा पण्डित आसीत् । तस्य पिता श्रीमान् शंकरमिश्रः, माता सरस्वतीदेवी चास्ताम् । स च ४२०० युगाब्देऽर्थात् १०९९ ख्रीष्टाब्दे वर्तमान आसीत् । तस्यापरं नाम मुक्ताधरः, उपनाम चाचार्य आसीत् । कृतयः -आचार्यशतानन्देन त्रयः ग्रन्थाः विरचिताः। ते च यथा -

क) शतानन्दसंग्रहः,

ख)भास्वती,

ग)शतानन्दरत्नमाला च ।

भास्वतीं विहायापरं ग्रन्थद्वयं नेदानीं यावदुपलभ्यते ।

क) शतानन्दसंग्रहः -ग्रन्थोऽयं धर्मशास्त्रीयविषयाणां संग्रहरूपः, उत्कलीयधर्मनिबन्धेषु सर्वप्राचीनः । अत्र मुख्यत: कालविषयः प्रतिपादितः । अत्र प्रतिपादिताः प्रमुखविषया: यथा-

१) संवत्सरनिर्णयः,

२) मासनिर्णयः,

३) तिथिनिर्णयः,

४) प्रतिपदादितिथिनिर्णयः,

५) व्रतादावशुभकालनिरूपणम्,

६) मलमासनिरूपणम्,

७) गुर्वादित्यकारिका,

८) श्राद्धप्रकरणम्,

९) संस्कारप्रकरणम्,

१०) वर्षमध्ये पालितानि उत्कलीयव्रतानि चेति ।

ख) शतानन्दरत्नमाला- ग्रन्थोऽयं रत्नमालानाम्ना ख्यातः। अत्र प्रतिपादित प्रमुखविषयाः यथा -

१) तिथिनिर्णयः,

२) अयननिर्णयः,

३) व्रतारम्भकाल:,

४) क्षौरनियमः,

५) महालक्ष्मीव्रतनिरूपणम्,

६) गर्भाधाननक्षत्रादिनिरूपणम्,

७) जातकर्म,

८) विवाहे मासनिर्णयः,

९) विवाहे दशदोषाः,

१०) विवाहे निषिद्धनक्षत्रवारादीनां निरूपणम्,

११) अग्न्याधानम्,

१२) गृहारम्भ-गृहप्रवेशकालौ,

१३) कालाशुद्धिप्रकरणं च ।

ग) भास्वती - ग्रन्थोऽयं बहुत्र बहुवारं प्रकाशितः। अस्यानेके टीकाग्रन्था अपि विद्यन्ते । वराहमिहिरस्य मार्गानुसरणं कृत्वा रचितत्वात् पञ्चसिद्धान्तीनाम्ना ग्रन्थोऽयं लोके ख्यातः। अस्य टीकासु संसारप्रकाशिकाटीका महत्त्वपूर्णा मन्यते । गवेषक: हीरालालोऽस्य ग्रन्थस्य चतुर्णां टीकाग्रन्थानां विवरणं प्रस्तौति। अत्राध्यायाः

अधिकारनाम्ना ख्याताः। अत्र वर्णितानामष्टाधिकाराणां नामानि यथा -

प्रथमः - तिथ्यादिध्रुवाधिकारः,

द्वितीयः - ग्रहध्रुवाधिकारः,

तृतीयः- पञ्चाङ्गस्पष्टाधिकारः,

चतुर्थः - ग्रहस्पष्टाधिकारः,

पञ्चमः - त्रिप्रश्नाधिकारः,

षष्ठः - चन्द्रग्रहणाधिकारः,

सप्तमः - सूर्यग्रहणाधिकारः,

अष्टम:- परिलेखाधिकारश्च।

शतानन्दस्य मतानि शम्भुकर-विद्याकर-बृहस्पति[३५]-नरसिंहवाजपेयि विश्वनाथमिश्र-दिव्यसिंहमहापात्र[३६]-रघुनाथदाश-गदाधरराजगुरुप्रभृतयश्च उत्कलीयधर्मनिबन्धकारा: ससम्मानमुद्धरन्ति ।

गोविन्दराजः

[सम्पादयतु]

गोविन्दराजः माधवभट्टस्य पुत्रः नारायणभट्टस्य च पौत्र आसीत्। शैवोपासकः ब्राह्मण: गोविन्दराजः स्वजीवनं गङ्गानदीकुलेऽतिवाहितवान् । मेधातिथि: गोविन्दराजात् पूर्ववर्ती आसीत् । अत: गोविन्दराज: स्वटीकायां बहुषु स्थलेषु मेधातिथिमाक्षिपति।

भोजदेवः स्वकृतिषु गोविन्दराजमतं कुत्रापि नोद्धरति । अतः सः १०५० ख्रीष्टाब्दात् पूर्ववर्ती न भवेत्। गोविन्दराजमतं हेमाद्रि-जीमूतवाहन-श्रीधर लक्ष्मीधरादिभिरुद्धृतत्वात् तस्य काल: १०५० तः ११०० ख्रीष्टाब्दमध्य एवसम्भवेत् ।

गोविन्दराजः मनुस्मृतावेका टीकां विरचितवान् । अस्याः नाम मनुटीका। तस्यापरा कृतिर्भवति स्मृतिमञ्जरी । मनुटीका वि.एन्.माण्डलिक महोदयेन प्रकाशिता । गोविन्दराजस्य स्मृतिमञ्जरी अद्यावधि अप्रकाशिता । अस्मिन् ग्रन्थे आचार-प्रायश्चित्तविषययोः समावेश: दृश्यते । तत्र प्रतिपादिता विषया: यथा- परिभाषाकाण्डे- गर्भाधानाधुपनयनान्तसंस्काराः, सन्ध्योपासना विधिः, ब्रह्मचारिधर्माः, ब्रह्मयज्ञः, विवाहादि-गृहस्थधर्माः, शूद्रधर्माः, वृत्युपदेशाः, स्नानविधिः, यमनियमकाण्डम्, प्रास्थानिकम्, दानविधिः, स्वापविधिः, प्रोषितभर्तृकाधर्माः, द्रव्यशुद्धिः, मूत्रादिशौचम्, आचमननिमित्तानि, आचमनविधिप्रतिषेधाः, कमण्डलुचर्या, स्नानशुद्धिः, प्रक्षालनादिशौचमिति कायिकम् । सौवर्णादिशौचं, भोजनविधिः, भक्ष्याभक्ष्यप्रकरणम्, प्रेतशुद्धिः, ब्राह्मणाशौचम्, क्षत्रियाद्याशौचम्, जननाशौचम्, अनुजाताद्याशौचं, विविधाशौचानि, श्राद्धप्रकरणम्, श्राद्धकाला:, ब्राह्मणपरीक्षा,श्राद्धदेशः, श्राद्धस्येतिकर्त्तव्यता, अमावास्याश्राद्धम्, एकोद्दिष्टम्, सपिण्डीकरणं, सांवत्सरिकश्राद्धं, वृद्धिश्राद्धञ्च। ततः वानप्रस्थकाण्डम्, प्रव्रजितकाण्डम्, शूद्रधर्मकाण्डम्, अनुलोमज-प्रतिलोमजाः, तवृत्त्युपदेशकाण्ड, प्रायश्चित्तकाण्डञ्चेति ।

गोविन्दराजस्य कृतिषु मेधातिथि - विश्वरूप- भोजदेव - कामधेनुप्रभृतीनां निबन्धकाराणां सूचना प्राप्यते । गोविन्दराजस्य मतानि रघुनन्दनस्य दायतत्त्वे, अनिरुद्धस्य हारलतायां, जीमूतवाहनस्य दायभागे चोद्धृतानि सन्ति ।

वल्लालसेनः

[सम्पादयतु]

वल्लालसेनः कश्चन वङ्गीय राजा आसीत् । महाराजाधिराजः, निःशङ्कः, शङ्करश्च एते सर्वे वल्लालसेनस्योपाधयः आसन् । दानसागरग्रन्थे वल्लालसेनः उल्लिखति यद् ग्रन्थोऽयं तस्य गुरुपादानामनिरुद्धभट्टमहोदयानां प्रोत्साहनेन लिखित:[३७] । स सर्वदा शास्त्रचर्चायां यागयज्ञादिकर्मसु समाजसंस्कार कर्मसु च रत आसीत् ।

वल्लालसेनः दानसागरग्रन्थस्य प्रारम्भं १०९० शकवर्षे कृतवान् । तस्य ग्रन्थस्य समाप्ति: १०९१ शकवर्षेऽभवत् । दानसागर: भवतोषभट्टाचार्येण सम्पादितः, वि.आइ.सिरिजमध्ये १९५६ ख्रीष्टाब्दे प्रकाशितश्च। अस्माद् वल्लालसेनस्य काल: ११०० तः ११७५ ख्रीष्टाब्दमध्ये स्वीक्रियते ।

वल्लालसेन: धर्मशास्त्रसम्बन्धिनं ग्रन्थपञ्चकं प्रणीतवान् । ते च ग्रन्थाः यथा-

१) आचारसागरः,

२) प्रतिष्ठासागरः,

३) दानसागरः,

४) अद्भुतसागरः,

५) व्रतसागरश्च ।

वल्लालसेनः अद्भुतसागरग्रन्थस्य प्रारम्भं कृतवान् । परन्तु तस्य समाप्तिं तत्पुत्रः लक्ष्मणसेनोऽकरोत् । दानसागरग्रन्थस्य प्रमुखप्रतिपाद्य विषयाः भवन्ति यथा- ब्राह्मणानां प्रशंसा, दानप्रशंसा, दानग्रहीता, दानग्रहीतु: योग्यता, विविधदानानि, दानस्य प्रकृष्टकालः स्थानञ्चेति ।

चण्डेश्वरस्य दानरत्नाकरे, निर्णयसिन्धुग्रन्थे च दानसागरस्य मतान्युल्लिखि तानि सन्ति । तोडरानन्दे, निर्णयसिन्धावद्भुतसागरस्य चोल्लेखः प्राप्यते।।

कविकान्तसरस्वती

[सम्पादयतु]

कविकान्तः आदित्याचार्यस्य पुत्रः आसीत् । काशीस्थस्य नृपतेः नागार्जुनस्य पुत्रः धन्यराजोऽस्याश्रयदाताऽऽसीत् । अनेन ११०० तः १२०० ख्रीष्टाब्दमध्ये विश्वादर्शग्रन्थः प्रणीतः। विश्वादर्शग्रन्थे चत्वारः काण्डा: वर्तन्ते । ते भवन्ति यथा - आचार - व्यवहार-प्रायश्चित्त- ज्ञानकाण्डाः। प्रथमकाण्डे ४२ श्लोकैः शौच दन्तधावन- स्नान- सन्ध्या - होम - देवतार्चनादीन्याह्निककृत्यानि वर्णितानि । द्वितीयकाण्डे ४४ श्लोकै : व्यवहारविषयः, तृतीयकाण्डे ५३ श्लोकै: प्रायश्चित्तविषयः, चतुर्थकाण्डे च ५३ श्लोकैः तीर्थक्षेत्रमाहात्म्य - वानप्रस्थ - संन्यासधर्माश्च विचारिताः सन्ति ।

अनिरुद्धभट्टः

[सम्पादयतु]

अनिरुद्धभट्टः वंगीयप्राचीनधर्मनिबन्धकारेषु अन्यतम आसीत् । स चवरेन्द्रकुलोद्भव: चाम्पाहट्टीय:[३८] ब्राह्मण: धर्माध्यक्षश्चासीत् । अनिरुद्धभट्टः कुमारिल्लभट्टस्यानुयायी आसीत् । सः वंगीयस्य नृपतेः वल्लालसेनस्य गुरुरासीत्। अनिरुद्धस्य प्रोत्साहनेन वल्लालसेनः दानसागरग्रन्थं विरचितवानिति स्वयमुद्घोषयति ।

दानसागरस्य समाप्तिकाल:[३९] १०९१ शकवर्षमिति तस्मिन् ग्रन्थे लिखितमस्ति । तदनुसारमनिरुद्धस्य कालः ११५० तः १२०० ख्रीष्टाब्दमध्य एव सम्भावयितुं शक्यते । स चानिरुद्धभट्टः गङ्गातीरवर्तिनि विहारपाटकनामके[४०] स्थाने निवासं कृतवान् ।

अनिरुद्धभट्टः कांश्चन ग्रन्थान् प्रणीतवान् । तेषु प्रथमः भवति हारलता। स च ग्रन्थः कमलकृष्णस्मृतितीर्थमहोदयानां सम्पादनया एसियाटिक सोसाइटि आफ् वेंगल, कलिकता द्वारा १९०८ ख्रीष्टाब्दे प्रकाशितोऽस्ति । अत्र प्रतिपादिता: प्रमुखविषयाः यथा - मङ्गलाचरणम्, जननाशौचम्, अशौचे विधिनिषेधौ, विदेशस्थाशौचम्, बालाद्यशौचम्, स्त्र्यशौचम् , वर्णसन्निपाताशौचम्, अशौचसङ्करः, गर्भस्रावाशौचम्, सपिण्डाद्यशौचम्, सपिण्डादिलक्षणम्, सद्य:शौचादि, निर्हरणादि, उदकादिदानम् , प्रवेशनादि, सपिण्डोदकादिदानम् , प्रेतक्रियाधिकारिनिरूपणम् , अस्थिसञ्चयनम् , अशौचान्तकृत्यम् , उदकाद्यनर्हाः, शोकापनोदनमिति ।

ग्रन्थेऽस्मिन् स्मृति - पुराणातिरिक्तानामुद्धृतानां ग्रन्थकाराणां नामानि यथा - असहाय - कामधेनुकार - गोविन्दराज - भोजदेव - विश्वरूपाः। हारलतायां सन्दर्भसूतिका नाम्नी एका टीका विद्यते । या हरिदासतर्काचार्यस्य पुत्रेण अच्युतचक्रवर्तिना लिखिता ।

मा तस्य द्वितीयकृतेः नाम भवति पितृदयिता कर्मोपदेशिनी वा । इयं च कृतिः कलिकतास्थ संस्कृतसाहित्यपरिषदि प्रकाशिता विद्यते । पितृदयिता सामवेदानुयायिनां कृते लिखिताऽस्ति । तत्र वर्णिताः प्रमुखाः विषयाः यथा शय्याया उत्थानात् परं कर्त्तव्यानि , दन्तधावन - स्नान - संध्या - तर्पण - वैश्वदेव - पार्वणश्राद्ध - सपिण्डीकरणानि , अन्यविधानि श्राद्धानि चेति । तस्य तृतीया कृतिर्भवति चातुर्मास्यपद्धतिः । चतुर्थी कृतिश्च भवति भगवत्तत्त्वमञ्जरी।

श्रीधरः

[सम्पादयतु]

दक्षिणभारतीयधर्मनिबन्धकारेषु श्रीधरोऽन्यतमः । श्रीधर: विश्वामित्र गोत्रोत्पन्नस्य नागभर्तुः विष्णुभट्टस्य पुत्र आसीत् । सोऽपि वैदिकयज्ञस्य अनुष्ठाताऽऽसीत्। काल:- श्रीधर: मिताक्षरा - कामधेनु - कल्पतरु - गोविन्दराजानां नामानि उल्लिखति । अतस्तस्य काल: ११५० ख्रीष्टाब्दात् परमेव भवेत् । स्मृतिचन्द्रिकायां हेमाद्रिकृत - चतुर्वर्गचिन्तामणौ च श्रीधरस्योद्धरणं दृश्यते । अतः एतेन ज्ञायते यत्, श्रीधरस्य काल: ११५० -१२०० ख्रीष्टाब्दमध्य एव भवेत् । ही कृतयः -श्रीधरः स्मृत्यर्थसारनामकं धर्मनिबन्धं प्रणीतवान् । अयं ग्रन्थः आनन्दाश्रममुद्रणालय, पुनापक्षत: १९१२ ख्रीष्टाब्दे प्रकाशितोऽस्ति । अत्र प्रतिपादिताः प्रमुखविषया: यथा - परिभाषा, युगधर्माः, संस्काराः, तत्कालातिक्रमे प्रायश्चित्तम्, उपनयनम्, ब्रह्मचारिधर्माः, अभिवादनविधिः, अनध्यायाः, विवाहः, विवाहभेदाः, गोत्रप्रवरनिर्णयः, आह्निककृत्यम्, शौचविधिः, दन्तधावन - स्नान ब्रह्मयज्ञ - तर्पण - अभ्यङ्गस्नान - सन्ध्याविधि - होमविधि - देवतार्चनविधि पञ्चमहायज्ञाश्च ।

ततः श्राद्धविधि-श्राद्धकाल-भोज्यब्राह्मण- निषिद्धब्राह्मण-पार्वणश्राद्ध दैवश्राद्ध-काम्यश्राद्ध-वृद्धिश्राद्ध-एकोद्दिष्ट-सपिण्डीकरण-आहिताग्निश्राद्ध अपरपक्षश्राद्ध-नित्यश्राद्ध-आमश्राद्धानि,युगादि-मन्वादि-संक्रान्ति-पर्व एकादशी-मलमासाः, भक्ष्याभक्ष्यं, भोजनविधिः, द्रव्यशुद्धिः, शारीरशुद्धिः, अशौचविधिः, श्राद्धक्रमः, प्रायश्चित्तानि, कर्मविपाकः, महापातकिनः, महापातकानि, अनुपातकानि, महापातकसमानि, उपपातकानि, जातिभ्रंशकर मलिनीकरण-संकरीकरण-अपात्रीकरणानि, गोहत्याप्रायश्चित्तम्, महापातक प्रायश्चित्तानि, उपपातकप्रायश्चित्तानि, विविधप्रायश्चित्तानि, कृच्छ्रचान्द्रायणादीनि व्रतानि, तत्प्रत्याम्नायाश्चेति।

श्रीधर: स्वग्रन्थे श्रीकण्ठ-शङ्कराचार्य-कामधेनु-कल्पतरु-लोल्लट-प्रदीप मनुटीकाकाराणाञ्च मतान्युद्धति ।

हलायुधः

[सम्पादयतु]

वंगीयधर्मनिबन्धकारेषु हलायुधोऽन्यतमः। सः वत्ससगोत्रीयः, धर्माध्यक्षस्य धनञ्जयस्य पुत्रश्चासीत् । धनञ्जयस्य त्रयः पुत्रा आसन् । ते भवन्ति यथा- पशुपतिः, ईशानः, हलायुधश्च । ईशानः द्विजाह्निकपद्धतिग्रन्थं विरचितवान्। पशुपतिश्च श्राद्धादिकृत्यग्रन्थं विरचितवान्[४१] । सः राज्ञः लक्ष्मणसेनस्य समसामयिक आसीत् । ब्राह्मणसर्वस्वेस: बहुषु स्थानेषु स्वनाम्नोऽन्ते धर्माध्यक्षो, गौडो, वसुधाधीशो, गौडेन्द्र इत्यादिभिः स्वस्य परिचयं ददाति ।

हलायुधः स्वकृतौ ब्राह्मणसर्वस्वे लक्ष्मणसेनस्य प्रशस्तिमुपस्थापयति । अतस्तदाधारेण हलायुधस्य कालः ११५०-१२०० ख्रीष्टाब्दमध्ये निश्चेतुं शक्यते । युवावयसि सः लक्ष्मणसेनस्य सभापण्डितरूपेण विद्यमान आसीत्। परिणतवयसि च सः धर्माधिकारिपदवी प्राप्तवान्[४२]

हलायुधोऽनेकान् ग्रन्थान् प्रणीतवान् । ते भवन्ति यथा -

१) ब्राह्मणसर्वस्वम्,

२) मीमांसासर्वस्वम्,

३) वैष्णवसर्वस्वम्,

४) शैवसर्वस्वम्,

५) कर्मोपदेशिनी,

६) पण्डितसर्वस्वम्,

७) पुरुषसूक्तस्य व्याख्यानं[४३] च ।

हलायुधस्य ब्राह्मणसर्वस्वं १८९३ ख्रीष्टाब्दे प्रथमवारं कलिकतायां, द्वितीयवारं च वनारसमध्ये प्रकाशितमस्ति । चण्डेश्वरस्य कृतिषु हलायुधस्य मतान्यनेकत्र समुद्धृतानि सन्ति । तेषु विवादरत्नाकरे[४४] २२ वारं, गृहस्थरत्नाकरेऽष्टवारं[४५], कृत्यरत्नाकरे च त्रिवारं हलायुधस्य मतान्युल्लिखितानि सन्ति । तदतिरिक्तं हरिनाथस्य स्मृतिसारे, रघुनन्दनस्य दायतत्त्वे, व्यवहारतत्त्वे, दिव्यतत्त्वे, आह्निकतत्त्वे, शुद्धितत्त्वे, श्राद्धतत्त्वे, वाचस्पते: विवादचिन्तामणौ च हलायुधस्य मतान्यालोचितानि सन्ति।

जीमूतवाहनः

[सम्पादयतु]

पाल-काल परिचय:-वङ्गीयधर्मनिबन्धकारेषु जीमूतवाहनः प्राचीनः सर्वश्रेष्ठश्चासीत् । स पारिभद्रकुलोत्पन्न: राढीयब्राह्मणश्चासीत् । सः नारायणभट्टस्य नवमपुरुषीय आसीदिति धर्मशास्त्रेतिहासग्रन्थे काणेमहोदयेनोपस्थापितम् । एदुमिश्रस्य कुलकारिकानुसारं जीमूतवाहन: विश्वक्सेनाभिधस्य वङ्गीयनृपतेः शासनन्यायालये प्राइविवाकरूपेणाधिष्ठित आसीत् ।

जीमूतवाहनस्य कृतिषु धारेश्वर- गोविन्दराज- भोजदेवादीनां मतमुद्धृतत्वात् तस्य कालः ११२५ तः पूर्वं न सम्भवेत् । जीमूतवाहनस्य कृतयः शूलपाणि - वाचस्पतिमिश्र - रघुनन्दनादिभिरुद्धृतत्वात्तस्य काल: १३५० ख्रीष्टाब्दात् परं न भवेत् । जीमूतवाहनः स्वकालविवेके क्षयमासप्रकरणे १०१३ १०१४ शकसंवत्सरयोरर्थात् १०९१-१०९२ ख्रीष्टाब्दयोः सूचनां प्रदाय तत्परवर्त्तित्वं सूचयति। अत: जीमूतवाहनस्य काल: ११२५ तः १२०० ख्रीष्टाब्दमध्ये स्थापयितुं शक्यते ।

जीमूतवाहनस्य कृतित्रयं विद्यते । यथा-

१) कालविवेकः,

२) व्यवहारमातृका,

३) दायभागश्च ।

एते त्रयः ग्रन्था: धर्मरत्नस्यांशविशेषाः भवन्ति। जीमूतवाहनः प्रथमतः कालविवेकं, तदनन्तरं व्यवहारमातृकामन्तिमे च दायभागं प्रणीतवानिति तत्कृते: ज्ञायते ।

१) कालविवेकः - कालविवेकग्रन्थः वि.आइ.सिरिजद्वारा प्रथमवारं, ततश्च एसियाटिक सोसाइटि अफ् वेंगल, कलिकताद्वारा द्वितीयवारं १९०३ ख्रीष्टाब्दे प्रकाशितोऽस्ति। ग्रन्थेऽस्मिन् प्रकरणानि विवेकनाम्ना प्रतिपादितानि। कालविवेके प्रतिपादिताः प्रमुखविषया: यथा - संवत्सर- अयन- ऋतु- मास- पक्ष- तिथि-प्रभृतीनां निरूपणम्, उपाकर्म - अगस्त्योदय- विष्णुशयनैकादशी- चातुर्मास्य कोजागर- मूलाष्टमी- दुर्गाष्टमी- ग्रहण- संक्रान्तिप्रभृतयः पर्वोत्सवाः, विविधमासव्रतानि च ।

२) व्यवहारमातृका - व्यवहारमातृका एसियाटिक सोसाइटि अफ् वेंगल, कलिकताद्वारा आशुतोषमुखार्जीमहोदयानां सम्पादनया प्रकाशिताऽस्ति। अत्र व्यवहारविधीनां वर्णनाऽस्ति । अत्र प्रतिपादिता: प्रमुखविषया: यथा - अष्टादश व्यवहारपदानि, प्राड्विवाकः, व्यवहारस्य पादचतुष्टयम्, उत्तराणि, साक्षि- लेख्य भुक्ति-दिव्यप्रमाणानि च । अत्र नारदः १०७ वारं, बृहस्पति: १२७ वारं, कात्यायन: १३७ वारं, मनुः ४० वारं, व्यासः ३६ वारं, याज्ञवल्क्यश्च ३४ वारमुद्धृताः सन्ति ।

३) दायभाग:- तस्य तृतीया कृतिर्भवति दायभागः। अयं च ग्रन्थः प्रथमवारं भरतचन्द्रशिरोमणिना १८६३ ख्रीष्टाब्दे सप्तटीकाभि: साकं प्रकाशितः। द्वितीयवार १८८० ख्रीष्टाब्दे एच्.टि.कोलबुकमहोदयेन सम्पादितः प्रकाशितश्च। तृतीयवारं १८९३ ख्रीष्टाब्दे श्रीकृष्णतर्कालङ्कारविरचितटीकया साकं जीवानन्देन प्रकाशितः। चतुर्थवारं १९८२ ख्रीष्टाब्दे ए.सुब्रह्मण्यम् शास्त्रिमहोदयानां सम्पादनया मोतिलाल वनारसीदासद्वारा प्रकाशितः।

दायभागे पञ्चदशाध्यायाः विद्यन्ते। तत्र प्रतिपादिता: प्रमुखविषयाः यथा प्रथमाध्याये - दायभागनिरूपणम्, दायविभागयो: शब्दार्थः, स्वत्वस्य लौकिका-लौकिकत्वविचारः, विभागकालः, पितृधनविभागकालश्च।

द्वितीयाध्याये - पितामहधनविभागकालः ।।

तृतीयाध्याये परिच्छेदद्वयं विद्यते ।

प्रथमपरिच्छेदे- पित्रुपरमानन्तरं भ्रातृकृतो विभागः।

द्वितीयपरिच्छेदे - सवर्णभ्रातृणां विभागप्रकारश्च ।

चतुर्थाध्याये परिच्छेदत्रयं विद्यते ।

प्रथमपरिच्छेदे - स्त्रीधननिरूपणम् ।

द्वितीयपरिच्छेदे - स्त्रीधनविभागः।

तृतीयपरिच्छेदे - अप्रजस्त्रीधनाधिकारनिरूपणञ्च ।

पञ्चमाध्याये - विभागानधिकारिनिरूपणम् ।

षष्ठाध्याये परिच्छेदद्वयं विद्यते।

प्रथमपरिच्छेदे - विभाज्याविभाज्यधननिरूपणम्।

द्वितीयपरिच्छेदे - विद्याधननिरूपणञ्च ।

सप्तमाध्याये - विभागानन्तरजातानां विभागः।

अष्टमाध्याये - विभागानन्तरागतविभागः।

नवमाध्याये -एकपितृकाणां सवर्णानुलोमपरिणीतस्त्रीषु जातानां पुत्राणां विभागः।

दशमाध्याये - पुत्रिकौरसयोर्विभाग:। एकादशाध्याये षट्परिच्छेदा: सन्ति ।

तत्र -

प्रथमपरिच्छेदे - अपुत्रधने पत्न्या: प्रथमाधिकारनिरूपणम् ।

द्वितीयपरिच्छेदे - पत्न्यभावे दुहितृदौहित्राधिकारनिरूपणम् ।

तृतीयपरिच्छेदे - दौहित्राभावे पितुरधिकारनिरूपणम् ।

चतुर्थपरिच्छेदे - पित्रभावे मातुरधिकारनिरूपणम् ।

पञ्चमपरिच्छेदे - मात्रभावे भ्रात्रधिकारनिरूपणम् ।

षष्ठपरिच्छेदे - भ्रात्रभावे भ्रातृपुत्राधिकारनिरूपणञ्च ।

द्वादशाध्याये - संसृष्टिधनविभागः।

त्रयोदशाध्याये - विभागकाले निद्भुतस्य विभागः।

चतुर्दशाध्याये - वृत्तविभागसन्देहे निर्णयः।

पञ्चदशाध्याये - ग्रन्थनिर्माणप्रयोजनम् , ग्रन्थकर्तुः परिचयश्चेति ।

दायभागे बहूनां स्मृति- धर्मसूत्राणां प्रमाणवचनान्युद्धृतानि सन्ति । । तत्रोद्धृतानां निबन्धकाराणां नामानि भवन्ति यथा - गोविन्दराज - जितेन्द्रिय दीक्षित - बालक -भोजदेव-विश्वरूप-श्रीकराः। दायभागस्य चतुर्दशटीकाका राणां नामानि ऐतिहासिकाः प्रतिपादयन्ति । ते टीकाकाराः भवन्ति यथा -

१) श्रीश्रीनाथ आचार्यचूडामणि:(१४७५-१५२५ ख्री.) - श्रीकरस्य पुत्रः ।

२) श्रीरामभद्रन्यायालंकारः - श्रीनाथआचार्यस्य पुत्रः । टीकायाः नाम विवृत्तिः।

३) श्रीमदच्युतानन्दचक्रवर्ती - हरिदासतर्काचार्यस्य पुत्रः । टीकाया: नाम दायभागसिद्धान्तकुमुदचन्द्रिका ।

४) श्रीरघुनन्दनभट्टाचार्य: - हरिहरभट्टाचार्यस्य पुत्रः ।

५) श्रीश्रीकृष्णतर्कालङ्कारः - टीकायाः नाम दायदीपटीका ।

६) रामनाथविद्यावाचस्पति: - टीकाया: नाम दायभागविवेकः । इयं टीका १८५७ ख्रीष्टाब्दे प्रणीता ।

७) श्रीमहेश्वरभट्टाचार्यः,

८) कृष्णकान्तशर्मा,

९) उमाशङ्करः,

१०) नीलकण्ठः,

११) मणेश्वरः,

१२) गङ्गाधरः,

१३) सदाशिवः,

१४) हरिदीक्षितश्च ।

वङ्गप्रान्ते न्यायालयेषु जीमूतवाहनप्रणीत-दायभागस्य प्रचलनमद्यावधि दरीदृश्यते।

सोमदेवसूरि:

[सम्पादयतु]

सोमदेव: महेन्द्रदेवस्य कनिष्ठभ्राता, नेमिदेवस्य शिष्यश्चासीत् । असौ ख्रीष्टियद्वादशशतके नीतिवाक्यामृतग्रन्थं विरचितवान् । ग्रन्थेऽस्मिन् ३२ प्रकरणानि सन्ति । अत्र क्रमश: धर्मार्थकाम - अरिषड्वर्ग - विद्यावृद्धसंयोग - विद्या - मन्त्री - पुरोहित - सेनापति - दूत - चार - व्यसन - सप्ताङ्गराज्य - राज्यरक्षा - दैनन्दिनकृत्य - सदाचार - व्यवहार - षाड्गुण्य - विवादपद - युद्ध - विवाह - प्रकीर्णकादिविषयाः प्रतिपादिताः सन्ति । नीतिवाक्यामृतं सटीकं मानिकचन्ददिगम्बरजैनग्रन्थमालायां वम्बेप्रान्ते प्रकाशितमस्ति ।

हरिहरः

[सम्पादयतु]

दक्षिणभारतीयधर्मनिबन्धकारेषु हरिहरोऽन्यतमः। पारस्करगृह्यसूत्रे विरचिते भाष्ये स: स्वयमात्मानमग्निहोत्रीरूपेण, विज्ञानेश्वरस्य च शिष्यरूपेण प्रतिपादयति। विज्ञानेश्वरस्याशौचदशके स: टीका विरचितवान् । हरिहरस्य ग्रन्थेषु कर्कोपाध्याय कृत्यकल्पतरुकार-रेणुदीक्षित-विज्ञानेश्वराणां नामानि मतानि च कीर्त्तितानि सन्ति। अत: हरिहरः ११५० ख्रीष्टाब्दात् परमेव वर्तमान आसीत्। विवादरत्नाकरा ज्ज्ञायते यद् हरिहर: व्यवहारोपरि कमपि धर्मनिबन्धं प्रणीतवान्। विवादरत्नाकरे[४६] हरिहरलिखित-व्यङ्गलपरिमाणलिङ्गच्छेदविषये वर्णितमस्ति । हेमाद्रेः चतुर्वर्ग चिन्तामणौ[४७], श्रीदत्तस्य समयप्रदीपे, आचारादर्श, हरिनाथस्य स्मृतिसारे च हरिहरस्य मतान्युद्धृतानि सन्ति। अत: हरिहरस्य काल: ११५० तः १२५० ख्रीष्टाब्दमध्य एव स्वीक्रियते ।

लक्ष्मीधरभट्टः

[सम्पादयतु]

काशीसम्प्रदायस्य प्रसिद्धधर्मनिबन्धकारेषु लक्ष्मीधरभट्टः प्राचीन: प्रसिद्धश्चासीत् । तस्य पितुर्नाम हृदयधरभट्टः। स च राज्ञः गोविन्दचन्द्रस्य सान्धिविग्रहिकमन्त्री अवर्तत । राजा गोविन्दचन्द्रः कान्यकुब्जसमीपवर्त्तिनः गहडवालप्रान्तस्य नृपतिरासीत् । गोपाल: लक्ष्मीधरस्य सखाऽऽसीत् । राज्ञः वल्लालसेनस्य गुरुः धर्माध्यक्षश्चासीदसौ लक्ष्मीधर इति गोपाल: स्वप्रणीते कामधेनग्रन्थे लिखति ।

लक्ष्मीधरः स्वप्रतिभया कानिचन राज्यानि विजितवान्। सः एकाधारण राज्ञः परामर्शदाता, उत्तमप्रशासकः, विचारपतिः, मीमांसाशास्त्रवेत्ता चासीत् । लक्ष्मीधरः स्वकृतौ गोपालं, मिताक्षरां, रामानुजभाष्यञ्च स्मरति। अत: लक्ष्मीधरस्य काल: द्वादशशतकात् पूर्वं न सम्भवेत् । अनिरुद्धभट्टेन हारलतायां कामधेनुमत मुद्धृतत्वात् लक्ष्मीधर: १२०० ख्रीष्टाब्दात् परं न कदाचित् सम्भवेत्। अत एवास्य साहित्यिककाल: ११२५ तः ११४५ ख्रीष्टाब्दमध्ये ऐतिहासिकैः निश्चीयते।

लक्ष्मीधरः कृत्यकल्पतरुनामकं विशालं धर्मनिबन्धग्रन्थं प्रणीतवान्। तत्र चतुर्दशकाण्डा: विद्यन्ते । ते यथा

१) ब्रह्मचारिकाण्डः,

२)गृहस्थकाण्ड:

३)नियतकालकाण्डः,

४) श्राद्धकाण्डः,

५) दानकाण्डः,

६) व्रतकाण्डः,

७) पूजाकाण्डः

८) तीर्थकाण्डः,

९) प्रायश्चित्तकाण्डः,

१०) शुद्धिकाण्डः,

११) राजधर्मकाण्डः,

१२)व्यवहारकाण्डं:,

१३) शान्तिकाण्डः,

१४) मोक्षकाण्डश्च।

एते च सर्वे काण्डा: गायकवाड ओरियण्टाल सिरिज, वडोदरापक्षत: प्रकाशिताः सन्ति। परन्त्वेते सर्वे काण्डा: इदानीं न प्राप्यन्ते ।

कृत्यकल्पतरोः खण्डानां परिचयः (बडोदराप्रकाशनानुसारम्)

काण्डनाम प्रकाशनकाल: ग्रन्थस्य पृष्ठसंख्या
१) ब्रह्मचारिकाण्ड: १९४८ २८०
२) गृहस्थकाण्ड: १९४४ ४३५
३) नियतकालकाण्डः १९५० ४८०
४) श्राद्धकाण्ड: १९५० २७९
५) दानकाण्डः १९४१ ३१३
६) व्रतकाण्ड: १९५३ ४६९
७) पूजाकाण्ड:
८) तीर्थकाण्ड: १९४२ २६४
९) प्रायश्चित्तकाण्ड:
१०) शुद्धिकाण्ड: १९५० १८२
११) राजधर्मकाण्डः १९४३ २१२
१२) व्यवहारकाण्डः १९५३ ८३४
१३) शान्तिकाण्ड:
१४) मोक्षकाण्डः १९४५ २६२

लक्ष्मीधरस्य मतानि विवादरत्नाकरे[४८] त्रयोदशस्थलेषु आलोचितानि सन्ति ।

देवणभट्टः

[सम्पादयतु]

दाक्षिणात्यधर्मनिबन्धकारेषु देवणभट्टः प्रमुखं स्थानं धत्ते । सः केशवादित्यभट्टोपाध्यायस्य पुत्र आसीत् । स: याज्ञिक: विशेषतः सोमयाजी चासीदिति ज्ञायते । तस्यापरं नाम भवति देवानन्दः देवगणो वा।

देवणभट्टस्य कृतिषु शुद्धिदीपिका-मिताक्षरा-अपरार्क-स्मृत्यर्थसाराणां मतमुद्धृतत्वाद् देवणभट्ट एतेभ्य: परवर्ती भवेत् । अतस्तस्य काल: ११६० ख्रीष्टाब्दात् परमेव सम्भवेत् । देवणभट्टस्य मतानि भट्टहेमाद्रिः स्वग्रन्थे उद्धरति। अस्मादपि सः १२२५ ख्रीष्टाब्दात् पूर्वं सम्भवेदिति ऐतिहासिकानामभिप्रायः। देवणभट्ट: विज्ञानेश्वरं गुरुत्वपुरस्कारातिशयद्योतकेन विज्ञानेश्वरपादशब्देन निर्दिश्य स्वयं विज्ञानेश्वरस्य प्रायेण शिष्यः प्रशिष्यो वाऽभूदिति सम्भाव्यते ।

देवणभट्टः धर्मशास्त्रे स्मृतिचन्द्रिकाख्यं विशालं धर्मनिबन्धग्रन्थं प्रणीतवान्। अयं च ग्रन्थः जे.आर्. घारपुरेमहोदयानां सम्पादनया प्रथमवारं गवर्नमेण्ट व्राञ्च प्रेस्, महीशूरद्वारा १९१८ ख्रीष्टाब्दे प्रकाशित आसीत्। द्वितीयवारं नागप्रकाशक, दिल्लीद्वारा १९८८ ख्रीष्टाब्दे प्रकाशितोऽस्ति। ग्रन्थेऽस्मिन् षट् काण्डाः सन्ति । ते च यथा

१) संस्कारकाण्डः,

२) आह्निककाण्ड:,

३) व्यवहारकाण्डः,

४) श्राद्धकाण्डः,

५) आशौचकाण्डः,

६) प्रायश्चित्तकाण्डश्च ।

एतेषु षट्काण्डेषु प्रायश्चित्तकाण्डं विहायान्ये काण्डाः प्रकाशिताः सन्ति । परन्तु प्रायश्चित्तकाण्ड: इदानीं यावदप्रकाशितोऽस्ति । प्रकाशितानां पञ्च काण्डानां संक्षिप्तपरिचयः इदानीमुपस्थाप्यते ।

१) संस्कारकाण्ड: - काण्डोऽयं नागप्रकाशनानुसारं २३३ पृष्ठात्मको भवति । अत्र प्रतिपादिताः मुख्यविषयाः यथा - धर्मप्रमाणानि, धर्मस्वरूपनिरूपणम्, देशधर्माः, युगधर्माः, संस्कारपरिभाषा, गर्भाधानं, पुंसवनं, सीमन्तोन्नयनम्, गर्भिणीधर्माः, जातकर्म, नामकरणम्, निष्क्रमणम्, कर्णवेधः, अन्नप्राशनम्, चूडाकरणम्, स्त्रीसंस्काराः, अनुपनीतधर्माः, विद्यारम्भः, उपनयनम् , अग्निकार्यम्,भिक्षाटनमुपवीतधर्माः, अध्ययनविधिः, उपाकरणम्, उत्सर्जनम्, अनध्यायाः, ब्रह्मचर्यकालावधिः, समावर्त्तनं, विवाहः, सापिण्ड्यस्वरूपम्, कन्यालक्षणानि, वरलक्षणानि, कन्यादानकालाः, कन्यादानफलम् , कन्यादातृनिर्णयः, विवाहभेदाश्च।

२) आह्निककाण्ड:- काण्डोऽयं नागप्रकाशनानुसारं ३९८ पृष्ठात्मको भवति। अत्र प्रतिपादिता: मुख्यविषयाः यथा- शौचविधिः, शारीरशौचम्, आचमनविधि:, दन्तधावनविधिः, कुशोत्पाटनविधिः, स्नानप्रशंसा, स्नानभेदाः, नित्यस्नानम्, नैमित्तिकस्नानं, काम्यस्नानं, मलापकर्षणस्नानं, क्रियास्नानं, गौणस्नानं, सन्ध्याविधिः, प्राणायामविधिः, गायत्रीजपविधिः, मुद्राः, होमविधिः, औपवसथ्यनियमाः, अग्न्याधेयविषयः,वेदाभ्यासः,धनार्जनप्रतिग्रहादिनिरूपणम्, आपवृत्तयः, ब्रह्मयज्ञः, तर्पणम्, देवतार्चनम्, पञ्चमहायज्ञाः, वैश्वदेवविधिः, बलिहरणम्, अतिथिपूजा, भोजनविधिः, ग्रहणनियमाः, शयनविधिश्चेति ।

३)व्यवहारकाण्ड:-काण्डोऽयं द्वाभ्यां भागाभ्यां विभक्तः। नागप्रकाशनानुसारमत्र ७७३ पृष्ठा: विद्यन्ते। अत्र प्रतिपादिताः प्रमुखविषयाः यथा प्रथमपरिच्छेदे - व्यवहारस्वरूपम्, अष्टादशपदनिरूपणं, व्यवहारभेदाः, व्यवहारदर्शनविधिः, आसेधविधिः,प्रतिज्ञापादः,उत्तरपाद:, क्रियापादः,लेख्यनिरूपणं, भुक्तिनिरूपणं, साक्षिनिरूपणं, दिव्यनिरूपणं, निर्णयादिकृत्यं चेति। द्वितीयपरिच्छेदे - विवादपदानि, प्रथममृणादानं,तत: क्रमेण निक्षेपः, संभूय समुत्थानं, दत्ताप्रदानिकम्, अभ्युपेत्याशुश्रूषा,वेतनानपाकर्म,अस्वामिविक्रयः, विक्रीयासंप्रदानं, क्रीत्वानुशयः, समयानपाकर्म, क्षेत्रजविवादः, स्त्रीपुंसम्बन्धः, दायविभागः, साहसं, स्तेयं, वाक्पारुष्यं, दण्डपारुष्यं, द्यूतसमाह्वयः, प्रकीर्णकञ्च। ४)श्राद्धकाण्ड:- काण्डोऽयं नागप्रकाशनानुसार ४५२ पृष्ठात्मको भवति। तत्र प्रतिपादिताः मुख्यविषयाः यथा- श्राद्धमहिमा,श्राद्धभेदाः,श्राद्धाधिकारिनिर्णयः, जीवपितृकश्राद्धनिर्णयः, श्राद्धकालाः, अमावास्यापौर्णमासीश्राद्धनिरूपणम्, एकादशीनिर्णयः, मृताहापरिज्ञाने निर्णयः, काम्यश्राद्धकाला:, गौणश्राद्धकाला:, श्राद्धदेशाः, श्राद्धभोजने योग्यब्राह्मणाश्च, श्राद्धपूर्वदिनकृत्यं, श्राद्धदिनकृत्यं, श्राद्धे वर्ण्यद्रव्याणि, अग्नौकरणविधिः, परिवेषणविधिः, पिण्डदानविधिः, पार्वणश्राद्धं, सांवत्सरिकश्राद्धम्, एकोद्दिष्टश्राद्धं, नित्यश्राद्धं, वृद्धिश्राद्धं, कर्माङ्गश्राद्धं, तीर्थश्राद्धञ्चेति।

५)आशौचकाण्ड:- काण्डोऽयं नागप्रकाशनानुसारं २०३ पृष्ठात्मको वर्तते। अत्र प्रतिपादितमुख्यविषयाः यथा-आशौचशब्दार्थः,प्रसवाशौचं, वर्णभेदेनाशौच कालाः,गर्भस्रावाशौचं, सूतिकाशुद्धिः, शावाशौचं, बालमरणाशौचम्, अनुगमनाशौचं, कन्यामरणाशौचं, स्त्रीणामुपरमाशौचं, सन्निपाताशौचम्, आशौचिनियमाः, सहगमनविधिः, शवनिर्हरणदहनविधिः, पिण्डदानविधिः, अस्थिसञ्चयनविधिः, दशमाहकृत्यं, वृषोत्सर्गविधिः, नवश्राद्धानि, षोडश श्राद्धनिरूपणम्, नारायणबलिः, रजस्वला-गर्भिणी-सूतकादीनां मरणेऽशौचं, गयाश्राद्धविधिश्चेति ।

दक्षिणभारतीयन्यायालयेषु स्मृतिचन्द्रिकायाः व्यवहारकाण्डस्य समादर: दृश्यते । दक्षिणभारतीयसदाचारे स्मृतिचन्द्रिकाया: भूयान् प्रभाव: परिलक्ष्यते। स्मृतिचन्द्रिकायां शताधिकानां स्मृति-पुराणादीनां मतान्युपस्थापितानि सन्ति। तत्र मुख्यतः स्मृताः धर्मनिबन्धकाराः यथा - अपरार्क-देवस्वामि-धारेश्वर धूर्तस्वामि- प्रदीप-भवनाथ -धर्मदीप-मनुवृत्ति-मेधातिथि - विज्ञानेश्वर वैजयन्ती- विश्वरूप-श्रीकर- शम्भु - श्रीधर- संग्रहकारादयः।

हेमाद्रिभट्टः

[सम्पादयतु]

दाक्षिणात्यधर्मनिबन्धकारेषु हेमाद्रिः प्रसिद्धश्चान्यतमः। सः वत्ससगोत्रीयः, कामदेवस्य पुत्रः,वासुदेवस्य पौत्रः,वामनदेवस्य प्रपौत्रश्चासीत्। हेमाद्रिः देवगिरि (दौलतावाद) प्रान्तस्य सोमवंशावतंसस्य जैत्रपालदेवतनयस्य यादवमहाराजाधिराजमहादेवचक्रवर्त्तिनो धर्माधिकरणपदं, सर्वश्रीकरणं, सर्वलेखाधिकारिपदं, प्रधानामात्यपदञ्चालंचकार । यादवनृपतेः सभापण्डितः वोपदेव: हेमाद्रेः सखा आश्रितश्चासीत् । वोपदेवः कोष-व्याकरण-काव्य भागवतभाष्य-वैद्यकग्रन्थान् विरचितवान् । दक्षिणभारते प्रसिद्धशास्त्रकाररूपेण मन्दिरनिर्मातृरूपेणापि हेमाद्रिः परिचितः । सोऽपि एक: विचक्षणप्रतिभावान् पण्डित आसीत् । पूर्वमीमांसायामपि तस्य गभीरज्ञानमासीत् ।

यादवनृपतेः महादेवस्य राजत्वकाल: १२६० तः १२७१ ख्रीष्टाब्द पर्यन्तमेव। अत: हेमाद्रेः काल: १२०० तः १२७० पर्यन्तमेव निश्चीयते। स च ११८२ शकाब्दे (१२६० ख्रीष्टाब्दे) समवर्तत ।

हेमाद्रिः एकः प्रसिद्धलेखक आसीत् । तद्विरचित: चतुर्वर्गचिन्तामणि: प्राचीनधर्मनिबन्धकारेषु विश्वकोषरूपेण मन्यते। चतुर्वर्गचिन्तामणि: पञ्चभिः खण्डै: विभक्तः। ते च खण्डाः भवन्ति यथा- १) व्रतखण्डः, २)दानखण्डः, ३)तीर्थखण्ड:,४)मोक्षखण्ड:,५)परिशेषखण्डश्च। यथोक्तं -

‘खण्डानि चास्मिन् व्रतदानतीर्थमोक्षाभिधेयानि क्रमशो भवन्ति।

यत्पञ्चमं तत्परिशेषखण्डमखण्डितो यत्र विभाति धर्मः।। [४९]

परिशेषखण्डोऽपि चतुर्भिः विभागैः विभक्तः। यथा-

देवता-कालनिर्णय कर्मविपाक-लक्षणसमुच्चयखण्डाः।

यथोक्तं मानला -

'तत्रादौ देवताकाण्डं ततः कालविनिर्णयः।

विपाकः कर्मणां पश्चाल्लक्षणानां समुच्चयः॥

महाप्रकरणानीह चत्वार्येतान्यनुक्रमात् ५०॥' [५०]

अस्य ग्रन्थस्य तीर्थ-मोक्षकाण्डौ नाद्यावधि प्रकाशितौ । अन्ये च खण्डा: एसियाटिक सोसाइटि आफ् वेंगल,कलिकताद्वारा प्रथमवारं च प्रकाशिताः। द्वितीयवारं च चौखम्बासंस्कृतसंस्थान, वाराणसीद्वारा पण्डितभरतचन्द्रशिरोमणीनां संपादनया १९८५ ख्रीष्टाब्दे पुन: प्रकाशिताः। तेषां खण्डानां विवरणं यथा -

१) व्रतखण्ड:- चौखम्बासंस्कृतसंस्थानप्रकाशनानुसारमस्मिन् खण्डे ३२ अध्यायाः २३१० पृष्ठाश्च सन्ति । अध्यायानुसारं विषयाः यथा-प्रथमाध्याये परिभाषाप्रकरणम्, द्वितीये-व्रतप्रशंसा, तृतीये-व्रतसामान्यधर्माः, व्रताधिकारिणश्च, चतुर्थपञ्चमयो:-प्रतिपव्रतप्रकरणं, षष्ठे-द्वितीयाव्रतानि, सप्तमे-तृतीयाव्रतानि, अष्टमे-चतुर्थीव्रतानि, नवमे-पञ्चमीव्रतानि, दशमे-षष्ठीव्रतानि, एकादशे सप्तमीव्रतानि, द्वादशे-अष्टमीव्रतानि, त्रयोदशे-नवमीव्रतानि, चतुर्दशे - दशमीव्रतानि, पञ्चदशे-एकादशीव्रतानि, षोडशे-द्वादशीव्रतानि, सप्तदशे त्रयोदशीव्रतानि, अष्टादशे-चतुर्दशीव्रतानि, ऊनविंशे-पौर्णमासीव्रतानि, विंशे अमावास्याव्रतानि, एकविंशे-नानातिथिव्रतानि, द्वाविंशे-वारव्रतानि, त्रयोविंशे नक्षत्रव्रतानि, चतुर्विंशे-योगव्रतानि, पञ्चविंशे-करणव्रतानि, षड्विंशे संक्रान्तिव्रतानि, सप्तविंशे-मासव्रतानि, अष्टाविंशे-नानामासव्रतानि, ऊनत्रिंशे ऋतुव्रतानि, त्रिंशे-संवत्सरव्रतानि, एकत्रिंशे-प्रकीर्णकव्रतानि, द्वात्रिंशे शान्तिकपौष्टिकानि चेति ।

२) दानखण्ड:- चौखम्बा संस्कृत संस्थानप्रकाशनानुसारमस्मिन् खण्डे त्रयोदशाध्यायाः, १०५७ पृष्ठाश्च सन्ति। अत्राध्यायानुसारं विषयाः यथा प्रथमाध्याये दानस्तुति:, द्वितीये दानस्वरूपं, तृतीये दानानामङ्गप्रसङ्गः, दानपरिभाषा च, चतुर्थे दानफलानि, पञ्चमे षोडशमहादानानि, षष्ठे अखर्वपर्वतदानविधिः, सप्तमे अतिदानविधिः, अष्टमे दशमहादानानि, नवमे गजरथगृहमठकन्यादि दानविधि:, दशमे कृष्णाजिनमृगमहिषीमेषदानविधिः, एकादशे देवतादानानि, द्वादशे कालविशेषेण दानविशेषाः, तिथि-वार-नक्षत्र-योग-करण-मास-ऋतु संवत्सरेषु दानानि,त्रयोदशे अनन्तकलदानानि च। गाना

३. परिशेषखण्ड:- चौखम्बाप्रकाशनानुसारमस्मिन् खण्डे विभागत्रयं विद्यते । यथा-

क) श्राद्धकाण्डः,ख) कालनिर्णयकाण्ड:,ग) प्रायश्चित्तकाण्डश्च ।

क) श्राद्धकाण्ड: - अयं काण्ड: पण्डितयज्ञेश्वरस्मृतिरत्न - पण्डितकामाख्यानाथ तर्कवागीशाभ्यां संपादितः। चौखम्बाप्रकाशनानुसारमत्र पञ्चविंशाध्यायाः, १७१० पृष्ठाश्च सन्ति। तत्राध्यायानुसारं विषया: यथा- प्रथमाध्याये- श्राद्धविधिफलप्रशंसा प्रकरणं, द्वितीये - पितृनिरूपणप्रकरणम्, तृतीये- देवतानिर्णयप्रकरणम्, चतुर्थेश्राद्धदेशकथनप्रकरणम. पञ्चमे- श्राद्धकालनिर्णयप्रकरणम. षष्ठे-ब्राह्मणनिरूपणम सप्तमे- उपासनीयनिरूपणप्रकरणानि, अष्टमे- प्रक्षेप्यद्रव्यनिरूपणप्रकरणम्, नवमे श्राद्धोपकरणानि, दशमे-परिभाषाप्रकरणम्, एकादशे- निमन्त्रणप्रकरणम्, द्वादशे श्राद्धदिनपूर्वाह्नकृत्यम्, त्रयोदशे- श्राद्धदिनापराह्णकृत्यं, चतुर्दशे- परिवेषणादि प्रकरणम्, पञ्चदशे-पिण्डदानप्रकरणम्, षोडशे- पितृप्रोक्षितादिपदार्थनिरूपणम्, सप्तदशे-वृद्धिश्राद्धप्रयोगप्रकरणम्, अष्टादशे-नित्यश्राद्धप्रयोगप्रकरणम्, ऊनविंशे तीर्थश्राद्धप्रकरणम्, विशे-प्रेततृप्तिकरश्राद्धादीनां प्रयोगप्रकरणम्, एकविंशे सपिण्डीकरणश्राद्धप्रकरणम्, द्वाविंशे-सांवत्सरिकश्राद्धप्रयोगः, त्रयोविंशे अपरपक्षश्राद्धप्रयोगप्रकरणम्, चतुर्विंशे-संन्यासाङ्गश्राद्धप्रयोगप्रकरणम्, पञ्चविंशे जीवच्छ्राद्धप्रयोगप्रकरणं चेति ।

ख) कालनिर्णयकाण्ड:-अयं भाग: यज्ञेश्वरस्मृतिरत्न-कामाख्यानाथतर्कवागी शाभ्यां संपादितः। चौखम्बासंस्करणानुसारमत्र अष्टादशाध्यायाः, ९२४ पृष्ठाश्च सन्ति । अत्राध्यायानुसारं प्रतिपादितविषयाः यथा प्रथमाध्याये- संवत्सरायन मासविशेषाणां कार्यविशेषप्रयोगनिरूपणम्, द्वितीये-मलमासनिर्णयः, तृतीये सामान्यतः सर्वतिथिनिर्णयः, चतुर्थे- व्रतविशेषेण तिथिविशेषनिर्णयः, पञ्चमे जन्माष्टमीनिर्णयः, षष्ठे-एकादशीनिर्णयः, सप्तमे-द्वादशीनिर्णयः, अष्टमे पर्वसन्धिकालनिर्णयः, नवमे- ग्रहणकालनिर्णयः, दशमे- उपाकर्मकालनिर्णयः, एकादशे- संक्रान्तिनिर्णयः, द्वादशे- श्राद्धकालनिर्णयः, त्रयोदशे-प्रतिपत्प्रभृति क्रमेण पुण्यतिथयः, चतुर्दशे-नक्षत्रयुक्ततिथिनिर्णयः, पञ्चदशे-प्रतिष्ठाकालनिर्णयः, षोडशे- दीक्षाकालः, सप्तदशे-नैमित्तिकादि देवतापूजा, अष्टादशे- विष्णुनामकीर्तने कालविशेषश्चेति ।

ग) प्रायश्चित्तकाण्ड:-ग्रन्थोऽयं प्रथमवारं प्रमथनाथतर्कभूषणेन १९११ ख्रीष्टाब्दे संपादितः , एसियाटिक सोसाइटि आफ् वेंगल, कलिकताद्वारा प्रकाशितश्च । द्वितीयवारं च पण्डितकामाख्यानाथतर्कवागीशमहोदयेन संपादितः, १९८५ ख्रीष्टाब्दे चौखम्बा संस्कृत संस्थान, वाराणसीद्वारा प्रकाशितश्च। अस्मिन् ग्रन्थे १०२५ पृष्ठाश्च विद्यन्ते। तत्र प्रतिपादिताः प्रमुखविषयाः यथा- सामान्यप्रकरणम्, ब्रह्महत्याप्रकरणम्, शूद्रवधप्रायश्चित्तं, सुरापानप्रायश्चित्तं, स्तेयप्रायश्चित्तं, तत्संसर्गप्रायश्चित्तम्, उपपातकप्रायश्चित्तम्, अगम्यागमनप्रायश्चित्तम्, अभक्ष्यभक्षण प्रायश्चित्तम्, प्रकीर्णप्रायश्चित्तम्, देशान्तरमरणप्रायश्चित्तम्, असत्प्रतिग्रह प्रायश्चित्तम्, पतितप्रायश्चित्तम्,चान्द्रायणकृच्छ्रसान्तपनादिलक्षणानि चेति।

चतुर्वर्गचिन्तामणिं विहाय हेमाद्रिरन्यान् कांश्चन ग्रन्थानपि विरचितवान्। ते भवन्ति यथा- १)शौनकसूत्रे प्रणवकल्पभाष्यं, २) कात्यायननियमानुकूल: श्राद्धकल्पः, ३)वोपदेवस्य मुक्ताफलोपरि कैवल्यदीपिकाटीका, ४) वाग्भट्ट स्याष्टाङ्गहृदये आयुर्वेदरसायनटीका च । ।

चतुर्वर्गचिन्तामणौ हेमाद्रिः स्मृति- धर्मसूत्र- पुराणान्यतिरिच्य बहूनां धर्मनिबन्धकाराणां मतान्यपि उद्धरति । तेषु प्रमुखाः भवन्ति यथा- अपरार्क कर्कोपाध्याय-गोविन्दराज-देवस्वामि-मेधातिथि-विश्वरूप-शङ्खधर-शम्भु शिवदत्त-श्रीधर-सोमदेव-देवणभट्ट-हरिहरादयश्च।

कुल्लूकभट्टः

[सम्पादयतु]

वङ्गीयधर्मनिबन्धकारेषु कुल्लकभट्टोऽन्यतमः । स: वरेन्द्रपरिवारोत्पन्नस्य भट्टदिवाकरस्य पुत्र आसीत् । स: गौडदेशस्य[५१] नन्दनग्रामवास्तव्यश्चासीत् । स: स्वपाण्डित्यप्रकाशार्थं काशी प्रत्यागतवान् । तत्र स्थित्वा विदुषां पुरस्तात् ग्रन्थान् विरचितवान् । काल:- कुल्लूकभट्टः भोजदेव-गोविन्दराज-कल्पतरु-हलायुधप्रभृतीनां ग्रन्थानुद्धरति । अतोऽस्य

१२०० ख्रीष्टाब्दात् परमेव स्थापयितुं शक्यते। रघुनन्दनस्य व्यवहारतत्त्वे, दायतत्त्वे, वर्धमानस्य दण्डविवेके, गोविन्दानन्दस्य श्राद्धक्रियाकौमुद्यां, चण्डेश्वरस्य राजनीतिरत्नाकरे कुल्लूकभट्टमतमुद्धृतत्वात् सोऽवश्यं १२०० तः १३०० ख्रीष्टाब्दमध्येऽजायत ।

कुल्लूकभट्टः मनुस्मृतौ मन्वर्थमुक्तावलिटीका प्रणीतवान् । मनुटीकासु इयं मन्वर्थमुक्तावली सर्वश्रेष्ठा भवति । मन्वर्थमुक्तावलीटीका संक्षिप्ता, स्पष्टा, उद्देश्यपूर्णा च भवति । अस्य प्रथमप्रकाशनं १९०९ ख्रीष्टाब्दे निर्णयसागरप्रेस्, बम्बेद्वारा सञ्जातम् । एतदतिरिच्य सः स्मृतिसागरनामकं धर्मनिबन्धग्रन्थं विरचितवान् । अस्मिन् ग्रन्थेऽशौचसागर - विवादसागर - श्राद्धसागरनाम्ना भागत्रयं विद्यते। सः स्वयमुल्लिखति यत् स्वपितुरादेशानुसारं स एतान् त्रीन् ग्रन्थान् स्मृतिसागरनाम्ना लिखितवान् । श्राद्धसागरे प्रतिपादिता: मुख्यविषयाः यथा- श्राद्धस्य संज्ञा, याग-दान-होमाश्च, श्राद्धभेदा:, नित्यनैमित्तिकश्राद्धानि, श्राद्धदेशः, श्राद्धकाला:, श्राद्धीयद्रव्याणि, देवताश्च, श्राद्धे निमन्त्रणविधिः, श्राद्धयोग्या: ब्राह्मणाश्च।

कुल्लूकभट्टः स्वकृतौ स्मृति-धर्मसूत्र-पुराणान्यतिरिच्यान्येषां बहूनां धर्मनिबन्धकाराणां मतान्युद्धरति। ते भवन्ति यथा- भोजदेव- हलायुध-जिकन कामधेनु- मेधातिथि- शङ्खधर- गोविन्दराज- धरणीधर- भास्कर- वामन विश्वरूपाश्च ।

निबन्धग्रन्थेषु कुल्लूकस्य मतानि ससम्मानमुद्धृतानि सन्ति । रघुनन्दनस्य व्यवहारतत्त्वे[५२], दायतत्त्वे[५३] च, वर्द्धमानस्य दानविवेके, श्रीनाथस्य दायभाग टीकायां, गोविन्दानन्दस्य श्राद्धक्रियाकौमुद्यां, चण्डेश्वरस्य राजनीतिरत्नाकरे[५४] च कुल्लूकस्य मतान्युट्टङ्कितानि सन्ति। कुल्लूकस्य कृतिषु पूर्वमीमांसायाः तत्त्वं बहुत्र सन्निविष्टमस्ति ।

शम्भुकरमिश्रवाजपेयी

[सम्पादयतु]

शम्भुकरमिश्रवाजपेयी शुक्लयजुर्वेदीयः, काण्वशाखाध्यायी, भारद्वाजगोत्रीयः, उत्कलीयश्चासीत् । विद्याकरवाजपेयिनः क्रमदीपिकानुसारं शम्भुकरमिश्रवाजपेयी गंगवंशोद्भवस्य नरसिंहदेवस्य समसामयिक आसीत्। श्रीनरसिंहदेवस्य (द्वितीय) राजत्वकालेऽसौ शम्भुकर: तच्छासने स्थातुमनिच्छन् काशीक्षेत्रं जगाम । शम्भुकर: उत्कलनरपते: श्रीनरसिंहदेवस्य सकाशाद् ब्राह्मणशासनमेकं प्राप्तवान् ।

नरसिंहदेवस्य राजत्वकाल: १२७८ ख्रीष्टाब्दतः १३०६ पर्यन्तमेव स्वीक्रियते। ऐतिहासिकानां मतानुसारमसौ १२६० तः १३३० ख्रीष्टाब्दपर्यन्तं वर्तमान आसीत् । स चोत्कलप्रान्तस्य पुरीमण्डलान्तर्गत - दाण्डमुकुन्दपुरवास्तव्य आसीत्।

शम्भुकरस्य प्रमुखकृतयो भवन्ति यथा-१)श्राद्धपद्धतिः,२) विवाहपद्धतिः। एतद्ग्रन्थद्वयमुत्कललिप्या प्रकाशितमस्ति । ३) स्मार्त्तरत्नावली, ४) शम्भुकरपद्धतिश्च। शम्भुकरपद्धतावनेके खण्डाः सन्ति । येषु वैदिकविषयाः पद्धतिनाम्ना प्रतिपादिताः सन्ति । ते खण्डा: यथा -

क) श्रौताधानपद्धतिः, ख) अग्निहोत्रहोमपद्धतिः, मकर ग) अग्निहोत्रहोमप्रायश्चित्तपद्धतिः, घ) दर्शपौर्णमासेष्टिपद्धतिः, ङ) निरूढपशुबन्धपद्धतिः, च) दुर्बलकर्मपद्धतिश्च।

शम्भुकरस्य मतानि सर्वैरुत्कलीयधर्मनिबन्धुभिरुद्धृतानि सन्ति।

विद्याकरमिश्रवाजपेयी

[सम्पादयतु]

उत्कलीयस्मृतिनिबन्धकारेषु स्वनामधन्यः विद्याकरमिश्रवाजपेयी शम्भुकरमिश्रवाजपेयिन: सुपुत्र आसीत्। यदा शम्भुकर: काशीक्षेत्रं जगाम, तदा विद्याकरोऽपि पित्रा सह काशी गतवान् । स च काण्वशाखाध्यायी भरद्वाजगोत्रीयश्चासीत्।

नरसिंहदेवस्य(द्वितीय) राजत्वकाल: १२७९ त: १३०६ ख्रीष्टाब्दपर्यन्त मेवैतिहासिकै: स्वीक्रियते । विद्याकरपद्धति: रघुनन्दनभट्टाचार्य-मदनपारिजाताभ्या मुद्धतत्वाद् विद्याकरोऽवश्यं १३६० तः पूर्वमेवासीदिति अनुमीयते । तद्गोत्रीयाः तस्य वंशजाश्चेदानीमपि पुरीसमीपस्थ-दाण्डमुकुन्दपुरग्रामे निवसन्ति । शम्भुकरस्य पुत्र: विद्याकरोऽपि स्वविरचिते क्रमदीपिकाग्रन्थे नरसिंहदेवनृपतेः राजत्वकालं सूचयति । य: तृतीयनरसिंहदेवत्वेन स्वीक्रियते । अस्य च राजत्वकाल: १३२८ त: १३५३ ख्रीष्टाब्दपर्यन्तं स्वीक्रियते। अत ऐतिहासिका: केदारनाथमहापात्र महोदया: शम्भुकर-विद्याकरयोरानुमानिककालमेवमुपस्थापयन्ति।

१) शम्भुकरस्य जन्म - १२६० ख्रीष्टाब्देऽभवत् ।

२) विद्याकरस्य जन्म - १२८५ ख्रीष्टाब्देऽभवत् ।

३) स्वपुत्रेण विद्याकरेण साकं १२९२ ख्रीष्टाब्दे शम्भुकर: काशी प्रति गतवान्।

४) काश्यां विद्याकरस्य स्थिति:-१२९२ त:१३२२ ख्रीष्टाब्दपर्यन्तं (त्रिंशद्वर्षाणि)

५) शम्भुकरस्य मृत्युः - १३३० ख्रीष्टाब्दे काश्यामेवाजायत ।।

६) विद्याकरस्य मृत्युः - १३५० ख्रीष्टाब्दे उत्कलभूमावेवाजायत ।

सम्राडग्निचित्सूर्यदाशसोमयाजिनः पुत्रः रामचन्द्रवाजपेयी नैमिषारण्य निवासी विद्याकरवाजपेयिन: शिष्य आसीत् । गाल कृतयः - विद्याकरस्य चतस्रः कृतयः उपलभ्यन्ते । ता: यथा -

१) नित्याचार पद्धतिः अथवा विद्याकरपद्धतिः - ग्रन्थोऽयं एसियाटिक सोसाइटि अफ वेंगल, कलिकताद्वारा १९०१-१९०३ ख्रीष्टाब्दमध्ये प्रकाशिता।

२) क्रमदीपिका,

३) दिनकृत्यदीपिका,

४)मोक्षपरीक्षा च ।

मदनपारिजाते, रघुनन्दनस्य संस्कारतत्त्व- प्रायश्चित्ततत्त्व- एकादशीतत्त्व देवप्रतिष्ठातत्त्व- आह्निकतत्त्व- शुद्धितत्त्व- तिथितत्त्व- छन्दोगवृषोत्सर्गतत्त्व ज्योतिस्तत्त्वेषु, दिव्यसिंहमहापात्रस्य श्राद्धदीपे, नरसिंहमिश्रवाजपेयिनः नित्याचारप्रदीये, विश्वनाथमिश्रस्य स्मृतिसारसंग्रहे, बृहस्पतेः कृत्यकौमुद्या, गदाधरराजगुरोः कालसार- आचारसार- शुद्धिसार-व्रतसार- दानसारादिषु सर्वेषु चोत्कलीयधर्मनिबन्धेषु विद्याकरस्य मतान्युद्धृतानि सन्ति ।

श्रीदत्तोपाध्यायः

[सम्पादयतु]

मैथिलधर्मनिबन्धकारेषु श्रीदत्तोपाध्यायोऽतीवप्राचीनः। असौ शुक्लयजुर्वेदानुयायी आसीत् ।

श्रीदत्तस्य काल: त्रयोदशशतक एव निश्चीयते । परन्तु तस्य साहित्यिक काल: १२७५ ख्रीष्टाब्दात् १३१० ख्रीष्टाब्दमध्य एव स्थिरीक्रियते।

श्रीदत्तस्य प्रथमाकृतिर्भवति आचारादर्शः। ग्रन्थोऽयमाचारादर्शबोधिनी टीकया साकं प्रथमवारं दिवाकर प्रेस् , वनारसद्वारा, द्वितीयवारं च वेङ्कटेश्वरष्टीम् प्रेस्, बम्बेद्वारा १९०४ ख्रीष्टाब्दे प्रकाशितोऽस्ति ।आचारादर्शग्रन्थे आह्निकधार्मिककृत्यानां वर्णनं भवति। ग्रन्थोऽयं यजुर्वेदस्य वाजसनेयिनां कृते प्रणीतः। ग्रन्थेऽस्मिन् आचारचिन्तामणि -कृत्यकल्पतरु -कामधेनु - भोजदेव हलायुधप्रभृतीनामुद्धरणानि दृश्यन्ते। आचारादर्शग्रन्थे मैथिलदामोदरस्य पुत्रः गौरीपतिः आचारादर्शबोधिनीटीका, हरिलालश्च आचारदीपिकाटीका विरचितवन्तौ। तस्य द्वितीयग्रन्थो भवति छन्दोगाह्निकम् । अयं च ग्रन्थः सामवेदिनां कृते लिखितोऽस्ति। छन्दोगाह्निकं १९३० ख्रीष्टाब्दे निर्णयसागर प्रेस्, बम्बेद्वारा मुद्रितमस्ति। अस्योपक्रमणिकायां स: स्मृति- पुराण- धर्मनिबन्धप्रभृतीनां विषये वर्णयति। अत्र महाभारत- कर्मप्रदीप- कामधेनु- कृत्यकल्पतरु नरसिंहपुराण- देवीपुराण- पद्मपुराण- ब्रह्मपुराण- भविष्यपुराण- मार्कण्डेयपुराण मत्स्यपुराण-वामनपुराण-लिङ्गपुराण-वराहपुराण- विष्णुपुराण- शंखस्मृति महार्णव-प्रकाश - मिताक्षरा - स्मृतिमञ्जरीप्रभृतीनां प्रमाणवचनानि संकलितानि सन्ति ।

तस्य तृतीयग्रन्थो भवति पितृभक्तिः। अयं च ग्रन्थः यजुर्वेदिनां कृते प्रणीतोऽस्ति। अत्र श्राद्धसम्बन्धिनः विषयाः विवेचिता: सन्ति। अत्र कातीयकल्प गोपाल- कल्पतरु- हलायुधप्रभृतीनां नामानि लिखितानि सन्ति । पञ्चदशशतकीय: मुरारि: ग्रन्थेऽस्मिन् टीकां कृतवान् । तस्य चतुर्थग्रन्थो भवति श्राद्धकल्पः। पञ्चमग्रन्थो भवति समयप्रदीपः। ग्रन्थेऽस्मिन् परिच्छेदत्रयं विद्यते। ते परिच्छेदाः भवन्ति यथा-१) समयपरिच्छेदः, २) सम्वत्सरकृत्यपरिच्छेदः, ३) प्रकीर्णकपरिच्छेदश्च। समयप्रदीयः एसियाटिक सोसाइटी आफ् वेंगल, कलिकताद्वारा १९७१ ख्रीष्टाब्दे प्रकाशितोऽस्ति ।

हरिनाथ:

[सम्पादयतु]

मैथिलधर्मनिबन्धसंप्रदाये हरिनाथोऽन्यतमः। हरिनाथस्य व्यक्तिगत परिचयोऽधिकं किञ्चिन्न प्राप्यते । तथापि सः स्वग्रन्थस्यान्तिमे स्वयमात्मानं महामहोपाध्यायरूपेण सूचयति।

हरिनाथ: स्वग्रन्थे स्मृतिसारे कल्पतरुकारं हरिहरञ्चोद्धरति । अत: हरिनाथस्य काल: १२५० ख्रीष्टाब्दात् परमेव सम्भवेत् । तत्कृतस्य विवादसारस्य प्रतिलिपिः १५५८ ख्रीष्टाब्देऽभवदिति ज्ञायते । भारतसर्वकारीयकार्यालये, नवदहेल्यां स्थापितस्य स्मृतिसारस्य विवादखण्डस्यान्ते संवत् १६१४ अर्थात् १५५८ ख्रीष्टाब्दः प्रतिलिपिकालत्वेन उल्लिखितोऽस्ति । पुनश्चान्यस्मिन् खण्डे प्रतिलिपिकाल: लक्ष्मणसंवत् ३६९ अर्थात् १४६९-१४७० ख्रीष्टाब्द उल्लिखितोऽस्ति । शूलपाणि: दुर्गोत्सवविवेके, मिसरुमिश्रः विवादचन्द्रे, रघुनन्दनः स्मृतितत्त्वे, रुद्रधरः श्राद्धविवेके, वाचस्पतिमिश्रः विवादचिन्तामणौ च स्मृतिसारस्य मतान्युद्धरन्ति । अतः हरिनाथस्य काल: १३०० तः १४०० ख्रीष्टाब्दमध्य एव स्थिरीक्रियते ।

हरिनाथः स्मृतिसारग्रन्थं विरचितवान् । यद्यपि ग्रन्थेऽस्मिन् अनेके भागा: आसन्, तथापि नाद्यावधि ग्रन्थस्य कोऽप्यंश: प्रकाशं नीतः। विवादसारस्य हस्तलिखितप्रतिलिपिद्वयं भारतसर्वकारीयकार्यालये दहेल्या सुरक्षितं विद्यते। अंत्र दायविभागयोः शब्दार्थः, पितृधनविभागकालाः, विभागेऽनधिकारिणः, अविभक्तधनं, स्त्रीधनं, पुत्रभेदाः, अपुत्रधनग्रहणक्रमश्चेत्यादयोऽनेके विषयाः प्रतिपादिताः सन्ति ।

ग्रन्थेऽस्मिन् कर्मप्रदीप-कल्पतरु-कामधेनु-गणेश्वरमिश्र-विज्ञानेश्वर स्मृतिमञ्जरीप्रभृतीनां ग्रन्थकाराणां ग्रन्थानाञ्च नामान्युद्धृतानि सन्ति।

माधवाचार्य:

[सम्पादयतु]

दाक्षिणात्यप्रसिद्धधर्मनिबन्धकारेषु माधवाचार्यः महत्त्वपूर्ण स्थानं धारयति । तस्य पितुः नाम मायणः, मातुश्च नाम श्रीमती आसीत् । तस्य द्वौ कनिष्ठभ्रातरावास्ताम्। यथा - सायणः, भोगनाथश्च। सर्वेषु भ्रातृषु माधवाचार्य: श्रेष्ठ आसीत् । असौ कृष्णयजुर्वेदीयः बौधायनशाखानुयायी भरद्वाजगोत्रीयः ब्राह्मणश्चासीत् । विद्यातीर्थ - भारतीतीर्थ - श्रीकराश्च तस्य गुरव आसन्। माधवाचार्य: राज्ञः बुक्कणस्य वंशानुक्रमिकः कुलगुरुरमात्यश्चासीत् । परवर्त्तिनि काले सोऽपि तस्य राज्ञः प्रधानमन्त्री अवर्तत। माधवाचार्यः प्रकाण्ड: विद्वान् दूरदर्शी, राजनीतिज्ञः, कुशली, अहोरात्रमुत्तमकार्येषु संलग्नश्चासीत् ।

शिलालेखाज्ज्ञायते यत् माधवाचार्य: १३७८ ख्रीष्टाब्दे वृद्धावस्थायां संन्यासं विद्यारण्योपाधिं च गृहीतवान् । माधवाचार्यः नवतिवर्षवयसि १३८६ ख्रीष्टाब्दे शरीरत्यागमकरोत् । माधवाचार्यस्य साहित्यिककाल: १३३० तः १३८५ ख्रीष्टाब्दमध्य एव स्वीक्रियते । दक्षिणभारतस्य विजयनगरप्रान्ते राजा बुक्कण: बहुकालं यावच्छासनं कृतवान् । माधवाचार्य: बहुषु युद्धक्षेत्रेषु प्रबलयुद्धमपि कृतवान्। अस्य कनिष्ठभ्राता सायणाचार्यः सर्वेषां चतुर्णां वेदानां ब्राह्मण ग्रन्थानामारण्यकानाञ्च भाष्याणि प्रणीतवान् ।

माधवाचार्यस्य प्रथमा कृतिर्भवति जीवन्मुक्तिविवेकः । ग्रन्थोऽयं जीवात्मनः मुक्तिविषये बहून् विचारान् क्रोडीकरोति । द्वितीयग्रन्थो भवति पराशरमाधवीयः। अयं ग्रन्थः पराशरस्मृतेः टीकारूपो भवति । पराशरमाधवीये माधवाचार्य: व्यवहारभागनाम्ना कमप्यंशं संयोजयति । अयं ग्रन्थः बहुवारं प्रकाशितोऽस्ति। प्रथमत: जीवानन्दसंस्करणे, द्वितीयवारं बम्बेप्रान्ते वेङ्कटेश्वर ष्टीम् प्रेसमध्ये, तृतीयवारं च एसियाटिक सोसाइटि आफ् वेंगल, कलिकताद्वारा द्वाभ्यां भागाभ्यां १९७३ ख्रीष्टाब्दे प्रकाशितोऽस्ति । अयं ग्रन्थः दक्षिणभारतीय न्यायालयेषु प्रामाणिकत्वेनाद्यावधि व्यवह्रियते ।

माधवाचार्यस्यापरा कृतिर्भवति कालनिर्णय: कालमाधवो वा । पराशर माधवीयग्रन्थस्य प्रणयनानन्तरं माधवाचार्य: कालमाधवं प्रणीतवानिति सः स्वयं कथयति । ग्रन्थोऽयं पञ्चभिः प्रकरणैः विभक्तोऽस्ति । प्रथमप्रकरणं भवति उपोद्धातप्रकरणं, द्वितीयं संवत्सरप्रकरणं, तृतीयं प्रतिपत्प्रकरणं, चतुर्थं द्वितीयादितिथिप्रकरणं, पञ्चमं च भवति प्रकीर्णकप्रकरणम् । अयं ग्रन्थः १८८९ ख्रीष्टाब्दे एसियाटिक सोसाइटि आफ् वेंगल, कलिकताद्वारा, १९३६ ख्रीष्टाब्दे वाराणसी संस्कृत सिरिजद्वारा, तदनु वेङ्कटेश्वर ष्टीम् प्रेस् कल्याण मुम्बईद्वारा, ततश्च चौखम्बा संस्कृत विद्याभवन, वनारसद्वारा डा. व्रजकिशोरस्वाईमहोदयानां सम्पादनया १९९५ ख्रीष्टाब्दे प्रकाशितो वर्त्तते। एतदतिरिक्तं माधवाचार्यस्यान्या: काश्चन कृतयोऽपि दृष्टिपथमायान्ति। ताश्च यथा -

१) पञ्चदशी,

२) जैमिनीयन्यायमालाविस्तरः,

३) वैयासिकन्यायमाला,

४) सर्वदर्शनसंग्रहः,

५) माधवीयधातुवृत्तिश्च ।

चण्डेश्वरठाकुरः

[सम्पादयतु]

मैथिलधर्मनिबन्धकारेषु चण्डेश्वरस्य स्थानमत्युच्चं विद्यते। तस्य पितुः नाम वीरेश्वरः, पितामहस्य नाम देवादित्यश्चासीत् । देवादित्यः कर्णाटक वास्तव्य आसीत् । असौ तिरहुतहरिसिंहदेवस्य सान्धिविग्रहिकामात्योऽवर्तत। तस्मात् कालात् प्रागसौ प्राड्विवाकरूपेणापि कार्य निर्वाहयति स्म। चण्डेश्वरः मैथिलनरेशस्य भवेशस्य राजत्वकाले प्रधानन्यायाधीशत्वेन सान्धिविग्रहिक मन्त्रित्वेन च वर्तमान आसीत् । स च १३१४ ख्रीष्टाब्दे नेपालं स्वीयकौशलेन विजित्य राज्ञाऽभिनन्दित आसीत्।

चण्डेश्वरस्य काल: चतुर्दशशतकस्य प्रथमार्द्ध एव ऐतिहासिकैः मन्यते। वीरसिंहदेवस्य राजत्वकालानुसारमयमेव काल: युक्तियुक्त: मन्यते। चण्डेश्वरः वाग्मतीनदीतीरे १३१५ ख्रीष्टाब्दे तुलापुरुषदानं कृतवानिति विवादरत्नाकरग्रन्थस्यान्तिमपद्ये लिखितमस्ति ।

चण्डेश्वरकृत: स्मृतिरत्नाकरग्रन्थः धर्मशास्त्रवाङ्मये महत्त्वपूर्ण स्थानं धारयति। तत्र सप्त विभागाः सन्ति । ते च विभागाः भवन्ति यथा- विवाद रत्नाकरः , गृहस्थरत्नाकरः , शुद्धिरत्नाकरः , पूजारत्नाकरः , दानरत्नाकरः , कृत्यरत्नाकरः, राजनीतिरत्नाकरश्च । एतदतिरिक्तं सः कृत्यचिन्तामणि, दानवाक्यावलिं, शिववाक्यावलिं च प्रणीतवान्। कृत्यचिन्तामणिग्रन्थः ज्योति:शास्त्रीयविषयानुपजीव्य लिखितोऽस्ति। स्मृतिरत्नाकरग्रन्थ: एसियाटिक् सोसाइटि अफ वेंगल, कलिकताद्वारा १९२१- १९३१ ख्रीष्टाब्दमध्ये प्रकाशितोऽस्ति। विवादरत्नाकरः वि.आइ. सिरिजमध्ये १८८७ ख्रीष्टाब्दे प्रथमवारं, १९३१ ख्रीष्टाब्दे एसियाटिक सोसाइटि अफ वेंगल, कलिकताद्वारा कमलकृष्ण स्मृतितीर्थमहोदयानां सम्पादनया द्वितीयवारं प्रकाशितः। राजनीतिरत्नाकर: पृथक्पेण के.पि. ज्यायसवालमहोदयद्वारा पाटानग· १९२४ ख्रीष्टाब्दे प्रकाशितः। पुनरिं चौखम्बा संस्कृत सिरिज, वाराणसीद्वारा १९७० ख्रीष्टाब्दे ग्रन्थोऽयं प्रकाशितः। चण्डेश्वरः ग्रन्थमिमं मैथिलनृपतेः भवेशस्याज्ञया लिखितवानिति अवसीयते ।

राजनीतिरत्नाकरे षोडशतरङ्गाः सन्ति। अत्र राज्यशासनसम्बन्धिन: विषयाः विवृताः दृश्यन्ते । कृत्यरत्नाकरग्रन्थे द्वाविंशतितरङ्गाः सन्ति । अत्र संवत्सरमध्ये पालितानां कृत्यानां विषये आलोचिता वर्त्तते । गृहस्थरत्नाकरेऽष्टषष्टितरङ्गाः सन्ति। अत्र सर्वाणि गृहस्थकृत्यानि पुङ्खानुपुखं वर्णितानि भवन्ति। गृहस्थरत्नाकर: ५९१ पृष्ठात्मक: विशालग्रन्थोऽस्ति । दानरत्नाकरग्रन्थे २९ तरङ्गाः सन्ति । अत्र दानशब्दार्थः, दानयोग्यवस्तूनि, दानाधिकारिणः, महादानानि, दानविधानानि, भूमि - गो- सुवर्ण - कन्याप्रभृतीनि महत्त्वपूर्णानि दानानि प्रतिपादितानि सन्ति। विवादरत्नाकरे एकशततरङ्गाः सन्ति। तत्राष्टादशविवादपदानि सूक्ष्मातिसूक्ष्म वर्णितानि सन्ति । शुद्धिरत्नाकरग्रन्थे ३४ तरङ्गाः सन्ति। अत्र जननमरणाशौचं, सपिण्डशब्दार्थः, बालाशौचं, सद्य:शौचं, प्रवासमरणाशौचं, रजस्वलाशौचं, पर्णनरदाहः, द्रव्यशुद्धिरित्यादयः विषया: प्रतिपादिता: सन्ति। कृत्यचिन्तामणिग्रन्थे गर्भाधान- सीमन्तोन्नयन- जातकर्म - नामकरणादय: संस्कारा: वर्णिता: भवन्ति।

अत्र च प्रकरणानि प्रकाशनाम्ना कथितानि सन्ति । चण्डेश्वरस्य कृतयः मिसरुमिश्र - वर्धमान - वाचस्पतिमिश्र- मित्रमिश्र - रघुनन्दनादिभिः वंगीय मैथिलधर्मनिबन्धृभिरुट्टङ्किताः सन्ति। ४.४०. मदनपाल:,विश्वेश्वरभट्टश्च परिचय:- विश्वेश्वरभट्टः कौशिकंगोत्रीयस्य पेदीभट्टस्य पुत्र आसीत् । तस्य मातुः नाम अम्बिका । सः व्यासारण्यशिष्य आसीत् । मूलतः सः द्राविडदेशनिवासी आसीत् । घारपुरेमहोदयानां मतानुसारं स: अप्पभट्टस्य पुत्र आसीत् । सुबोधिनीटीकायाः रचनानन्तरं विश्वेश्वरभट्टः उत्तरभारतं प्रति आगतवान् । विश्वेश्वरः राज्ञः मदनपालस्य आश्रयेण तस्य कृतिं विरचितवान् ।

राजा मदनपाल: दिल्लीसमीपस्थ-यमुनानदीं निकषा काष्ठा (कठ) राजवंशे जनि लब्धवान् । अत: मदनपाल-विश्वेश्वरभट्टयोः कालः प्राय: १३०० तः १४०० ख्रीष्टाब्दमध्ये सम्भवेत् । मदनपारिजातग्रन्थे स्मृतिचन्द्रिकाकारस्य देवणभट्टस्य, हेमाद्रेश्च मतान्युद्धृतानि सन्ति । अत: मदनपालस्य काल: १३०० ख्रीष्टाब्दात् परमेव सम्भवेत् । मदनपारिजातस्य मतानि रघुनन्दनस्य स्मृतितत्त्वे उद्धृतानि सन्ति । अत: मदनपालस्य काल: १४०० ख्रीष्टाब्दात् परं न सम्भाव्यते। मदनपालकृतेः सूर्यसिद्धान्तविवेकस्य प्रतिलिपिः १४०२-०३ ख्रीष्टाब्दे कृताऽस्ति। तत्कृतमदनविनोदनिघण्टुग्रन्थस्य प्रणयनकालोऽपि ८-१-१३७५ ख्रीष्टाब्द आसीदिति तत्कृतेरनुशीलनाज्ज्ञायते। अत: मदनपालस्य विश्वेश्वरभट्टस्य कालश्च १३००-१४०० ख्रीष्टाब्दमध्य एव स्थिरीकर्तुं शक्यते ।

विश्वेश्वरभट्टः मदनपालस्याश्रयेणावर्त्तत । अत: विश्वेश्वरः मदनपालनाम्ना कांश्चन ग्रन्थान् विरचितवान् । मदनपालनाम्ना उपलब्धाः ग्रन्थाः भवन्ति यथा -

१) मदनपारिजात:- अयं ग्रन्थ: विश्वेश्वरभट्टेन विरचितः। ग्रन्थश्चायं वि.आई. सिरिजमध्ये १८९३ ख्रीष्टाब्दे प्रकाशितोऽस्ति । अत्र ९९५ पृष्ठाश्च सन्ति । ग्रन्थोऽयं नवभिः स्तवकैरध्यायैर्वा विभक्तः। ते चाध्यायाः यथा- ब्रह्मचर्यधर्म गृहस्थधर्म-आह्निककृत्य-संस्कार-अशौच-द्रव्यशुद्धि-श्राद्ध-दायभाग प्रायश्चित्तसंज्ञका:। अस्य दायभागांश: मिताक्षरया सह सामञ्जस्यं स्थापयति । अस्य ग्रन्थस्य शैली अतीव सरला, रमणीया च भवति।

२) मदनमहार्णव:- ऐतिहासिकानां मतानुसारं ग्रन्थोऽयं मदनपालस्य पुत्रेण मान्धात्रा प्रणीतः। अत्र ४० अध्यायाः सन्ति। ग्रन्थोऽयं गायकवाड ओरियण्टाल सिरिज द्वारा १९५३ ख्रीष्टाब्दे ई.कृष्णमाचार्य-एम्.आर्.नाम्वियारमहोदयाभ्यां सम्पादित: प्रकाशितश्च ।

३) स्मृतिकौमुदी,

४) यन्त्रप्रकाशः,

५) सिद्धान्तगर्भ:(ज्योतिषविषयकः),

६) तिथिनिर्णयसार:- विश्वनाथेन संकलितः,

७) यात्राप्रकाश:,

८) सूर्यसिद्धान्तविवेक:-अयं ग्रन्थः विश्वेश्वरभट्टेन लिखितः, मदनपालनाम्ना भणितश्च । ग्रन्थश्चायं सूर्यसिद्धान्तोपरि टीकारूप:।

९) मदनविनोदनिघण्टु:- अयमपि ग्रन्थः विश्वेश्वरभट्टेन लिखितः, मदनपालनाम्ना भणितश्च। आयुर्वेदविषयके विशालग्रन्थेऽस्मिन् १४ वर्गाः, २२५० श्लोकाश्च सन्ति ।

१०) आनन्दसंजीवनम्- ग्रन्थोऽयं नृत्य-सङ्गीत-रागविषयसमन्वितः।

राजा मदनपालः राजा भोजसदृशः एकः विद्याभिलाषी राजा आसीत्। मदनपालस्य धर्मशास्त्रीयकृतिषूद्धृतानां निबन्धग्रन्थानां निबन्धकाराणां च नामानि यथा-अपरार्क-कृत्यकल्पतरु-मिताक्षरा-मेधातिथि-स्मृतिमञ्जरी-आचारसागर गोविन्दराज-चतुर्विंशतिमत-नारायण-भवदेव- मण्डनमिश्र- विज्ञानेश्वर स्मृतिचन्द्रिका- स्मृतिमहार्णव- हेमाद्रिप्रभृतीनि ।

धर्मशास्त्रविषये विश्वेश्वरभट्टस्यानेकेषु ग्रन्थेषु विज्ञानेश्वरस्य मिताक्षरोपरि सुबोधिनीटीकाऽन्यतमा भवति। सुबोधिनीटीकाया: व्यवहारभाग: जे.आर्.घारपुरे महोदयेन सम्पादित: प्रकाशितश्च । सुबोधिनीटीकायाः प्रथमश्लोक: मदनमहार्णवे स्मृतिकौमुद्याञ्चोद्धृतोऽस्ति।

मदनसिंहः

[सम्पादयतु]

काशीसंप्रदायस्य प्रमुखधर्मनिबन्धकारेषु मदनसिंहोऽन्यतमः। मदनसिंहस्य पिता शक्तिसिंह:[५५] आसीत् । महापालदेवस्य पुरुषानुक्रमेण षष्ठपुरुषात् परं मदनसिंहः उदपद्यत । मदनसिंहविरचिते मदनरत्नग्रन्थे मिताक्षरा कृत्यकल्पतरु-चतुर्वर्गचिन्तामणीनां प्रमाणवचनानि उद्धृतानि सन्ति।

षोडशशतकोत्पन्नाः धर्मनिबन्धकाराः नारायणभट्ट- कमलाकरभट्ट नीलकण्ठभट्ट-मित्रमिश्राश्च मदनरत्नस्य मतान्युद्धरन्ति । एतदाधारेण मदनसिंहस्य काल: १३६० तः १५०० ख्रीष्टाब्दमध्य एव स्वीक्रियते ।

मदनसिंहः मदनरत्नग्रन्थं प्रणीतवान् । मदनरत्नं मदनप्रदीपनाम्ना, मदनरत्नप्रदीपनाम्ना वा परिचीयते । अयमेक: महान् धर्मनिबन्धग्रन्थो भवति।निबन्धोऽयं सप्तभिरुद्योतः विभक्त:[५६] । ते चोद्योता: यथा-समय-आचार व्यवहार-प्रायश्चित्त-दान-शुद्धि-शान्तिसंज्ञकाः।

समयोद्योतस्य मुख्यप्रतिपाद्यविषयाः भवन्ति यथा- वर्ष-ऋतु-मास तिथिमुहूर्तानां निर्णयः, धार्मिककालाः, दानहोमनियमाः,कलिवर्ण्यनियमाः, वार्षिकपर्वकृत्यानि चेति। दानोद्योतस्य प्रमुखविषया: यथा- दानप्रशंसा, दानलक्षणं, दानभेदाः, दातृ-प्रतिग्रहीतृगुणाः, दानकालः, दानद्रव्याणि, तोरण-पताका मण्डपानां लक्षणानि, तुलापुरुषदानं, सहस्रगोदानञ्चेति।

मदनरत्नग्रन्थस्य व्यवहारोद्योतः विशालस्वरूपं धारयति । अयं च १९४८ ख्रीष्टाब्दे विकानीरस्थ-अनुपसंस्कृतपुस्तकालयपक्षतः प्रकाशित आसीत्। ग्रन्थोऽयं ३४८ पृष्ठात्मको भवति । अत्राष्टादशव्यवहारपदान्यालोचितानि सन्ति। तत्र प्रतिपादिता: प्रमुखविषया: यथा- व्यवहारस्वरूपं, व्यवहारपदानां नामानि, तेषां नियमाः, प्राड्विवाकः, सभ्यः, सभा, साधारणव्यवहारमातृकाविधिः, प्रमाणानि चेति । शान्त्युद्योतस्य पाण्डुलेख: पुनेस्थित-डेकानमहाविद्यालये प्राप्यते। अत्र प्रतिपादिताः प्रमुखविषयाः यथा-विनायकस्नानं, सूर्यशान्तिः, नवग्रहशान्तिः, नक्षत्र-तिथि-प्रभृतीनां शान्तिविधानं, शान्त्यर्थमतिहोम-लक्षहोम कोटिहोमानामनुष्ठानं चेति । मदनरत्ने बहूनां स्मृतिधर्मसूत्रपुराणानां प्रमाणवचना न्युद्धृतानि सन्ति । निबन्धकारेषु मिताक्षरा- कृत्यकल्पतरु - चतुर्वर्गचिन्तामणि प्रभृतीनां नामान्युद्धृतानि सन्ति।

विद्यापतिः

[सम्पादयतु]

मैथिलधर्मनिबन्धसंप्रदाये विद्यापतिरन्तर्भवति । स च धारेश्वरस्य चतुर्थपुरुषः, चण्डेश्वरठक्कुरस्य मातुलश्चासीत् । मधुवनीमण्डलस्य विंशपीगामे स जन्मालभत । तस्य जन्मविषये बहुमतवादा: दृश्यन्ते । तथापि तस्य मृत्युः १४४८ ख्रीष्टाब्द एवाभवत् । विद्यापतेः पितुर्नाम गणपतिरासीत् । विद्यापति: मिथिलायां शैवरूपेण, वङ्गप्रान्ते च वैष्णवरूपेण ख्यात आसीत् । विद्यापतेः जीवनकाल: १३६० तः १४४८ ख्रीष्टाब्दपर्यन्तमेव ऐतिहासिकैः निश्चीयते । विद्यापतिः संगीतविद्यायां निपुण आसीत् । संस्कृते तस्य द्वादशकृतयः सन्ति। ताश्च कृतयः भवन्ति यथा-

१) शैवसर्वस्वसार:(शम्भुवाक्यावली),

२) दानवाक्यावली,

३)वर्षकृत्यम्,

४)विभागसागर:,

५)भूपरिक्रमा(परिक्रमणं वा),

६)पुरुषपरीक्षा, सायली

७)लेखनावली,

८) कीर्तिलता,

९)कीर्त्तिपताका,

१०) गयावाक्यावली,

११) दुर्गाभक्तितरंगिणी,

१२) व्याडीभक्तितरंगिणी चेति ।

शूलपाणिः

[सम्पादयतु]

भट्टपण्डितशूलपाणिः वङ्गप्रान्तस्य त्रिषु मूर्धन्यधर्मनिबन्धकारेषु द्वितीयस्थानमधिकरोति। असौ शूलपाणिमहोदय: आत्मानं महामहोपाध्यायत्वेन साहुडियाल अथवा सौदीयब्राह्मणरूपेण चोद्घोषयति । वल्लालसेनमतानुसार वङ्गप्रान्ते साहुडियालसंज्ञका: ब्राह्मणा: निम्नश्रेणिका: भवन्ति। असौ राढीयब्राह्मण आसीत् ।

शूलपाणे: जन्म वङ्गप्रान्ते मेदिनिपुरमण्डले वाग्रीनामके स्थाने एवाभवदिति ऐतिहासिकाः कथयन्ति । अस्य च काल: चतुर्दशशतकस्यान्तिमा र्द्धादारभ्य पञ्चदशशतकस्य प्रथमा) यावदनुमीयते । शूलपाणि: माधवाचार्यस्य कालमाधवं, चण्डेश्वरस्य स्मृतिरत्नाकर चोद्धरति । अतोऽस्य काल: १३६५ ख्रीष्टाब्दात् परमेव सम्भवेत् । शूलपाणे: कृति वाचस्पति- रुद्रधर- गोविन्दानन्दप्रभृतयः धर्मनिबन्धकारा उद्धरन्ति । अतोऽवश्यं स: १४६० ख्रीष्टाब्दात् पूर्वमेव वर्तमान आसीत्। शूलपाणिविरचितः प्रायश्चित्तविवेकः १४१० ख्रीष्टाब्द एव पूर्णतां गत इति स स्वयं लिखति । अत एवायं प्रतिपादित: कालः सर्वथा युज्यते ।

शूलपाणिभट्टस्य सर्वप्रथमा कृतिर्भवति दीपकलिका । सा च याज्ञवल्क्यस्मृतेः टीकारूपा भवति । इयं टीका ११० पृष्ठात्मिका वर्तते । दीपकलिकाटीका १९३९ ख्रीष्टाब्दे प्रो. जि. आर्. घारपुरेमहोदयेन सम्पादिता, आनन्दाश्रममुद्रणालयेन प्रकाशिता च । शूलपाणेः द्वितीया कृतिर्भवति स्मृतिविवेकः। तस्मिन् ग्रन्थेऽनेके भागाः विद्यन्ते । ते भवन्ति यथा -

१) एकादशीविवेकः,

२) तिथिविवेकः,

३) दत्तकविवेकः,

४) दुर्गोत्सवविवेकः,

५) प्रतिष्ठाविवेकः,

६) प्रायश्चित्तविवेकः,

७) रासयात्राविवेकः,

८) श्राद्धविवेकः,

९) व्रतकालविवेकः,

१०) शुद्धिविवेकः,

११) संक्रान्तिविवेकः,

१२) सम्बन्धविवेकः,

१३)वासन्तीविवेकश्चेत्यादयः।

तस्य ग्रन्थेषु श्राद्धविवेकः प्रसिद्धः। प्रायश्चित्तविवेकः दुर्गोत्सवविवेकश्च जीवानन्दद्वारा कलिकतासंस्कृतसाहित्यपरिषदि १८९३ ख्रीष्टाब्दे प्रकाशिता वास्ताम् । सम्बन्धविवेकश्च कलिकतास्थ - जे. वि.चौधरीमहोदयेन १९४२ ख्रीष्टाब्दे प्रकाशितोऽस्ति । तस्य कृतिषु प्रायश्चित्तविवेकस्यापि प्राधान्यं वरीवर्त्तते । तत्र प्रतिपादिता: विषयाः यथा - महापातक- अतिपातक-उपपातक अनुपातक- जातिभ्रंशकर- संकरीकरण- मलिनीकरण- अपात्रीकरण प्रकीर्णकाख्यानि नवविधानि पातकानि, तेषां पातकानां प्रायश्चित्तानि, कृच्छ्र - चान्द्रायण - प्राजापत्य - सान्तपन - पराकादीनि प्रायश्चित्तव्रतानि चेति । अयं च ग्रन्थः द्वितीयवारं तत्त्वकौमुदीटीकोपेतः पु· पण्डितश्रीकुलमणिमिश्रमहोदयानां सम्पादनया १९८२ ख्रीष्टाब्दे प्रकाशितः। तिथिविवेकः, रासयात्राविवेकः, व्रतकालविवेकश्च प्रो.सुरेशचन्द्रवाना द्वारा संस्कृतसाहित्य-परिषत्पत्रिकायां प्रकाशिताः सन्ति । वासन्तीविवेक : सतीशचन्द्रविद्याभूषणद्वारा कलिकतासंस्कृतसाहित्यपरिषत्सिरिजमध्ये उद्धृतः। दुर्गोत्सवविवेकः, श्राद्धविवेकश्च वङ्गलिप्या चण्डिचरणस्मृतितीर्थेन कलिकतास्थसंस्कृतसाहित्य परिषद्द्वारा प्रकाशितौ स्तः। तस्यापरा कृतिर्भवति चतुरङ्गविभाषा चतुरङ्गदीपिका वा । अयं ग्रन्थ: मनमोहनघोषमहोदयेन १९३६ ख्रीष्टाब्दे प्रकाशितो विद्यते।

शूलपाणिकृत- तिथिविवेकोपरि तात्पर्यदीपिकाख्या एका टीका दृश्यते। टीकेयं श्रीनाथ आचार्यचूडामणिमहोदयेन विरचिता। श्राद्धविवेकग्रन्थस्यानेके टीकाकारा: दृश्यन्ते । श्राद्धविवेकः मधुसूदनस्मृतिरत्नेन कलिकतायां मुद्रितः। टीकाकारेषु प्रमुखा: भवन्ति यथा -

१) श्रीनाथ आचार्यचूडामणि:(रघुनन्दनस्य गुरुः, श्रीकरस्य पुत्रश्च)

२) अच्युतचक्रवर्ती - टिप्पणी कृतवान् ।

३)श्रीकृष्णतर्कालंकारः,

४) गोविन्दानन्दकविकङ्कणाचार्य: तत्त्वकौमुदीटीकाकारः,

५) नीलकण्ठः,

६) जगदीशः - भावार्थदीपटीकां प्रणीतवान् ।

७) रामकृष्णन्यायालङ्कारः - श्राद्धविवेककौमुदीटीकां कृतवान् । प्रायश्चित्तविवेकस्याप्यनेके टीकाकारा: सन्ति। तेषु प्रमुखाः भवन्ति यथा -

१)गोविन्दानन्दस्य तत्त्वकौमुदी।

२) रामकृष्णस्य कौमुदीटीका।

३) निगूढार्थप्रकाशिकाटीका चेति ।

अल्लाडनाथसूरिः

[सम्पादयतु]

अल्लाडनाथ: सिद्धलक्ष्मणस्य पुत्र आसीत् । स च यमुनातटवर्तिनः एकचक्रपुरस्य महाराजस्य सूर्यसेनस्याश्रयेणावर्त्तत । ऐतिहासिका: अल्लाडनाथस्य कालं १२५० ख्रीष्टाब्दत: १५०० ख्रीष्टाब्दमध्य एव स्थापयन्ति । अल्लाडनाथ: सूर्यसेनस्याज्ञया निर्णयामृतग्रन्थं विरचितवान् । निर्णयामृते चत्वारि प्रकरणानि सन्ति।

ग्रन्थेऽस्मिन् मिताक्षरा - स्मृतिचन्द्रिका - अनन्तभट्टीय - संवत्सरप्रदीप - रूपनारायणीय - विश्वरूपनिबन्धादीनां मतानि चर्चितानि सन्ति । निर्णयामृतग्रन्थ: वेङ्कटेश्वरष्ट्रीम् प्रेस्, कल्याण मुम्बई द्वारा प्रकाशितोऽस्ति ।

नृसिंहः(१३६०-१४३५ ख्री.)

[सम्पादयतु]

भनृसिंहः कौण्डिन्यगोत्रीयः, कर्णाटक निवासी चासीत् । स च प्रयोगपारिजातग्रन्थं प्रणीतवान् । ग्रन्थेऽस्मिन् संस्कार - पाकयज्ञ - आधान - आह्निक - गोत्रप्रवराख्याः पञ्चकाण्डाः विद्यन्ते । ग्रन्थस्यास्य संस्कारभाग: निर्णयसागरप्रेस्, मुम्बई द्वारा १९१६ ख्रीष्टाब्दे प्रकाशितः ।

देवदासमिश्रः

[सम्पादयतु]

देवदास: गौतमगोत्रीयः, अर्जुनस्य पौत्रः, नामदेवस्य पुत्रश्चासीत् । अस्य काल: १३५० तः १५०० ख्रीष्टाब्दमध्ये ऐतिहासिकै: निश्चीयते । स च देवदासप्रकाशाख्यं धर्मनिबन्धं विरचितवान् । ग्रन्थेऽस्मिन् श्राद्ध - आशौचादीनां विषयाणां विचार: वर्त्तते ।

काह्नरदेवः

[सम्पादयतु]

काह्नरदेव: पद्मनाभस्य पुत्रः आसीत् । असौ दुर्गसिंहनृपते: मन्त्रिण: कर्ण सिंहस्याश्रयेण नन्दपद्रनगरे १३८४ ख्रीष्टाब्दे सारग्राहकर्मविपाकग्रन्थं विरचितवान्। ग्रन्थेऽस्मिन् ५५ प्रकरणानि, ४५ अधिकाराः, ४९०० श्लोकाश्च सन्ति ।

वेदाचार्य:(१२५०-१५००खी.)

[सम्पादयतु]

ॐ वेदाचार्यः कामरूपराज्ञः आश्रयेण स्थित्वा स्मृतिरत्नाकरग्रन्थं प्रणीतवान्। ग्रन्थेऽस्मिन् पञ्चदशाध्यायेषु आचार- संस्कार- तिथि- श्राद्ध- शान्ति- तीर्थ भक्ष्या-भक्ष्य-व्रत - प्रायश्चित्त- आशौच- अन्त्येष्टिप्रभृतयः विषया: विचारिताः सन्ति ।

प्रेमनिधिठक्कुरः

[सम्पादयतु]

प्रेमनिधि: इन्द्रपतिठक्कुरस्य पुत्र आसीत् । स च १३५३-५४ ख्रीष्टाब्दयोर्मध्ये धर्माधर्मप्रबोधिनीग्रन्थं प्रणीतवान् । ग्रन्थेऽस्मिन् द्वादशाध्यायेषु आह्निक - पूजा -श्राद्ध - आशौच - शुद्धि - विवाह - दान - आपद्धर्म - तीर्थ- कर्मविपाक - प्रायश्चित्तादीनां विषयाणां विवेचनं विद्यते ।

कृत्यकौमुदीकारः बृहस्पतिः

[सम्पादयतु]

उत्कलीयधर्मनिबन्धसम्प्रदाये बृहस्पतिरन्यतमः प्रसिद्ध धर्मनिबन्धकारः । स च शुक्लयजुर्वेदीय: ब्राह्मण आसीत् । असावुत्कलीय आसीत्। बहुभिर्लेखकैरुत्कलीय इति निर्णीतत्वादुत्कलीयैरर्वाचीननिबन्धुभिः स्मृतत्वादु त्कलीयव्रतोत्सवानां स्फुटप्रदर्शकत्वादनुत्कलीयनिबन्धृभिरस्मृतत्वात् पुरुषोत्तम भुवनेश्वरक्षेत्रयोः सूक्ष्मातिसूक्ष्मतथ्यप्रदर्शनात्तथा एकाम्रपुराण- कपिलसंहितयोः प्रामाण्यग्रहणात् प्रदेशान्तरेऽस्य पुस्तकस्य प्रतिलिपेरदर्शनादुत्कलेष्वेव प्रतिलिपीनामुपलब्धत्वादयं कृत्यकौमुदीकार उत्कलीय प्रतिपाद्यते ।

बृहस्पतिः कृत्यकौमुद्यां पूर्ववर्त्तिषु धर्मनिबन्धकारेषु शतानन्दमिश्र - भवदेवभट्ट - लक्ष्मीधरभट्ट - भोजदेव - वल्लालसेन - जीमूतवाहन-आदित्यभट्ट शङ्खधर - कुल्लूकभट्ट - चण्डेश्वरठाकुर - हरिनाथ - विद्याकरवाजपेयिनां मतान्युद्धरति । अत: बृहस्पते: काल: ख्रीष्टीयचतुर्दशशतकानन्तरमेवानुमीयते । तथैव कृत्यकौमुद्या: मतानि विश्वनाथमिश्र - विप्रमिश्र - कृष्णमिश्र - रघुनाथदाश गदाधरराजगुरु - धर्मुपाठिप्रभृतिभिरुद्धृतत्वाद् बृहस्पतिरवश्यं षोडशशतकात् पूर्वं समभवदिति तर्कयितुं शक्यते । अत ऐतिहासिका अस्य कालमन्तरङ्ग बहिरङ्गप्रमाणयोः १४०० ख्रीष्टाब्दतः १५०० मध्ये एव स्थापयन्ति ।

बृहस्पतिः कृत्यकौमुदीनामकं महान्तं धर्मनिबन्धमेकं प्रणीतवान्। ग्रन्थश्चायं प्रकरणत्रयात्मकः। तत्र प्रकरणेषु त्रिषु बृहस्पतिना पञ्चाशीति(८५) ग्रन्थकाराणां नामानि, तथाऽशीति (८०) ग्रन्थानां च नामान्युट्टङ्कितानि । पुनश्च श्रुति- धर्मशास्त्र- पुराण- ज्योति:शास्त्र- स्मृत्यन्तर- संग्रहादिच्छलेन बहूनि वचनान्युद्धृतानि ।

कृत्यकौमुद्यां प्रायश: ३८०० प्रमाणवचनानि वर्तन्ते । तेषु ३२०० प्रमाणवचनानां कर्तृनाम मिलति । बृहस्पतिकृतः कृत्यकौमुदीग्रन्थ: कालविवेक प्रायश्चित्तदानसंज्ञकै: त्रिभिः प्रकरणैः विभक्तः । कालविवेकप्रकरणं समुदायग्रन्थस्य महद्भागमावहति। निखिलधर्मशास्त्रीयनिबन्धग्रन्थेष्वयं कृत्यकौमुदीग्रन्थः विशिष्टरूपं धारयति। ग्रन्थेऽस्मिन्नभिनवप्रणाल्या विषयाः प्रतिपादिताः। आवश्यक स्थलेषु विचारचातुरीपरामर्शपरायणैः बृहस्पतिभिः खण्डनमण्डनपुरःसरं विषया: वर्णिताः। कालविवेकप्रकरणे संवत्सरे पालिता: सनातनीयानां पर्वोत्सवा: वर्णिता:। तत्र व्रतपालनकाला: विधयश्च सुस्पष्टं स्मृतिपुराणेभ्य: उद्धृताः। पर्वोत्सवानां वर्णनानन्तरं बृहस्पतिः स्नानयोगादीनां कालान् ततः श्राद्धकालांश्च प्रतिपादयति । तत्र कृत्यकौमुद्यां प्रतिपादिता: प्रमुखविषयाः यथा -

कालविवेकप्रकरणे - अशोकाष्टमीनिर्णय:, दमनकचतुर्दशी, मेषसंक्रान्तिकृत्यम्, अक्षयतृतीया, नृसिंहचतुर्दशी, ज्येष्ठपोर्णमासी, श्रीगुण्डिचा, देवशयनपक्ष:, श्रावणपौर्णमासी, श्रवणाकर्मविधिः, रक्षापञ्चमी, कृष्णजन्माष्टमी, वर्षवृद्धिः, हरितालिकाचतुर्थी, ऋषिपञ्चमी, षष्ठीपूजा, शक्रोत्थापनम्, श्रवणाद्वादशी, अनन्तव्रतम्, अगस्त्यर्च्यविधिः, महाष्टमीविधिः, कुष्माण्डदशमी, कौमुदीपौर्णमासी, प्रदीपामावास्या, सुखरात्रिविधिः, कार्तिकमासकृत्यम्, देवोत्थापनैकादशी, प्रथमाष्टमीनिर्णयः, दीपावलिकोत्सवः, प्रावरणषष्ठी, पुष्यवन्दापना, माघमासकृत्यम्, भैम्येकादशी, शिवरात्रिः, षड्जयन्तीकथनम्, स्नानादिपुण्ययोगाः, एकादशीनिर्णयः, श्राद्धकालाः, अधिमासनिरूपणम्, ग्रहणनिरूपणम्, संक्रान्तिनिरूपणम्, युगादिनिरूपणश्च।

प्रायश्चित्तप्रकरणे- जलजपविधिः, प्रायश्चित्तार्थं परिषदुपस्थानम्, द्वादशवार्षिक प्रायश्चित्तम्, षड्वार्षिकप्रायश्चित्तम्, त्रैवार्षिकप्रायश्चित्तम्, द्वैवार्षिकप्रायश्चित्तम्, वार्षिक प्रायश्चित्तम्, गोवधप्रायश्चित्तम्, अस्पृश्यस्पर्शनप्रायश्चित्तम्, अभक्ष्यभक्षणप्रायश्चित्तश्च ।

दानप्रकरणे - ग्रहपूजाविधिः, व्रतनिरूपणम्, प्राजापत्यसमानि, कृच्छ्रव्रतानि, चान्द्रायणम्, व्रतप्रतिनिधिः, विष्णुदैवतदानानि, प्रजापतिदैवतदानानि, सोमदैवतदानानि, गन्धर्वदैवतदानानि, बृहस्पतिदैवतदानानि, रुद्रदैवतदानानि, गोदानानि, सालग्रामदानविधिः, गृहदानम्, बौधायनोक्तकूष्माण्डदानविधिः, शिवसम्प्रदानकानि, हरिसम्प्रदानकानि, दानद्रव्यदैवतानि चेति ।

कृत्यकौमुदीग्रन्थ: १९८७ ख्रीष्टाब्दे पुर्यां मया सम्पाद्य प्रकाशितः। ग्रन्थोऽयं परवर्त्तिभिरुत्कलीयधर्मनिबन्धृभिः प्रामाणिकत्वेन स्वीकृतोऽस्ति ।तेषु श्राद्धप्रदीपकारः विप्रमिश्रः वारमेकं,स्मृतिसारसंग्रहकारः विश्वनाथमिश्रः षड्वारं, कालसारकार: गदाधरराजगुरुः पञ्चवारं, कालसर्वस्वकारः कृष्णमिश्रः द्वादशवारं, कालनिर्णयकार: रघुनाथदाश: सप्तवारं, कालचन्द्रिकाकार: धर्मुपाठी द्विवारं, सर्वस्मृतिसारसंग्रहकार: खञ्जगोविन्ददाश: वारद्वयं कृत्यकौमुदीग्रन्थमुद्धरन्ति। उत्कलीयैः प्रामाणिकग्रन्थरूपेण कृत्यकौमुदी सर्वदा पूज्या भवति । प्राचीननिब न्धत्वेन च वरीवर्तमानोत्कलीयधर्मनिबन्धसाहित्यस्य समृद्धिसाधनं करोति।

हरदत्तः

[सम्पादयतु]

आचार्यहरदत्तः पद्मकुमारस्य रुद्रकुमारस्य वा पुत्र आसीदिति पदमञ्जरीग्रन्थाज्ज्ञायते। सोऽग्निकुमारस्य कनिष्ठभ्राता, अपराजितस्य च शिष्य आसीदिति। सः शिवोपासकः आसीत् । सर्वत्र स्वकृतिषु प्रारम्भे शिवं प्रणम्य स: ग्रन्थं प्रारभते। स च हरदत्ताचार्यमिश्रनाम्ना दक्षिणभारते प्रसिद्धः । तस्य कृतिषु द्रविडशब्दबाहुल्यात्तस्य दक्षिणभारतीयत्वं प्रतिपाद्यते। मित्रमिश्रोऽपि हरदत्तं दक्षिणभारतीयत्वेन (वी.मि.व्य.प्र.पृ-७०५) प्रतिपादयति। हरदत्तस्तस्य गौतमधर्मसूत्रटीकायां दक्षिणभारतीयनदीनां कावेरी-वेगवतीप्रभृतीनां नामानि वर्णयति । काल:-नारायणभट्टस्य (१५१३ ख्री.) प्रयोगरत्ने हरदत्तस्य मिताक्षराटीका, उज्ज्वलाटीका चोद्धृते स्तः। मित्रमिश्रस्य वीरमित्रोदये, माधवीयधातुवृत्तौ च हरदत्तकृतायाः पदमञ्जाः उद्धरणानि दृश्यन्ते । अत: बुहलर-काणेप्रभृतय ऐतिहासिका: हरदत्तस्य कालं १४०० तः १५०० ख्रीष्टाब्दमध्ये एव स्थापयन्ति। कृतयः- हरदत्त: मुख्यत: टीकाकाररूपेण प्रसिद्धि प्राप्नोति । तद्विरचिता: टीका: टीकासाहित्ये आदर्शग्रन्थरूपेण मान्यतां लभन्ते। तस्य कृतयः भवन्ति यथा -

१) गौतमधर्मसूत्रे मिताक्षराटीका- आनन्दाश्रमसंस्करण- चौखम्बासंस्करणप्रभृतिषु बहुवारं मुद्रिताऽस्ति ।

२) आपस्तम्बधर्मसूत्रे उज्वलाटीका- इयमपि टीका बहुवारं प्रकाशिता। आदौ बूहलरद्वारा महीशूर गवर्नमेण्ट ओरियण्टाल सिरिजद्वारा प्रकाशिता ।

३)आपस्तम्बीयगृह्यसूत्रे अनाकुलाटीका - इयमपि टीका चौखम्बा द्वारा प्रकाशिताऽस्ति ।

४)आश्वलायनगृह्यसूत्रे अनाविलाटीका - टीकेयं त्रिवेन्द्रम सिरिज, आनन्दाश्रम मुद्रणालयादिषु बहुवारं प्रकाशिता विद्यते ।

५) आपस्तम्बीयमन्त्रपाठे टीका चेति।

पृथ्वीचन्द्रः

[सम्पादयतु]

पृथ्वीचन्द्रः नागमल्लस्य पुत्र आसीत् । सः विष्णुभक्त आसीत्। राजा पृथ्वीचन्द्रः सेहुण्डनगरे शासनमकरोत् । सेहुण्डनगरमधुना बुन्देलखण्डस्यांशरूपेण वर्त्तते। पृथ्वीचन्द्रोदय: अर्थात् पृथ्वीचन्द्रस्योदय इति शेषराज्ञः नामान्तरं भवतीति सः स्वयमुल्लिखति । राजा पृथ्वीचन्द्रः स्वयं राज्यशासनमपश्यत् ।

पृथ्वीचन्द्रकृतस्य व्यवहारप्रकाशस्यान्तिमपत्रे उल्लिखितमस्ति यत् पृथ्वीचन्द्रस्तस्य ग्रन्थं संवत् १५३० (१४७४ खी.) फाल्गुनमासस्य पञ्चदशदिवसे बुधवासरे समापयामास । तत्कृतव्यवहारप्रकाशे स्मृतिचन्द्रिका-चण्डेश्वरादीनां नामान्युल्लिखितानि सन्ति । अतोऽस्य काल: १४००-१५०० ख्री. मध्ये संभवेत्। तेनायं ग्रन्थः १३७५ ख्रीष्टाब्दात् परमेव लिखितं भवेत्। पृथ्वीचन्द्रोदय ग्रन्थस्यापरं नाम धर्मतत्वकलानिधिरिति ।

पृथ्वीचन्द्रोदयः १९३० ख्रीष्टाब्दे प्रथमवारं प्रकाशितोऽभवत् । परन्त्वत्र केवलं व्यवहारभागः विद्यते । पृथ्वीचन्द्रोदयग्रन्थस्यानेके विभागाः सन्ति । तेषु अनुपपुस्तकालयपक्षत: व्यवहार-व्रत-समयप्रकाशाः प्रकाशिताः सन्ति । व्यवहारप्रकाशः चतुर्दशोल्लासैः विभक्तोऽस्ति । एतेषु चतुर्दशोल्लासेषु दशोल्लासा: डाभेमहोदयेन प्रकाशिताः सन्ति । अपरे चत्वार उल्लासा: नाद्यावधि प्रकाशिताः। व्यवहारप्रकाशग्रन्थे सर्वेषामष्टादशविवादपदानां विषये विचार: विद्यते । अत्र गोविन्दराज-चण्डेश्वर-भवेदव-विज्ञानेश्वर-पारिजात-कृत्यकल्पतरुसर्वज्ञनारायण-हलायुधादीनां मतान्युद्धृतानि सन्ति ।

मिसरुमिश्रः

[सम्पादयतु]

मैथिलधर्मनिबन्धसंप्रदाये मिसरुमिश्रोऽन्यतमं स्थानं विभर्त्ति । मिसरुमिश्र: मिथिलाया: कामेश्वरवंशस्य भैरवमहादेवस्य कनिष्ठभ्रातुः कुमारचन्द्रदेवस्य पत्न्या: लक्ष्मीदेव्या उपदेशानुसारं ग्रन्थमलिखत् ।

मिसरुमिश्रस्य विवादचन्द्रः पञ्चदशशताब्द्याः मध्यभागे उल्लिखितोऽभवत्। विवादचन्द्रे कामेश्वरराजवंशस्य हरिसिंहदेवपुत्रस्य भवेशस्य विषये उल्लेखो विद्यते। अतस्तदनुसारं तस्य कालः १४०० तः १४५० ख्रीष्टाब्दमध्ये भवेदिति अनुमीयते ।

मिसरुमिश्रः ग्रन्थद्वयं विरचितवान् । प्रथमः विवादचन्द्रः, द्वितीयश्च पदार्थचन्द्र:[५७] । तस्य विवादचन्द्रग्रन्थे अष्टादशविवादपदानां विवरणं प्राप्यते। साधारणव्यवहारमातृका, सभ्य- साक्षि-प्राड्विवाक- प्रमाणप्रभृतीनां विषयाणां वर्णनमप्यत्र विद्यते । विवादचन्द्रे[५८] स्मृति- धर्मसूत्रकारातिरिक्तं पारिजात प्रकाश- बालरूप - भवदेवादीनामुद्धरणं प्राप्यते ।

वाचस्पतिमिश्रः

[सम्पादयतु]

मैथिलधर्मनिबन्धकारेषु वाचस्पतिमिश्रः सर्वश्रेष्ठः प्रतिभाशाली लेखक आसीत् । स: पल्लीवारमैथिलीय ब्राह्मणो भवति । वाचस्पतिमिश्रः गिरिपतिमिश्रस्य पुत्र आसीत् । वाचस्पतिमिश्रस्याग्रज: शिवपतिमिश्रः, अनुजश्च मिश्रकान्तः। वाचस्पतेश्चत्वारः पुत्रा आसन् । ते भवन्ति यथा - वेणीनाथ:, रघुनाथः, नरहरिः, लक्ष्मीनाथश्च । तस्य समसामयिका: विद्वांसः भवन्ति यथा - शंकरमिश्रः, पक्षधरमिश्रः, रुचिदत्तः, वर्धमानश्च । स: महाराजाधिराजस्य कामेश्वरवंशस्य राज्ञः भैरवेन्द्रसिंहस्य हरिनारायणस्य, तत्पुत्रस्य रूपनारायणस्य रामभद्रदेवस्य च पारिषदासीत् ।

हरिनारायणः १५२७ ख्रीष्टाब्दं यावच्छासनमकरोत् । वाचस्पतिः स्वग्रन्थेषु रत्नाकरं चण्डेश्वरं रुद्रधरं च स्मरति । अतस्तस्य कालोऽवश्य १४२५ ख्रीष्टाब्दात् परमेव सम्भवेत् । वाचस्पते: मतानि गोविन्दानन्द-रघुनन्दना दिभिरुद्धृतत्वात्तस्य काल: १५४० ख्रीष्टाब्दात् पूर्वं सम्भवेत् । अत ऐतिहासिकैरस्य काल: १४२५ ख्रीष्टाब्दात् १५४० ख्रीष्टाब्दमध्ये एव निश्चीयते। कृति:- वाचस्पतिमिश्रस्यानेकाः कृतय उपलभ्यन्ते । तेषु द्वादशग्रन्थाः चिन्तामणिसंज्ञकाः, पञ्चग्रन्थाः निर्णयसंज्ञकाः, सप्त च महार्णवसंज्ञका: भवन्ति। ते ग्रन्थाः भवन्ति यथा -

१) आचारचिन्तामणिः,

२) आह्निकचिन्तामणिः,

३) शुद्धिचिन्तामणिः,

४) कृत्यचिन्तामणिः,

५)तिथिचिन्तामणिः,

६) द्वैतचिन्तामणिः,

७) नीतिचिन्तामणिः,

८) विवादचिन्तामणिः,

९) श्राद्धचिन्तामणिः,

१०)तीर्थचिन्तामणिः,

११) सम्बन्धचिन्तामणिः,

१२) व्यवहारचिन्तामणिः,

१३)द्वैतनिर्णयः,

१४) महादाननिर्णय:,

१५) विवादनिर्णयः,

१६) तिथिनिर्णयः,

१७)शुद्धिनिर्णयः,

१८) आचारमहार्णवः,

१९) कृत्यमहार्णवः,

२०) व्यवहारमहार्णवः,

२१) दानमहार्णवः,

२२) शुद्धिमहार्णवः,

२३) पितृयज्ञमहार्णवः,

२४)श्राद्धमहार्णवश्च ।

एतदतिरिक्तं स: अन्यानपि कांश्चन ग्रन्थान् विरचितवान् । ते ग्रन्थाः भवन्ति यथा -

२५) गयाश्राद्धपद्धतिः,

२६)दत्तकविधिः,

२७)कृत्यप्रदीपः,

२८)शूद्राचारचिन्तामणिः,

२९) पितृभक्तितरङ्गिणी,

३०) श्राद्धकल्पश्चेति ।

वाचस्पतिः पितृभक्तितरङ्गिणीग्रन्थस्यान्ते स्वकृतिनां विषये लिखति यत् स: स्मृतौ त्रिंशद्ग्रन्थानन्येषु शास्त्रेषु च दशग्रन्थान् विरचितवान् । यथा -

शास्त्रे दश स्मृतौ त्रिंशनिबन्धा येन यौवने ।

निर्मितास्तेन चरमे वयस्येष विनिर्ममे ॥

१. वाचस्पतेः कृत्यचिन्तामणिग्रन्थ: वाराणसीप्रान्ते १८९२ ख्रीष्टाब्दे प्रकाशितो विद्यते ।

२.तीर्थचिन्तामणि: B.I. Series मध्ये प्रकाशितोऽस्ति ।

३.विवादचिन्तामणिः १८३७ ख्रीष्टाब्दे कलिकताप्रान्ते प्रकाशितः । द्वितीयवारं १८९८ ख्रीष्टाब्दे वेङ्कटेश्वरष्टीम् प्रेस्, बम्बेद्वारा प्रकाशितः । तृतीयवारं १९४२ ख्रीष्टाब्दे गंगानाथझाकृत-आङ्ग्लानुवादैः साकं गायकवाड सिरिज,वडोदराद्वारा प्रकाशित:।

४. व्यवहारचिन्तामणिः कामेश्वरसिंह दरभङ्गा संस्कृतविश्वविद्यालयद्वारा १९८५ ख्रीष्टाब्दे प्रकाशितः।

५. शुद्धिचिन्तामणिः १८९२ ख्रीष्टाब्दे वनारसप्रान्ते प्रथमवारं प्रकाशितः, ततश्च कामेश्वरसिंह दरभङ्गा संस्कृतविश्वविद्यालयद्वारा १९८५ ख्रीष्टाब्दे प्रकाशितः।

६. शूद्राचारचिन्तामणिः १८९२ ख्रीष्टाब्दे वनारसप्रान्ते प्रकाशितः।

७. द्वैतनिर्णयः १९३७-३८ ख्रीष्टाब्दे शास्त्रमालासिरिजमध्ये प्रकाशितः।

८. आचारचिन्तामणिः कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयद्वारा १९८३ ख्रीष्टाब्दे प्रकाशितः।

९. कृत्यप्रदीप: कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयद्वारा १९८३ ख्रीष्टाब्दे,

१०. कृत्यमहार्णव:कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयद्वारा १९८४ ख्रीष्टाब्दे,

११.पितभक्तितरङ्गिणी कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयद्वारा १९८४ ख्रीष्टाब्दे प्रकाशिता: सन्ति ।

१२. श्राद्धचिन्तामणिः कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयद्वारा १९८३ ख्रीष्टाब्दे च प्रकाशितोऽस्ति।

वाचस्पतेः धर्मशास्त्रातिरिक्ता अन्याः काश्चन कृतयोऽपि उपलभ्यन्ते।

ताश्च यथा -

१) ब्रह्मसूत्रस्य शांकरभाष्योपरि भामतीटीका,

२) योगसूत्रवृत्तिः,

३) न्यायशुद्धिनिबन्धः।

वाचस्पते: कृतिषु कल्पतरु -रत्नाकर-स्मृतिसार -हलायुध मिताक्षरा- मेधातिथि -प्रकाश- कामधेनु-उपाध्याय- विश्वरूप-समयप्रदीय हेमाद्रि -यास्काचार्यप्रभृतीनां ग्रन्थानां ग्रन्थकाराणां च मतान्यालोचितानि दृश्यन्ते ।

रुद्रधरः

[सम्पादयतु]

मैथिलधर्मनिबन्धकारेषु रुद्रधरोऽन्यतम आसीत् । सः महामहो पाध्यायस्य लक्ष्मीधरस्य पुत्रः, हलधरस्य च कनिष्ठभ्राता आसीत् । रुद्रधरः चण्डेश्वरठाकुरस्य शिष्योऽवर्त्तत ।

रुद्रधरः स्वकृतिषु रत्नाकर- स्मृतिसार- श्रीदत्तोपाध्याय- शूलपाणिनां नामान्युद्धरति । अतस्तस्य काल: १४२५ ख्रीष्टाब्दात् परमेव भवेत् । तद्विरचिता व्रतपद्धतिः ३४४ लक्ष्मणसंवदर्थात् १४६३ ख्रीष्टाब्दे उल्लिखिता । वाचस्पते: द्वैतनिर्णयग्रन्थे, गोविन्दानन्दस्य श्राद्धक्रियाकौमुदीग्रन्थे, रघुनन्दनस्य श्राद्धतत्त्वे शुद्धितत्त्वे, कमलाकर-नीलकण्ठादीनां कृतिषु च रुद्रधरस्य मतमुद्धृतत्त्वात् तस्य काल: १४२५ तः १४७५ ख्रीष्टाब्दमध्य एव स्थापयितुं शक्यते ।

रुद्रधरः धर्मशास्त्रे कांश्चन ग्रन्थान् विरचितवान् । तेषु प्रसिद्धो भवति शुद्धिविवेकः । स च ग्रन्थः बहुवारं प्रकाशितः। तत्र त्रय: परिच्छेदा: सन्ति । अत्र प्रतिपादिता: प्रमुखाः विषयाः भवन्ति यथा - जननमरणाशौचं, शारीरशुद्धिः, द्रव्याशौचं, रजस्वलाशौचमित्यादयः । तस्य द्वितीया कृतिर्भवति श्राद्धविवेकः। तत्र चत्वारः परिच्छेदा: सन्ति । तत्र प्रतिपादिता: प्रमुखविषया: यथा- श्राद्धस्वरूपं, श्राद्धभेदाः, श्राद्धविधिः, श्राद्धकाला:, श्राद्धदेशश्च, श्राद्धार्थं योग्या: अयोग्याश्च ब्राह्मणाः, श्राद्धीयद्रव्याणि, श्राद्धानुष्ठानविधिश्चेति । तस्य तृतीया कृतिर्भवति वर्षकृत्यम् । तत्र संवत्सरोद्भवानां पर्वणां व्रतोपवासादीनां वर्णनं विद्यते ।

रुद्रधरकृतिषु रत्नाकर- पारिजात- मिताक्षरा- हारलता आचारादर्श- शुद्धिप्रदीप- स्मृतिसारादीनां मतानि चर्चितानि सन्ति।

वर्द्धमानः

[सम्पादयतु]

मैथिलधर्मनिबन्धकार: वर्द्धमानः बिल्वपङ्गपरिवारस्थस्य भवेशस्य पुत्र आसीत् । तस्य मातुः नाम गौरीदेवी, ज्येष्ठभ्रातुश्च नाम गण्डकमिश्रश्चा वर्त्तत । मैथिलराज्ञा भैरवेण स: परिपुष्टोऽभवत् ।

कामेश्वरराजवंशस्य राजा भैरवसिंहः ख्रीष्टीयपञ्चदशशताब्द्याः द्वितीयतृतीयचरणयोः शासनमकरोत् । अत: वर्द्धमानस्य काल: १४२५ तः १५०० ख्रीष्टाब्दाभ्यन्तरे भवेदिति अनुमीयते । राज्ञः भैरवसिंहस्य शासनकाले वर्द्धमानः दानविवेकग्रन्थं विरचितवान् । दानविवेकस्यान्तिमेऽपि स उल्लिखति यत् स: विदेहराज्ञोऽभिप्रायेण दानविवेकं प्रणीतवान् ।

वर्द्धमानः प्रथमतः दानविवेकग्रन्थं रचितवान् । अयं च ग्रन्थः १९३१ ख्रीष्टाब्दे गायकवाड ओरियण्टाल सिरिजमध्ये वडोदरायां पश्चिमवंगस्य पण्डितकमलकृष्णस्मृतितीर्थमहोदयानां सम्पादनया प्रकाशितः। दण्डविवेकः ३५५ पृष्ठात्मक: विशालग्रन्थो भवति। अस्मिन् ग्रन्थे मात्स्यन्याय:, धर्म्यकरग्रहण व्यवस्था, दण्डभेदाः, देश-काल-जाति-वयोऽवस्थानुरूपदण्डव्यवस्था, दण्डपरिमाणानि, विवादपदानां परिचयश्चेत्यादयः विषयाः प्रतिपादिता: दृश्यन्ते।

वर्द्धमानस्यापराः कृतयः भवन्ति यथा- शुद्धिविवेकः, द्वैतविवेकः, गङ्गाकृ त्यविवेकः, परिभाषाविवेकः, श्राद्धविवेकः,आचारविवेक :, स्मृतितत्त्वविवेकः, धर्मप्रदीपः, स्मृतिपरिभाषा चेति। तस्य दानविवेके हलायुधमतं ३३ वारमुद्धृतमस्ति । वर्द्धमानकृतिषूद्धृतानां ग्रन्थानां ग्रन्थकाराणाञ्च नामानि यथा- कृत्यकल्पतरु- कामधेनु-हलायुध-धर्मकोष-स्मृतिसार-कृत्यसागर स्मृतिरत्नाकर- पारिजात- कृत्यसार- गणेश्वरमिश्र- चण्डेश्वर- चतुर्वर्गचिन्तामणि पराशरमाधवीय- भवदेव-भूपालपद्धति- बालभूषणमिश्र- विवादचिन्तामणि समयप्रकाश- स्मृतिसागर- शूलपाणि- हरिनाथ- हरिहराश्चेति।

दलपतिः

[सम्पादयतु]

दलपति: शुक्लयजुर्वेदीयः, याज्ञवल्क्यशाखानुयायी, भरद्वाजगोत्रीयः, वल्लभस्य पुत्रश्चासीत्। स च सूर्यपण्डितस्य शिष्यः वैष्णवधर्मानुयायी चासीत् । दलपतिः स्वयमात्मानं दलपति: दलाधीश इति वा कथयति । अयं दलपतिमहाराज: अहमदनिजामशाहस्य धर्माधिकारिपदे नियुक्त आसीत्[५९] । स च महाराजपदवी प्राप्तवान् इति संस्कारसारग्रन्थस्य भूमिकात:[६०] ज्ञायते । कदाचित् स आत्मानं राजकीयलेखसंरक्षकरूपेणापि कथयति। दलपतिमहाराजः देवगिरिनिवास्यासीत् । अयं देवगिरिः महाराष्ट्रप्रदेशस्य औरङ्गा-वादसमीपे आधुनिकदौलतावादरूपेण भारतवर्षे प्रसिद्धिं लभते ।

दलपतिविरचिते नृसिंहप्रसादग्रन्थे पराशरमाधवीय- मदनपारिजातयोः बहून्युद्धरणानि प्राप्यन्ते । अतोऽस्य काल: १४०० ख्रीष्टाब्दात्परमेव भवेत्। शङ्करभट्टस्य द्वैतनिर्णये, नीलकण्ठस्य भगवन्तभास्करे नृसिंहप्रसादस्य मतान्युट्टङ्कितानि सन्ति । अतस्तस्य काल: १५७५ ख्रीष्टाब्दात् पूर्वमेव अनुमीयते । दलपतिः निजामशाहस्य शासनकाले (१४९०-१५३३ ख्री.) नृसिंहप्रसादग्रन्थं विरचितवान् । अत: नृसिंहप्रसादस्य रचनाकाल: १४९० तः १५१२ ख्रीष्टाब्दमध्ये एव भवेत् । दलपतेः कालश्च १४५० तः १५३० ख्रीष्टाब्दपर्यन्तं निश्चीयेत ।

दलपति: नृसिंहप्रसादग्रन्थं विरचितवान् । भगवतो नृसिंहस्य प्रसादादिमे द्वादशसारसंज्ञका: ग्रन्था:६१ श्रीदलपतिमहाराजेन प्रणीताः ।

संस्कारसारे -

संस्कारसारः प्रथमो द्वितीयस्त्वाह्निकाभिधः।

श्राद्धसारस्तृतीयस्तु चतुर्थः कालनिर्णयः॥

पञ्चमो व्यवहाराख्यः प्रायश्चित्ताभिधस्तथा।

अष्टमो व्रतसाराख्यः पुराणोक्ताभिधायकः॥

नवमो दानसाराख्यः सर्ववर्णाधिकारकः।

दशमः शान्तिसंज्ञो वै तैर्थमेकादशः स्मृतः॥

देवप्रतिष्ठासारश्च द्वादशः परिकीर्तितः ॥[६१]

नृसिंहप्रसादात् प्रणीतत्वात् ग्रन्थस्य नामापि नृसिंहप्रसादोऽभवत् । नृसिंहप्रसादाख्यो ग्रन्थः सम्पूर्णरूपेण न कुत्रापि प्रकाशितः। परन्तु सर्वे खण्डाः सम्पूर्णानन्दसंस्कृत विश्वविद्यालयस्य पुस्तकालये सरस्वतीभवने संरक्षिताः सन्ति । ते च सारा: भवन्ति यथा - संस्कारसार- आह्निकसार- श्राद्धसार- कालसार- व्यवहारसार प्रायश्चित्तसार- कर्मविपाकसार- व्रतसार- दानसार- शान्तिसार- तीर्थसार प्रतिष्ठासाराश्च।

संस्कारसारस्य मुख्यविषयाः भवन्ति - धर्मशब्दस्यार्थः, स्मृति-पुराणानां धर्मप्रामाण्यं, कलिवयू, मधुपर्कः, वृद्धिश्राद्धं, गर्भाधान- पुंसवन- जातकर्म - नामकरण-उपनयन- विवाहादयः संस्काराः, ब्रह्मचारि- गृहस्थ- वानप्रस्थसंन्यासिनां कर्त्तव्यानि चेति ।"

आह्निकसारस्य मुख्यविषयाः भवन्ति यथा- दिवसस्याष्टधाविभाजनम्, शय्यात्यागः, शौचं, दन्तधावनं, स्नानमित्येतानि कर्माणि दिवसस्य प्रथमभागे भवेयुः। द्वितीयभागे- अध्ययनं, तृतीये - जीविकानिर्वाहः, चतुर्थे - माध्याह्निकस्नान- ब्रह्मयज्ञ - तर्पण- वैश्वदेव- नित्यश्राद्धानि , पञ्चमभागे मध्याह्नभोजनं , षष्ठसप्तमभागयो: इतिहासपुराणश्रवणं, अष्टमभागे- सन्ध्या, भोजनं शयनमित्यादयः विषयाश्च।

कालसारस्य मुख्यविषयाः यथा- कालस्वरूपं, मास-पक्ष-तिथि पर्वोत्सवादीनां विवेचनम् । व्यवहारसारे व्यवहारशब्दार्थः, अष्टादशविवादपदानि, व्यवहारस्य पादचतुष्टयम्, प्रमाणानि च प्रतिपादितानि सन्ति। व्रतसारे मास-व्रतानि, स्त्रीव्रतानि, पुरुषव्रतानि च वर्णितानि सन्ति । दानसारे दानस्वरूपं, दानभेदा:, दानफलं, दानकाल:, दानस्थानं, दानयोग्यद्रव्याणि, षोडशमहादानानि, दशमहादानानि च कथितानि सन्ति । तीर्थसारे भारतवर्षे वर्तमानानां मुख्यतीर्थानां विषये विस्तरशः प्रतिपादितं वर्तते । तत्रापि वाराणस्या: माहात्म्यं विशेषतः वर्णितमस्ति।

नृसिंहप्रसादग्रन्थे बहूनां धर्मनिबन्धग्रन्थानां, धर्मनिबन्धकाराणां च नामान्युल्लिखितानि दृश्यन्ते । तेषु प्रमुखाः भवन्ति यथा- कालादर्श-विज्ञानेश्वर हेमाद्रि-असहाय-प्रयोगपारिजात-मदनपारिजात-कृत्यकल्पतरु-माधवाचार्य स्मृतिचन्द्रिका-स्मृतिरत्नावलि-स्मृतिदर्पण-स्मृतिचिन्तामणि- स्मृतिभास्कर मेधातिथि-अपरार्क - भोजराज-विश्वरूप-स्मृतिमीमांसा-स्मृतिमहार्णव-शातातपीयकर्मविपाक- प्रवरमञ्जरी- जातिविवेकादयश्चेति।

अचलद्विवेदी

[सम्पादयतु]

अचलद्विवेदी भट्टविनायकस्य शिष्य: मडोडशाखीयश्चासीत् । असौ आनन्दपुरनिकटवर्ति - वृद्धपुरवास्तव्य: वत्सराजवंशजश्चावर्त्तत । अचलद्विवेदी ऋग्वेदोक्तं महारुद्रविधानं, निर्णयदीपकञ्च प्रणीतवान् । निर्णयदीपकस्य समाप्तिकाल: १५१८ ख्रीष्टाब्दस्य ज्येष्ठकृष्णद्वादश्यामेव सूचितोऽस्ति । अतोऽस्य काल: १४५० १५५० ख्रीष्टाब्दमध्य एवानुमीयते । निर्णयदीपके श्राद्ध - आशौच - तिथिनिर्णय संस्कार - प्रतिष्ठादय: विषया: विचारिताः सन्ति । अचलद्विवेदी शांख्यायनमतानुयायिनां कृते आह्निकदीपकमपि विरचितवान् । निर्णयदीपक: नडियादप्रान्ते १८९७ ख्रीष्टाब्दे प्रकाशितोऽस्ति ।

शेषनृसिंहः(१४००-१४५०खी.)

[सम्पादयतु]

असौ रामचन्द्रस्य पुत्रः आसीत् । अनेन काशीमहाराजस्य गोविन्दचन्द्रस्याज्ञया स्मृतिसागर: गोविन्दार्णवो वा प्रणीतः । ग्रन्थेऽस्मिन् षड्वीचयः सन्ति । तत्र क्रमश: संस्कार - आह्निक - श्राद्ध - शुद्धि - काल - प्रायश्चित्तविषयाः प्रतिपादिताः।

गोदावरमिश्रः

[सम्पादयतु]

मन्त्रिवर: गोदावर: शुक्लयजुर्वेदीय: कौत्ससगोत्रीयश्चासीत् । स च राजगुरुबलभद्रमिश्रस्य पुत्रः, गङ्गाधरमिश्रस्य पौत्रः, जलेश्वरमिश्रस्य प्रपौत्रश्चासीत्। गोदावरः उत्कले सूर्यवंशीयनरपतेः गजपतिप्रतापरुद्रदेवस्य राजगुरुरासीत् । मन्त्रसिद्धिबलात् स: गोदावरीनद्यां प्रबलवन्यामुत्पादयन् गजपतेः विजयस्य कारणमभवत् । अतः राज्ञा स: गोदावरीवर्धनोपाधि प्राप्तवान् । स: वाजपेययाजी, शरतपुण्डरीकयाजी, सर्वतोमुखयाजी, सांवत्सरिकयाजी चासीदिति तत्कृतजयचिन्तामणिग्रन्थस्य पुष्पिकात: ज्ञायते । यथा - ‘इति श्रीमन्महाराजाधिराज - गजपतिप्रतापरुद्रदेव - स्वहस्तधारितकनककेशरिचतुष्टयावेष्टितशातकुम्भमय कुम्भसम्भूतमेघाडम्बराभिधानसितातपत्रशोभमान- कविपुङ्गवपण्डितराज राजगुरुवाजपेययाजि - शरत्पुण्डरीकयाजि - सर्वतोमुखयाजि - सांवत्सरिकयाजि मन्त्रिवरगोदावरीवर्धनगोदावरमिश्रविरचित- जयचिन्तामणौ .....।'

प्रतापरुद्रदेव: १४९७ त: १५३४ ख्रीष्टाब्दं यावदुत्कलराज्यशासनम करोत् । अत: गोदावरस्य काल: १४६० तः १५९० ख्रीष्टाब्दाभ्यन्तरे स्थिरीक्रियते।

गोदावरोऽनेकेषु विषयेषु बहून् ग्रन्थान् विरचितवान् । गोदावरविरचितस्य हरिहरचतुरङ्गग्रन्थस्य सूचनानुसारं तेन दशग्रन्थाः विरचिताः । ते भवन्ति यथा -

१)तन्त्रचिन्तामणिः,

२)योगचिन्तामणिः,

३)अद्वैतदर्पणः,

४)अधिकरणदर्पणः,

५)नीतिचिन्तामणिः,

६)नीतिकल्पलता,

७)आचारचिन्तामणिः,

८)जयचिन्तामणिः,

९)सामुद्रिककामधेनु:,

१०)पातञ्जलदीपिका च ।

हरिहरचतुरङ्गः माड्रास गवर्नमेण्ट ओरियण्टाल सिरिजमध्ये सप्तदशभागे १९५० ख्रीष्टाब्दे प्रकाशितोऽस्ति । एतदतिरिक्तं सः शारदाशरदचनपद्धतिनामकं महत्त्वपूर्ण ग्रन्थरत्नं विरचितवान् । यस्य प्रतिलिपिरिदानीं यावदप्रकाशिता विद्यते।

प्रतापरुद्रदेव:

[सम्पादयतु]

प्रतापरुद्रदेवः उत्कलस्य गजपतिरासीत् । सः सूर्यवंशीयस्य नृपतेः कपिलेन्द्रदेवस्य पौत्रः, पुरुषोत्तमदेवस्य च पुत्र आसीत् । तस्य मातुः नाम रूपाम्विका आसीत् । राजा प्रतापरुद्रदेवः स्वयमात्मानं गजपति गौडेश्वररूपेण वर्णयति -

वीरश्रीगजपतिगौडेश्वर-नवकोटिकर्णाटकलवर्गेश्वर शरणागतयमुनापुराधी-श्वरहुशनसाहसुरत्राणश्रीदुर्गावरपुत्रपरमपवित्रचरित्रराजाधिराजपरमेश्वर वीर प्रतापरुद्रदेवमहाराजविरचिते स्मृतिसंग्रहे सरस्वतीविलासे व्यवहारकाण्डे।[६२]

राजा प्रतापरुद्रदेवः तस्य राजधानी कटकनगर्यामेव स्थापितवान्।[६३] स च १४९७ तः १५३४ ख्रीष्टाब्दं यावदुत्कलराज्यस्य शासनमकरोत् । अतस्तस्य ग्रन्थः सरस्वतीविलासोऽवश्यं षोडशशतकस्य प्रथमचरणे एव रचिता भवेत् ।

सरस्वतीविलासः प्रतापरुद्रदेवस्य श्रेष्ठा कृत्तिर्भवति । प्रतापमार्तण्ड:, निर्णयसंग्रहश्चान्यत् कृतिद्वयमपि तस्य विद्यते । दक्षिणभारते सरस्वतीविलासस्य भूयान् प्रभाव: परिलक्ष्यते । अस्य ग्रन्थस्य दायभागांश आङ्ग्लानुवादेन सह थमासफैलमहोदयेन १८८१ ख्रीष्टाब्दे प्रकाशित आसीत्। सरस्वतीविलास: महीशूर गवर्नमेण्ट व्राञ्च प्रेस् द्वारा १९२७ ख्रीष्टाब्दे प्रकाशितोऽस्ति । अयं च ग्रन्थः पञ्चशताधिकपृष्ठाविशिष्ठ: (५०३) विशालग्रन्थो भवति । ग्रन्थस्यास्य प्रारम्भे प्रतापरुद्रदेव: आत्मन: परिवारस्य च प्रशस्तिमुपस्थापयति।

सरस्वतीविलासे प्रतिपादिताः प्रमुखविषयाः भवन्ति यथा प्रबन्धृवंशावतरणम्, स्मृतीनां प्रामाण्यं, स्मृतीनां प्रणेतारः, व्यवहारकाण्ड प्रतिपादनं, नराधिप-मन्त्रि-पुरोहितादीनां वरणम्, शासनप्रकरणम्, राज्ञः दैनन्दिनकृत्यम्, राजमण्डलं, षड्गुणाः, चतुर्विधोपायाः, सप्ताङ्गानि, धर्मस्थान-निरूपणं, चतुर्विधं व्यवहारदर्शनं, प्रमाणानि, ऋणादानादीनि अष्टादशविवाद पदानि चेति । एते एव विषयाः पञ्चोल्लासैः प्रतिपादिताः सन्ति ।

अस्मिन् सरस्वतीविलासग्रन्थे स्मृति-पुराणातिरिक्त मने के षा धर्मनिबन्धकाराणां नामानि उद्धृतानि सन्ति । ते भवन्ति यथा- वरदराज लक्ष्मीधर-भोगराज-भारुचि-अपरार्कप्रभृतयः।

गोविन्दानन्दः

[सम्पादयतु]

गोविन्दानन्द: वंगीयसंप्रदायस्य धर्मनिबन्धकारेष्वन्यतम आसीत् । स च गणपतिभट्टस्य पुत्र आसीत् । पितृपरम्परया स वैष्णवः कविकङ्कणा चार्योपाधिना भूषितश्चासीत् । गोविन्दानन्द: वंगभूमौ मेदिनीपुरमण्डलस्य वाग्री ग्रामवास्तव्य आसीत् ।

गोविन्दानन्दस्य पिता ४६१३ कलियुगाब्दे (१५०२ ख्रीष्टाब्दे) ज्योति ष्मतीनाम्ना ज्योतिषग्रन्थं प्रणीतवान् । गोविन्दानन्दः स्वकृतिषु मदनपारिजात रुद्रधर-वाचस्पतिमिश्रादीनां मतान्युद्धरति । अतस्तस्य कालः १५०० ख्रीष्टाब्दात् पूर्वं १५६० ख्रीष्टाब्दात् परं च न भवेत् । स च तस्य ग्रन्थं १४५७ शक संवत्सरे (१५३५ ख्रीष्टाब्दे) प्रणीतवान् । अत: गोविन्दानन्दस्य साहित्यिककाल: १५०० तः १५६० ख्रीष्टाब्दमध्ये एव ऐतिहासिकैः निश्चीयते।

गोविन्दानन्दः धर्मशास्त्रेऽनेकान् ग्रन्थान् विरचितवान् । तेषु ग्रन्थेषु Bibliotheca Indica Series मध्ये चत्वारः ग्रन्थाः प्रकाशिताः सन्ति । ते भवन्ति यथा- दानक्रियाकौमुदी, शुद्धिक्रियाकौमुदी, श्राद्धक्रियाकौमुदी,वर्ष क्रियाकौमुदी च । तद्विरचिता वर्षक्रियाकौमुदी कमलकृष्णस्मृतितीर्थमहोदयानां सम्पादनया एसियाटिक सोसाइटि अफ वेंगल, कलिकता द्वारा प्रकाशिता । तस्मिन् ग्रन्थे वर्षमध्ये पालितानां सर्वेषां व्रतपर्वोत्सवानां विचार: वर्त्तते । सः शूलपाणिविरचिते प्रायश्चित्तविवेकग्रन्थे तत्त्वकौमुदीनाम्नी टीकामेकां प्रणीतवान् । सोऽपि ग्रन्थः प्रथमवारं जीवानन्दसंग्रहे, द्वितीयवारं चोत्कलप्रान्ते पु· श्रीसदाशिवकेन्द्रीयसंस्कृतविद्यापीठे पण्डितश्रीकुलमणिमिश्रमहोदयानां संपादनया १९८२ ख्रीष्टाब्दे प्रकाशितः। गोविन्दानन्दः श्रीनिवासकृतशुद्धिदीपिकायामर्थकौमुदीटीकामपि कृतवान् । सोऽपि ग्रन्थः प्रकाशितो विद्यते ।सोऽपि शूलपाणे: श्राद्धविवेकोपरि टीकां कृतवान् ।

गोविन्दानन्दस्य कृतिषूद्धृतानां निबन्धग्रन्थानां निबन्धकाराणां नामानि यथा-कुल्लूकभट्ट-मदनपारिजात-राजमार्तण्ड-रुद्रधर-वर्द्धमानोपाध्याय वाचस्पतिमिश्र - शुद्धिविवेक - सायणभाष्यादीनि । सः केवलं वाचस्पते: श्राद्धचिन्तामणिं श्राद्धक्रियाकौमुद्यां षोडशवारमुद्धरति । गोविन्दानन्दः श्रीनाथाचार्यचूडामणे: मतानि बहुषु स्थलेषु खण्डयति ।

टोडरानन्दः

[सम्पादयतु]

टोडरानन्दः भगवतीदासस्य पुत्रः, द्विजमल्लस्य पौत्रः, द्वारकादासस्य प्रपौत्रश्चासीत् । तत्पूर्वपुरुषाः क्रमश: द्वारकादासस्य पिता अशुः, तत्पिता दामोदरः, तत्पिता अतल्लिः, तत्पिता च बाल आसन् । तोडरानन्दस्य पिता भगवतीदासश्चात्यन्तदरिद्र आसीत् । तोडरानन्दस्यापरं नाम भवति तोडरमल्लः । तोडरानन्द: आकवरस्य वित्तमन्त्री आसीत् । ततश्च स: आकवरस्तं गुजुरातप्रान्तं, विहारप्रान्तं, वङ्गप्रान्तञ्चाप्रेषयत् । ततश्च स: देवानपदवी प्राप्तवान् । आकवरस्तं सेनाध्यक्षरूपेणामात्यरूपेण च नियुक्तिं दत्तवान् । तोडरानन्द: कुशलराजनीतिज्ञः प्रसिद्धविद्वांश्चासीत् । तस्य पुत्रद्वयमासीत्। गोवर्द्धन - कल्याणनामकौ । ज्येष्ठपुत्रः गोवर्द्धनश्चैकस्मिन् युद्धे प्राणत्यागमकरोत् ।

तोडरमल्लः औध (तन्दाना) प्रान्तस्य क्षत्रियवंशेऽजायत । तस्य जन्म औधप्रान्तस्य लहरपुरग्रामेऽभवत्। तस्य मृत्युः १५८९ ख्रीष्टाब्दस्य नवम्बरमासस्य १० दिनाङ्केऽभवत् । तद्विरचितं व्यवहारसौख्यं ज्योतिःसौख्यं च १५८१ १५८२ ख्रीष्टाब्दे लिखितमासीत् । तोडरानन्दस्य कृतिप्रणयनकाल: १५७२ ख्रीष्टाब्दादारभ्याभवदिति डा.पि.एल्. वैद्यमहोदयानां मतम् । अतस्तस्य स्थितिकाल: १५०० ख्रीष्टाब्दात् १५८९ ख्रीष्टाब्दपर्यन्तमेव स्वीक्रियते।

तोडरानन्दः धर्म-व्यवहार-शान्ति-प्रायश्चित्तादिविषयेषु एकं महान्तं निबन्धग्रन्थं प्रणीतवान् । यस्य ग्रन्थस्य नाम तोडरानन्द आसीत् । तस्मिन् ग्रन्थे द्वाविंशतिसौख्यानि सन्ति । प्रतिसौख्यमपि अनेकैः विभागैः विभक्तम् । तानि च सौख्यानि यथा -

१) आचारसौख्यं,

२) शुद्धिसौख्यम्,

३) श्राद्धसौख्यम्,

४) वर्षकृत्यसौख्यम्,

५) व्रतसौख्यम्,

६) प्रतिष्ठासौख्यम्,

७) पूजासौख्यम्,

८) देवतासौख्यम्,

९) दानसौख्यम्,

१०) ग्रहयागसौख्यम्,

११) शान्तिसौख्यम्,

१२) तीर्थसौख्यम्,

१३) विवाहसौख्यम्,

१४)व्यवहारसौख्यम्,

१५)राजनीतिसौख्यम्,

१६) प्रायश्चित्तसौख्यम्,

१७)कर्मविपाकसौख्यम्,

१८) आयुर्वेदसौख्यम्,

१९) होरासौख्यम्,

२०)गणितसौख्यम्,

२१) संस्कारसौख्यम्,

२२) कालनिर्णयसौख्यं चेति ।

होरासौख्यं गणितसौख्यं च ज्यौति:सौख्यनाम्नाऽपि उच्यते । तस्य ग्रन्थेषु प्रारम्भे प्रायः भगवतः शिवस्य वन्दनमादौ प्राप्यते । तदनु सम्राजः आकवरस्य प्रशंसा विद्यते । तदनु विषयाणां सन्निवेशो दृश्यते ।

रघुनन्दनभट्टाचार्य:

[सम्पादयतु]

वङ्गीयधर्मनिबन्धसम्प्रदायेऽन्तिम: शिरोमणिभूतः धर्मनिबन्धकारः भवति रघुनन्दनभट्टाचार्यः । असौ सामवेदानुयायी आसीत् । राढीयवास्तव्येषु बन्धघटीयब्राह्मणकुले हरिहरभट्टाचार्यस्य पुत्ररूपेण रघुनन्दनोऽजायत । श्रीनाथ आचार्यचूडामणिस्तस्य गुरुरासीत् । रघुनन्दनः वासुदेवसार्वभौमस्य शिष्यः चैतन्यस्य सहाध्यायी चासीत् ।

रघुनन्दनस्य काल: १४९० ख्रीष्टाब्दात् १५७० ख्रीष्टाब्दमध्ये निश्चीयता रघुनन्दनस्य कृति वीरमित्रोदयग्रन्थे मित्रमिश्रः स्मरति । माधवाचार्य - शूलपाणि रुद्रधर - वाचस्पतिमिश्रप्रभृतयः धर्मनिबन्धकाराः रघुनन्दनेनोद्धियन्ते । अतः रघुनन्दनस्य काल: १५०० ख्रीष्टाब्दात् परमेव सम्भवेत् । चैतन्यदेवः (जन्म १४८५ ख्री.) रघुनन्दनस्य समसामयिक आसीत् । एतेभ्य: प्रमाणेभ्योऽयमेव काल ऐतिहासिकैः निर्धारित:।

रघुनन्दन: अष्टाविंशतितत्त्वविशिष्टं स्मृतितत्त्वनामकं धर्मनिबन्धग्रन्थं प्रणीतवान् । ग्रन्थेऽस्मिन् त्रिशतग्रन्थानां ग्रन्थकाराणाञ्च नामान्युद्धृतानि सन्ति । असौ स्मार्त्तभट्टाचार्यनाम्ना सर्वत्र प्रसिद्धः। स्मृतितत्त्वं प्रथमवारं वङ्गलिप्या १८३४-१८३५ ख्रीष्टाब्दयो: पश्चिमवंगस्य श्रीरामपुरप्रान्ते प्रकाशितमभूत्। ततश्च जीवानन्दसंग्रहमध्ये १८९५ ख्रीष्टाब्दे द्वितीयवारं प्रकाशितम् । डा. जुलियस् जोलिमहोदयानुसारं रघुनन्दनस्य काल: ख्रीष्टीयषोडशशतक एव स्वीक्रियते । जीवानन्देन स्मृतितत्त्वंद्वाभ्यां भागाभ्यां प्रकाशितमस्ति । प्रथमभाग: नवतत्त्वोपेत: ९४८ पृष्ठात्मकश्च । द्वितीयभागः ऊनविंशतितत्त्वोपेत: ६८३ पृष्ठात्मकश्च ।

रघुनन्दनः स्वयमेव स्वकृते मलमासतत्त्वे स्मृतितत्त्वान्तर्गतानामष्टाविंशति तत्त्वानां नामान्युट्टङ्कयति । यथा -

मलिम्लुचे दायभागे संस्कारे शुद्धिनिर्णये ।

प्रायश्चित्ते विवाहे च तिथौ जन्माष्टमीव्रते ॥

शाणामा दुर्गोत्सवे व्यवहतावेकादश्यादिनिर्णयः।

माजातीका तडागभवनोत्सर्गवृषोत्सर्गत्रये व्रते ॥

प्रतिष्ठायां परीक्षायां ज्योतिषे वास्तुसंज्ञके ।

दीक्षायामाह्निककृत्ये क्षेत्रे श्रीपुरुषोत्तमे ।

मासश्राद्धे यजुःश्राद्धे शूद्रकृत्यविचारणे ।

इत्यष्टाविंशतिस्थाने तत्त्वं वक्ष्यामि यत्नतः ॥

स्मृतितत्त्वस्याष्टाविंशतितत्त्वानि यथा - दायतत्त्वं, शुद्धितत्त्वं, श्राद्धतत्त्वं, मलमासतत्त्वं, संस्कारतत्त्वं, प्रायश्चित्ततत्त्वम्, उद्वाहतत्त्वं, तिथितत्त्वं, जन्माष्टमीतत्त्वं, व्रततत्त्वं, व्यवहारतत्त्वं, वास्तुयागतत्त्वं, कृत्यतत्त्वम्, एकादशीतत्त्वं, वृषोत्सर्गतत्त्वं, दुर्गोत्सवतत्त्वं, आह्निकतत्त्वं, प्रतिष्ठातत्त्वं, दिव्यतत्त्वं, ज्योतिस्तत्त्वं, दीक्षातत्त्वं, यजुर्वेदिश्राद्धतत्त्वं, मठप्रतिष्ठातत्त्वं, द्वादशयात्रातत्त्वं, यजुर्वेदिवृषोत्सर्गतत्त्वं, श्रीपुरुषोत्तमतत्त्वं, शूद्रकृत्यतत्त्वं, त्रिपुष्करशान्तितत्त्वं च । एतदतिरिक्तं तेन तीर्थयात्रातत्त्वं, रासयात्रापद्धतिः, गयाश्राद्धपद्धतितत्त्वं च लिखितानि सन्ति।

पण रघुनन्दनः जीमूतवाहनप्रणीते दायभागे टीकामेकां रचितवान् । इयं च टीका जीवानन्देन प्रकाशिता विद्यते। अस्य दायतत्त्वग्रन्थः गोपालचन्द्र सरकारद्वारा आङ्ग्लोभाषयाऽनुदितोऽस्ति । रघुनन्दनविरचितस्य दायतत्त्वस्य त्रयः टीकाकारा: आसन् । ते भवन्ति यथा -

१) काशीरामवाचस्पतिः,

२) राधामोहनः,

३) वृन्दावनशुक्लश्च ।

रघुनन्दनस्योद्वाहतत्त्वे काशीरामवाचस्पति: टीकां विरचितवान् । सा च टीका १९१६ ख्रीष्टाब्दे कलिकतायां प्रकाशिताऽऽसीत् । रघुनन्दनविरचितस्य प्रायश्चित्ततत्त्वस्य त्रयः टीकाकाराः सन्ति । ते यथा -

१) काशीनाथतर्कालङ्कारः - काशीनाथकृता टीका १९०० ख्रीष्टाब्दे कलिकतायां प्रकाशिता ।

२) विष्णुरामसिद्धान्तवागीशः - आदर्शटीकाकारः ।

३) राधामोहनगोस्वामी ।

रघुनन्दनकृतस्य शुद्धितत्त्वस्य टीकाकाराः यथा -

१) काशीराम वाचस्पतिः - राधावल्लभस्य पुत्रः । काशीरामकृता टीका १८८४ ख्रीष्टाब्दे, १९०७ ख्रीष्टाब्दे च कलिकतायां प्रकाशिता ।

२) राधामोहनगोस्वामी - राधामोहनकृता टीका १८८४ ख्रीष्टाब्दे, १९०७ ख्रीष्टाब्दे च कलिकतायां मुद्रिता।

रघुनन्दनकृतस्य श्राद्धतत्त्वस्य टीकाकाराः भवन्ति यथा -

१) राधावल्लभस्य पुत्रः काशीरामवाचस्पतिः - विवृतिटीकां विरचितवान् ।

२) गङ्गाधरचक्रवर्ती भावार्थदीपिकाटीकां कृतवान् ।

३) जयदेवविद्यावागीशस्य पुत्रः विष्णुरामविद्यावागीशः श्राद्धतत्त्वार्थटीकां प्रणीतवान् ।

खण्डेराय:

[सम्पादयतु]

खण्डेराय: वाराणसीस्थ- धर्माधिकारिण: नारायणपण्डितस्य पुत्र आसीत्। स च शाकद्वीपीयकुलावतंसस्य होरिलमिश्रस्य पुत्रस्य परशुरामस्याज्ञया गोमतीतीरे यमुनापुर्यां परशुरामप्रकाशग्रन्थं प्रणीतवान् । तस्य काल: १४००-१६०० ख्रीष्टाब्दाभ्यन्तरे एवानुमीयते । अत्र द्वाभ्यामुल्लासाभ्यामाचार - श्राद्धविषययोः विवेचनं दृश्यते ।

नन्दपण्डित:

[सम्पादयतु]

काशीसम्प्रदायस्य प्रसिद्धधर्मनिबन्धकारेषु नन्दपण्डितोऽन्यतम आसीत्। तस्य बाल्यं नाम विनायक आसीत् । सः धर्माधिकारिण: रामपण्डितस्य पुत्र आसीत् । तस्य मूलनिवासस्थानं विहारप्रान्त एव। कालान्तरे कदाचित् तस्य पूर्वजा: वाराणसी प्रति आगतवन्तः। सेहेगलवंशीयस्य नृपतेः केशवनायकस्य राजत्वकाले स: वर्तमान आसीत् । लक्ष्मीधरभट्टः तस्य पूर्वज आसीदिति ऐतिहासिकाः प्रतिपादयन्ति।

नन्दपण्डितस्य काल: १५५० ख्रीष्टाब्दादारभ्य १६३० मध्य एव स्वीक्रियते । तद्विरचिता श्राद्धकल्पलता १६०३ ख्रीष्टाब्दे जुलाईमासि एव समाप्तिं गता। नन्दपण्डित: सहारनपुरस्य सेहेगलवंशीयनृपतेः परमानन्दस्याग्रहानुसारं श्राद्धकल्पलतामुल्लिखितवान् ।

नन्दपण्डितस्यानेकाः कृतयः विद्यन्ते। कृतीनां विषये संक्षिप्तविवेचन मिदानी प्रस्तूयते।

१) स्मृतिसिन्धुः - ग्रन्थस्यास्य सारांश: तत्त्वमुक्तावलीति कथ्यते। महेन्द्रकुलस्य नृपतेः हरिवंशस्याग्रहानुसारं स इमं ग्रन्थं विरचितवान् ।

२) श्राद्धकल्पलता - इयं पञ्चभिः स्तवकैः विभक्ता । अत्र प्रतिपादिता: विषयाः यथा - श्राद्धस्वरूपं, श्राद्धकालः, श्राद्धदेशः, श्राद्धीयब्राह्मणाः, श्राद्धभेदाः, श्राद्धस्येतिकर्त्तव्यता च। इयं श्राद्धकल्पलता १६०३ ख्रीष्टाब्दे विरचिता आसीत्। ग्रन्थोऽयं चौखम्बा संस्कृत सिरिज्, वाराणसीपक्षतः १९३५ ख्रीष्टाब्दे प्रकाशितोऽस्ति ।

३) शुद्धिचन्द्रिका - तस्यापरा कृतिर्भवति शुद्धिचन्द्रिका । अयं ग्रन्थः कौशिकादित्यस्य षडशीतिग्रन्थोपरि टीकारूपः । इयं शुद्धिचन्द्रिका चौखम्बा संस्कृत सिरिज, वाराणसीपक्षत: १९२८ ख्रीष्टाब्दे प्रकाशिता विद्यते।

४) प्रमिताक्षरा - नन्दपण्डितस्यापरा कृतिर्भवति प्रमिताक्षरा । विज्ञानेश्वरस्य मिताक्षराया: टीकारूपा भवतीयम् ।

५) विष्णुस्मृतौ केशववैजयन्ती टीका नन्दपण्डितेन विरचिता । केशववैजयन्ती १६२३ ख्रीष्टाब्दे नभेम्वरमासि (कार्त्तिकपूर्णिमायां) पूर्णतामगादिति लिखितमस्ति। राज्ञः केशवनायकस्य प्रोत्साहनेन तेन लिखितोऽयं ग्रन्थः। केशववैजयन्ती आड्यार लाइब्रैरी, माड्रासद्वारा १९६० ख्रीष्टाब्दे द्वाभ्यां भागाभ्यां प्रकाशिता ।

६) विद्वन्मनोहराटीका - नन्दपण्डित: पराशरस्मृतौ विद्न्मनोहराटीका विरचितवान्। सा चाद्यावधि अप्रकाशिता विद्यते । स च माधवाचार्यस्य पराशरमाधवीयमनुसृत्य टीकामिमां विरचितवानिति स्वयं लिखति ।

७) दत्तकमीमांसा - अस्यापरा कृतिर्भवति दत्तकमीमांसा । ग्रन्थोऽयमानन्दा श्रममुद्रणालय, पुनाद्वारा १९४१ ख्रीष्टाब्दे शंकरभट्टकृतमञ्जरीटीकया साकं प्रकाशितोऽस्ति।

८) नवरात्रप्रदीप: - ग्रन्थोऽयं सरस्वतीभवनग्रन्थमालायां प्रकाशितोऽस्ति।

९) स्मार्त्तसमुच्चयः - ग्रन्थोऽयमद्यावधि अप्रकाशितः।

१०) हरिभक्तिविलास: - ग्रन्थेऽस्मिन् खण्डचतुष्टयं विद्यते । यथा - दानकौतुकं, आह्निककौतुकं, कालनिर्णयकौतुकं, संस्कारकौतुकञ्च। कोही

११) तीर्थकल्पलता,

१२) काशीप्रकाशः,

१३) बालभूषा,

१४) ज्योतिसारसमुच्चयश्च ।

एते च सर्वे ग्रन्थाः इदानीं यावदप्रकाशिता: विद्यन्ते। भि.एन्.माण्डलिकमतानुसार नन्दपण्डितस्य त्रयोदशग्रन्थाः विद्यन्ते।

नरसिंहमिश्रवाजपेयी

[सम्पादयतु]

नरसिंहमिश्रवाजपेयी कौत्सगोत्रीय आसीत् । तस्य पिता मुरारिमिश्रः, पितामहः धराधरमिश्रः, प्रपितामहः पण्डितदेवानन्दमिश्रचयनी, वृद्धप्रपितामहः नसिंहमिश्रवाजपेयी(प्रथमः) चासीत् । सः पुरीसमीपवर्त्तिनि कस्मिंश्चिच्छासने न्यवसत् इत्यनुमीयते ।

सिंहवाजपेयिवंशावलिग्रन्थात् ज्ञायते यत् नरसिंह: गजपतेः मुकुन्ददेवस्य सभां मण्डयामास।स: नरसिंहं दिल्लीश्वरमाकवरं निकषा प्रेरितवान्। स च मुकुन्ददेवः गजपतितेलेङ्गामुकुन्ददेवः प्रायो भवेत् । तस्य च शासनकाल: १५५६ त: १५६८ पर्यन्तमासीदिति ऐतिहासिकाः कथयन्ति। नरसिंहस्य पितामहः धराधरमिश्रः गोदावरमिश्रस्य सम्पर्कीयभ्राता आसीत् । गोदावरमिश्रस्य समय: १४६०-१५३५ ख्रीष्टाब्दमध्ये निश्चीयते।अत: नरसिंहस्य जीवनकाल: षोडशशतकस्य प्रथमार्द्ध एवेति अनुमातुं शक्यते ।

नरसिंहविरचित - नित्याचारप्रदीपस्य मङ्गलश्लोकाज्ज्ञायते यत् तेनाष्टादशग्रन्थाः विरचिता आसन् । ते च ग्रन्थाः प्रदीपनाम्ना अभिहिता: सन्ति। ते च भवन्ति यथा -

१)वर्षप्रदीपः,

२)भक्तिप्रदीपः,

३)प्रायश्चित्तप्रदीपः,

४)श्राद्धप्रदीपः,

५)प्रतिष्ठाप्रदीपः,

६)शाबरभाष्यप्रदीपः,

७)शाङ्करभाष्यप्रदीपः,

८)नित्याचारप्रदीपः,

९)आचारप्रदीपः,

१०)व्यवस्थाप्रदीपः, गजानकार

११)चयनप्रदीपादयश्च।

एतदतिरिक्तं तस्यान्याः कृतयः यथा -

१)वाजपेयस्मृतिः,

२)दानसागरः,

३)पार्वणश्राद्धपद्धतिकारिका,

४)गणेशमानसिकपूजा,

५)सामवेदीयव्रतपद्धतिः,

६)शिवरात्रिव्रतविधिश्च ।

नित्याचारप्रदीपस्य प्रथमभागः ८०४ पृष्ठात्मकः १९०७ ख्रीष्टाब्दे एसियाटिक सोसाइटि आफ्वेंगल,कलिकताद्वारा विनोदविहारीभट्टाचार्येण सम्पाद्य प्रकाशितः । ततः परं द्वितीयभागः ७२५ पृष्ठात्मकः १९२८ ख्रीष्टाब्दे तत्रैव महामहोपाध्यायसदाशिवमिश्राणां संपादनया प्रकाशितः। तृतीयभागः ६८४ पृष्ठात्मकः श्रीसदाशिवकेन्द्रियसंस्कृतविद्यापीठ, पुरीद्वारा १९८४ ख्रीष्टाब्दे पण्डितकुलमणिमिश्रशर्मणा संपाद्य प्रकाशितः । चयनप्रदीपः श्रीसदाशिव केन्द्रियसंस्कृतविद्यापीठ, पुरीद्वारा प्रो.डा. किशोरचन्द्रमहापात्रमहोदयेन संपाद्य १९८८ ख्रीष्टाब्दे प्रकाशितः ।

नरसिंहविरचितग्रन्थेषु केषाञ्चन धर्मनिबन्धग्रन्थानां धर्मनिबन्धकाराणां च मतान्युट्टङ्कितानि दृश्यन्ते । तेषु प्रमुखाः भवन्ति यथा- कल्पतरुकार-कालादर्श कालनिर्णय-कालिदासचयनी-चिन्तामणिकार-दानविवेक-दानप्रकाश प्रतिष्ठाप्रदीप-प्रायश्चित्तप्रदीप-भक्तिप्रदीप-माधवाचार्य-मेधातिथि-रामवाजपेयि लक्ष्मीधर-वर्षप्रदीप-विज्ञानेश्वर-विद्याकरपद्धति-श्राद्धप्रदीप-शुद्धिमुक्तावलि श्रीधर-स्मृतिरत्नमाला-स्मृतिसमुच्चय-हेमाद्रि-शुद्धिगुच्छाश्च ।

नारायणभट्टः

[सम्पादयतु]

नारायणभट्टः वाराणसीस्थ-भट्टवंशस्य सर्वश्रेष्ठलेखक आसीत् । नारायणभट्टस्य पिता रामेश्वरभट्टः, पितामहः गोविन्दभट्टः, प्रपितामहः चंगदेवश्चासन्। रामेश्वरभट्टः प्रतिष्ठानात् (पैठन) वनारसं प्रत्यागतवान्। रामेश्वरभट्टः उद्भट्टविद्वानासीत् । शङ्करभट्टः नारायणभट्टस्य पुत्र आसीत् । रामेश्वरभट्टस्य त्रिषु पुत्रेषु नारायणभट्टः ज्येष्ठ आसीत् । नारायणभट्टस्य श्रीधरमाधवौ च द्वावनुजावास्ताम्। नारायणभट्टः तस्य पितृसदृशः दक्षपण्डितः आसीत् । नारायणभट्टोऽन्तिमकाले जगद्गुरुरित्युपाधि प्राप्तवान् ।

शङ्करभट्टस्य वर्णनानुसारं नारायणभट्टस्य जन्म शक १४३५ वर्षे चैत्रमासेऽर्थात् १५१३ ख्रीष्टाब्दस्य मार्चमास्येवाभवत् । अतस्तस्य काल: १५१३ त: १६०० ख्रीष्टाब्दाभ्यन्तरे एवानुमीयते ।

नारायणभट्टः बहून् ग्रन्थान् विरचितवान् । तेषु प्रमुखाः भवन्ति यथा-

१) अन्त्येष्टिपद्धतिः - ग्रन्थेऽस्मिन् मृताहानन्तरविधिः वर्णितोऽस्ति। अन्त्येष्टिपद्धतिः निर्णयसागरप्रेस्, बम्बे द्वारा १९१५ ख्रीष्टाब्दे प्रकाशिता विद्यते ।

२) त्रिस्थलीसेतुः - अस्मिन् ग्रन्थे प्रयाग - काशी -गयाभिधेयानां त्रयाणां तीर्थानां वर्णनं विद्यते । नारायणभट्टः ग्रन्थस्यास्य रचना १५८० ख्रीष्टाब्दे कृतवान् । अत्र प्रयागविषये प्रथमपृष्ठात: ७२ पृष्ठपर्यन्तं, काशीविषये ७२ त: ३१६ पृष्ठपर्यन्तं, गयाविषये च ३१६ - ३७९ पृष्ठपर्यन्तं लिखितमस्ति ।

३) प्रयोगरत्नम्-अस्मिन् ग्रन्थे सर्वेषां संस्काराणां वर्णनं प्राप्यते ।

४) दिव्यानुष्ठानपद्धतिः- अत्र दिव्यप्रमाणानामनुष्ठानविधिरुक्तोऽस्ति ।

५) जलाशयोत्सर्गविधिः,

६) गोभिलगृह्यसूत्रे टीका,

७) धर्मप्रवृत्तिः,

८) विवादरत्नाकरे टीका १५९४ ख्रीष्टाब्दे लिखिताऽऽसीत् ।

नारायणभट्टस्य साहित्यककाल: १५४० तः १५९५ ख्रीष्टाब्दमध्ये आसीदिति ज्ञायते ।

लक्ष्मणभट्टः

[सम्पादयतु]

लक्ष्मणभट्टः नारायणभट्टस्य पुत्रः, कमलाकरभट्टस्य च कनिष्ठभ्राता ऽऽसीत्। अस्य काल: १५८० तः १६४० ख्रीष्टाब्दमध्ये एव निश्चीयते । अनेन गोत्रप्रवररत्न - आचाररत्न - द्वैतनिर्णयग्रन्थाः विरचिताः । आचाररत्नग्रन्थः निर्णयसागरप्रेस्, मुम्बईद्वारा प्रकाशितो वर्त्तते ।

कमलाकरभट्टः

[सम्पादयतु]

महाराष्ट्रीयधर्मनिबन्धकारेषु अन्यतमः प्रसिद्धश्चासीदसौ कमलाकरभट्टः। सः नारायणभट्टस्य पौत्रः, रामकृष्णभट्टस्य पुत्रश्चासीत् । रामकृष्णस्य त्रिषु पुत्रेषु दिनकर: ज्येष्ठः, कमलाकर: मध्यमः, लक्ष्मणश्च कनिष्ठ आसीत् । रामकृष्णः सर्वशास्त्रवेत्ता प्रसिद्धमीमांसकश्चावर्त्तत । कमलाकरस्य मातुः नाम उमा आसीत् । कमलाकरः सर्वशास्त्रज्ञः प्रसिद्धविद्वांश्चासीत् । तस्य तर्क- न्याय -व्याकरण-मीमांसा - वेदान्त- साहित्य - धर्मशास्त्र-वैदिकशास्त्रेषु च नैपुण्यमवर्तत ।

कमलाकरस्य पितामहः नारायणभट्टः १५१३ ख्रीष्टाब्देऽजायत । अतः कमलाकरस्य साहित्यिककाल: १६१० तः १६४० ख्रीष्टाब्दमध्य एव स्वीक्रियते । निर्णयसिन्धोः रचनाकालविषये कमलाकरः स्वयमुल्लिखति यत् १६१२ ख्रीष्टाब्दस्य फेवृयारीमासस्य विंशतितमे दिनाङ्के पूर्णतामगादिति ।

कमलाकरभट्टकृत - शान्तिरत्नग्रन्थस्यान्तिमश्लोकेभ्य: तद्विरचितानां द्वाविंशतिकृतीनां सूचना प्राप्यते । ते च ग्रन्थाः -

१) निर्णयसिन्धुः

२) दानकमलाकरः

३) विवादरत्नम्

४) शान्तिरत्नम्

५) बढचाह्निकम्

६) कर्मविपाकरत्नम्

७) गोत्रविपाकरत्नम्

८) पूर्त्तकमलाकरः

९) व्रतकमलाकरः

१०) शूद्रकमलाकरः

११) कार्तवीर्यपद्धतिः

१२) काव्यप्रकाशव्याख्या

१३) प्रायश्चित्तरत्नम्

१४) वेदान्तरत्नम्

१५) शास्त्रदीपिकालोकः

१६) सर्वतीर्थविधि:

१७) भक्तिरत्नम्

१८) सोमप्रयोग:

१९) रुद्रपद्धतिः

२०) गोत्रप्रवरदर्पणः

२१) विवादताण्डव:

२२) तत्त्वकमलाकरश्च ।

एतदतिरिक्ताः आचारदीप- तुलादानप्रयोग- और्ध्वदेहिकपद्धति मीमांसाकुतुहल-सभादर्शकुतुहलग्रन्थाः तेनापि रचिता आसन्निति ज्ञायते। गोत्रप्रवरदर्पण: १९०० ख्रीष्टाब्दे मैसूरप्रान्ते प्रकाशितः। कमलाकरकृतिष आचार्यचूडामणि - तिथितत्त्व- मदनरत्न - माधवीय- रूपनारायणीय - शुद्धिविवेक- शूलपाणि - श्रीदत्त- जीमूतवाहन - गोविन्दराज- चण्डेश्वर विश्वरूपाचार्य- हरिहरभाष्य-स्मृतिकौमुदीप्रभृतीनां मतान्युद्धृतानि सन्ति।

कमलाकरभट्टस्य त्रयः पुत्रा आसन् । यथा - अनन्तः, प्रभाकरः, श्यामभट्टश्चेति । कमलाकरस्य विवादताण्डवानुसारं स: कुमारिल्लस्य तन्त्रवार्तिके निर्णयसिन्धुनाम्नी टीकां प्रणीतवान् । तत्र च तस्य विंशतिकृतीनामुल्लेख: दृश्यते। कमलाकरः पूर्त्तकमलाकरग्रन्थे दानकमलाकरस्य नाम सूचयति। तस्य विवादताण्डव: नीलकण्ठभट्टस्य व्यवहारमयूखेन सह सामञ्जस्य स्थापयति। कमलाकरस्य सर्वासु कृतिषु निर्णयसिन्धुः प्रसिद्धो भवति । तत्र च कमलाकर एकशतस्मृतीनां त्रिशताधिकानां निबन्धकाराणां च मतान्युद्धरति।

अनन्तभट्टः -

[सम्पादयतु]

अनन्तभट्टः कमलाकरभट्टस्य पुत्रः, रामकृष्णभट्टस्य पौत्रश्चासीत् । तस्य साहित्यिककाल: १६४० तः १६७० ख्रीष्टाब्दाभ्यन्तर एव निश्चीयते । स च दशकाण्डात्मकं रामकल्पद्रुमग्रन्थं प्रणीतवान् । तेच काण्डा: यथा - कालकाण्ड:, श्राद्धकाण्डः, व्रतकाण्डः, संस्कारकाण्डः, प्रायश्चित्तकाण्डः, शान्तिकाण्ड:, दानकाण्डः, आचारकाण्ड:, राजनीतिकाण्डः, उत्सर्गकाण्डश्च ।

वरदराजः

[सम्पादयतु]

आचार्यवरदराजः दाक्षिणात्यब्राह्मण आसीत् । तस्य पितुर्नाम दुर्गातनयः, गुरोर्नाम महामहोपाध्याय: भट्टोजिदीक्षितश्चासीत् । असौ तामिलनाडु प्रान्ते आर्कटनामकस्थाने विष्णुकाञ्ची निकषा प्रवहत्या: वेगवतीनद्यास्तीरे निवास कृतवान् ।

वरदराजस्तस्य व्यवहारनिर्णये प्रतापरुद्रदेवस्य सरस्वतीविलासमुद्धरति। प्रतापरुद्रदेवस्य शासनकाल: १४९८ त: १५३४ ख्रीष्टाब्दपर्यन्तं ऐतिहासिकैः स्वीक्रियते। अतस्तदनन्तरमेव वरदराजस्य काल: भवेत् । वरदराजः मध्यसिद्धान्तस्य रचनां १५९३ ख्रीष्टाब्दे कृतवान् । सोऽपि व्यवहारनिर्णये धारेश्वर- विज्ञानेश्वरादीनां मतान्युद्धरति । अत: वरदराजस्य काल: १५५० तः १६२० ख्रीष्टाब्दाभ्यन्तरे एव निश्चेतुं शक्यते ।

आचार्यवरदराजः धर्मशास्त्रे व्यवहारनिर्णयग्रन्थं विरचितवान् । स च ग्रन्थ: Mr. A.N. Krishna Aiyanger महोदयेन आड्यारलाइब्रेरी, माड्रासपक्षतः प्रकाशितः। अस्य ग्रन्थस्य प्रारम्भे न कश्चन मङ्गलश्लोक: दृश्यते । व्यवहारनिर्णये त्रयोदशकाण्डाः सन्ति । यथा -

प्रथमे - व्यवहारपरिकरकाण्डम्, द्वितीये - आवेदनकाण्डम्, तृतीये - व्यवहारमातृकाकाण्डम्, चतुर्थे - मानुषप्रमाणकाण्डम्, पञ्चमे - दिव्यप्रमाणकाण्डम्, षष्ठे - मानसंग्रहः, सप्तमे - ऋणादानकाण्डम्, अष्टमे - निक्षेपकाण्डम्, नवमे - अस्वामिविक्रयकाण्डम्, दशमे - सम्भूयसमुत्थानादिदशपदकाण्डम्, एकादशे - दायविभागकाण्डम्, द्वादशे - द्यूतसमाह्वयादिषट्पदकाण्डम्, त्रयोदशे - प्रकीर्णककाण्डञ्च।

वरदराजः कामन्दकीयनीतिसारे नयप्रकाशटीका प्रणीतवान् । अयं सुदर्शनाचार्य: भवनाथकृत न्यायविवेकग्रन्थे मीमांसान्यायविवेकदीपिकाव्याख्या, रामानुजकृत- श्रीभाष्ये श्रौतप्रकाशिकाव्याख्यां च रचितवान् । व्यवहारविषयकेषु धर्मनिबन्धकारेषु वरदराज: सुपरिचितः विद्वान् आसीत् । ग्रन्थेऽस्मिन् उद्धृतानां ग्रन्थानां ग्रन्थकाराणां च नामानि भवन्ति यथा -असहाय- कौटिल्य- धारेश्वर विज्ञानेश्वर- श्रीकर- विश्वरूप- देवणभट्टादयः। वरदराज: व्याकरणविषये निष्णात: विद्वान् आसीत्। व्याकरणे च सः स्वगुरोराज्ञया लघुसिद्धान्तकौमुदी, मध्यसिद्धान्तकौमुदीं च विरचितवान्।

भट्टराम:

[सम्पादयतु]

भट्टराम: होशिङ्गकुलोत्पन्नः, मुद्गलस्य पुत्रश्चासीत् । असौ जोधपुरस्य राज्ञोऽनूपसिंहस्याज्ञया ग्रन्थान् विरचितवान् । अस्य काल: ऐतिहासिकैः १५५० त: १६२५ ख्रीष्टाब्दाभ्यन्तरे स्थिरीक्रियते । अनेन पञ्चग्रन्थाः प्रणीता: सन्ति । ते भवन्ति यथा -

१) अनूपविवेकः,

२) सन्तानकल्पलतिका,

३) अनूपकुतुकार्णवः

४) अमृतमञ्जरी,

५) चिकित्सामालतीमाला च ।

नीलकण्ठभट्टः

[सम्पादयतु]

महाराष्ट्रियधर्मनिबन्धकारेषु नीलकण्ठभट्टः श्रेष्ठ: प्रमुखश्चासीत्। असौ नारायणभट्टस्य पौत्रः, शङ्करभट्टस्य पुत्रश्चासीत् । नीलकण्ठस्य मातुर्नाम गङ्गादेवी, ज्येष्ठभ्रातुः नाम च दामोदरभट्टः। नीलकण्ठभट्टः महाराष्ट्रप्रान्तस्य प्रतिष्ठानपुऱ्यां शकारिशालिवाहनस्य राजधान्यां जन्म लब्धवान् । एतेषां पूर्वजा: महाराष्टिया आसन्निति हेतोः नीलकण्ठभट्टः महाराष्ट्र स्वजन्मनाऽलंकृतवान् । शङ्करभट्टः उत्तममीमांसकोऽवर्त्तत । तद्विरचिता: ग्रन्थाः यथा - त

१) शास्त्रदीपिकाटीका,

२) विधिरसायनदूषणम्,

३)मीमांसाबालप्रकाश:,

४) द्वैतनिर्णयः,

५) सर्वधर्मप्रकाशश्च ।

नीलकण्ठः शङ्करभट्टस्य कनिष्ठपुत्र आसीत्। शङ्करभट्टस्य काल: १५९० ख्रीष्टाब्दात् पूर्वमैतिहासिकैः निर्णीयते । नीलकण्ठः निर्णयसिन्धुं स्वग्रन्थे समयमयूखे शुद्धिमयूखे च स्मरति । शान्तिमयूखग्रन्थस्यान्तिमे सूचितकाल: १७०६ संवदथवा १६५० ख्रीष्टाब्द एव भवति। नीलकण्ठस्य दौहित्रः दिवाकरभट्टः १६८६ ख्रीष्टाब्दे आचारार्कग्रन्थं प्रणीतवान् । नीलकण्ठस्य पुत्रः शङ्करभट्टः १६७१ ख्रीष्टाब्दे कुण्डभास्करग्रन्थं विरचितवान् । अतः नीलकण्ठस्य काल: १६०० -१६८० ख्रीष्टाब्दमध्ये एव निश्चीयते।

संस्काराचारकाला: समुदितरचनाः श्राद्धनीती विवादो

दानोत्सर्गप्रतिष्ठा जगति जयकरा: सङ्गतार्थानुबद्धाः।

काशी प्रायश्चित्तं विशुद्धिस्तदनु निगदिता शान्तिरेवं क्रमेण

ख्याता ग्रन्थेऽत्र शुद्धे बुधजनसुखदा द्वादशैते मयूखाः॥[६४]

बुन्देलनृपतेः भगवन्तदेवस्य पृष्ठपोषकतायां नीलकण्ठः भगवन्त भास्करग्रन्थं प्रणीतवान् । ग्रन्थेऽस्मिन् द्वादशमयूखा: विद्यन्ते । ते भवन्ति यथा १) संस्कारमयूखः

२) आचारमयूखः

३) समयमयूख:

४) श्राद्धमयूखः

५) नीतिमयूखः

६) व्यवहारमयूख:

७) प्रतिष्ठामयूखः

८) दानमयूखः

९) उत्सर्गमयूखः

१०) प्रायश्चित्तमयूखः

११) शुद्धिमयूखः

१२) शान्तिमयूखश्च।

भगवन्तभास्करस्य प्रकाशनं प्रथमवारं वनारसप्रान्तेऽभवत् । द्वितीयवारमय ग्रन्थ: जे. आर्. घारपुरेमहोदयेन १९२१ त: १९२८ ख्रीष्टाब्दमध्ये गुजुराति प्रेस्, बम्बेद्वारा प्रकाशित आसीत् । चौखम्वा संस्कृत प्रतिष्ठान, दिल्लीद्वारा १९८६ ख्रीष्टाब्दे तृतीयवारमपि ग्रन्थोऽयं प्रकाशितोऽस्ति।एतदतिरिक्तमन्यत्कृतिद्वयं तस्योपलभ्यते । तद्यथा- दत्तकनिर्णयः , व्यवहारतत्त्वञ्च ।

महेश्वरः

[सम्पादयतु]

का महेश्वर: सारस्वतदुर्गस्य पुत्रस्तथा विट्ठलपुरुषोत्तमस्य शिष्य आसीत् । असौ इरावतीनदीतटवर्तिनः लावपुरस्य राज्ञः माधवस्य पृष्ठपोषकतायामवर्त्तत । अतोऽस्य काल: १५०० तः १५५० ख्रीष्टाब्दमध्ये सम्भाव्यते । अनेन माधवप्रकाशग्रन्थ: विरचितः। अस्य ग्रन्थस्यापरं नाम आचारचन्द्रोदयो भवति । अत्र वाजसनेयिनां कृते आह्निककृत्यानि अष्टधाविभक्तदिवसेषु विचारितानि ।'

रत्नाकरभट्टः

[सम्पादयतु]

रत्नाकरभट्टः वाराणस्या: पण्डितश्रीदेवभट्टस्य पुत्रः शाण्डिल्यगोत्रीय श्चासीत् । असौ विष्णुसिंहस्य पुत्रस्य जयसिंहस्याश्रयेणावर्त्तत । असौ षोडशशतकीय आसीत् । रत्नाकरश्च जयसिंहनाम्ना जयसिंहकल्पद्रमग्रन्थं विरचितवान् । ग्रन्थेऽस्मिन् काल - व्रत - श्राद्ध - दानादिभिरेकादशस्तवकाः विद्यन्ते । नवशतपृष्ठात्मकोऽयं ग्रन्थ: १९२५ ख्रीष्टाब्दे वेङ्गटेश्वर ष्टीम् प्रेस्, कल्याण, मुम्बईद्वारा प्रकाशितोऽस्ति ।

चण्डूक:

[सम्पादयतु]

महामात्यः श्रीसम्राट्चण्डूक: १५९३ ख्रीष्टाब्दे चण्डूकनिबन्धं स्मार्त्तकर्मा नुष्ठानक्रमविवरणग्रन्थं विरचितवान् । ग्रन्थेऽस्मिन् श्राद्ध - मलमास -आह्निकादिविषयाणां विवेचनमस्ति ।

नृसिंहभट्टः

[सम्पादयतु]

नृसिंहभट्टः अत्रिगोत्रीय आसीत् । असौ विराटदेशस्य चन्दनगिरिसमीप वर्तिनः वसुमतीग्रामनिवासी आसीत् । नृसिंहभट्टः ख्रीष्टियषोडशतमे शतके विधानमालाग्रन्थं लिखितवान् । ग्रन्थेऽस्मिन् हरेः पुत्रः विश्वनाथ: टीकां कृतवान्। विधानमाला १९२० ख्रीष्टाब्दे आनन्दाश्रममुद्रणालय, पुनाद्वारा प्रकाशिता वर्तते।

मित्रमिश्रः

[सम्पादयतु]

काशीसम्प्रदायस्य प्रसिद्धधर्मनिबन्धकारेषु महामहोपाध्याय मित्रमिश्रोऽन्यतम आसीत् । असौ शाण्डिल्यगोत्रोत्पन्नस्य परशुरामपण्डितस्य पुत्रः, हंसपण्डितस्य पौत्रश्चासीत् । मित्रमिश्रः स्वग्रन्थेषूपक्रमणिकायां स्वपितृपिता महादीनां नामानि, स्ववंशस्य देशस्यात्मनश्च परिचयं प्रस्तौति । काशीनगरस्य चण्डीश्वर:[६५] मित्रमिश्रस्य गुरुरासीत्। मित्रमिथस्य त्रयः भ्रातर आसन् । द्वौ ज्येष्ठौ, एकश्च कनिष्ठः। भ्रातृषु प्रथम: वीरेश्वर: ज्येष्ठः, द्वितीय: ज्येष्ठ: चक्रपाणिः, तृतीयश्च स्वयं मित्रमिश्रः, कनिष्ठश्च योगादित्यः आसन् । स्वसुश्च नाम सुनीतिरिति । असौ मित्रमिश्रः दूरवारकुलजनिः पञ्चगौडान्त:पाति -सनाढ्याभिधब्राह्मणश्चासीत् । स गोपाञ्चलनिवासी आसीत् । यस्येदानीन्तन नाम गोवालियर वर्त्तते । मित्रमिश्रः राज्ञः वीरसिंहदेवस्य पृष्ठपोषकतायामवर्त्तत । वीरसिंहदेवस्यादेशानुसारमसौ तन्नाम्ना वीरमित्रोदयग्रन्थं प्रणीतवान् ।

वीरसिंहदेवस्य राजत्वकाल: १६०५ ख्रीष्टाब्दात् १६२७ ख्रीष्टाब्दं यावद् भवति । वीरमित्रोदयग्रन्थे वीरसिंहमहीपतेर्वदान्यता-धर्माभिमानिता शौर्यादयः लोकोत्तरगुणा: वर्णिता: सन्ति । मित्रमिश्रप्रणीतस्यानन्दकन्दचम्पूग्रन्थस्य समाप्तौ तन्निर्माणसमयो ग्रन्थका सूचितः। तदनुसारं ग्रन्थोऽयं १६८८ विक्रमसंव त्सरेऽर्थात् १६३२ ख्रीष्टाब्दे एव पूर्णतां गतः। पुनश्च परिभाषाप्रकाशस्योपोद्घाते वीरसिंहदेवस्य, तत्पुत्रस्य जुहारसिंहस्य, पौत्रस्य च वर्णनान्मित्रमिश्रः दीर्घजीवन मतिवाहितवानिति ज्ञायते । अत एव मित्रमिश्रस्य रचनाकालः ख्रीष्टीयसप्तदश शतकस्य प्रथमार्द्ध एव स्वीक्रियते ।

मित्रमिश्रविरचित: वीरमित्रोदयग्रन्थः धर्मशास्त्रवाङ्मये विशेषमहत्त्व मादधाति । हेमाद्रिविरचितं चतुर्वर्गचिन्तामणिं विहाय धर्मनिबन्धसाहित्येऽयं महान् ग्रन्थो भवति । वीरमित्रोदये द्वाविंशतिप्रकाशाः भवन्ति । ते यथा -

१) परिभाषाप्रकाशः,

२) संस्कारप्रकाशः,

३) आह्निकप्रकाश:,

४) पूजाप्रकाशः,

५) प्रतिष्ठाप्रकाशः,

६) राजनीतिप्रकाश:,

७) व्यवहारप्रकाश:,

८) शुद्धिप्रकाशः,

९) श्राद्धप्रकाश:,

१०) तीर्थप्रकाश:,

११) दानप्रकाश:,

१२) व्रतप्रकाश:,

१३) समयप्रकाश:,

१४) भक्तिप्रकाश:,

१५) शान्तिप्रकाश:,

१६) कर्मविपाकप्रकाश:,

१७) प्रायश्चित्तप्रकाशः,

१८) मोक्षप्रकाश:,

१९) लक्षणप्रकाशः,

२०) प्रकीर्णकप्रकाशः,

२१) चिकित्साप्रकाशः,

२२) ज्योतिषप्रकाशश्चेति।

एतेषु चौखम्बा संस्कृत सिरिज, वाराणसीद्वारा १९८७ ख्रीष्टाब्दे द्वादशप्रकाशा: प्रकाशिता: सन्ति । एतदतिरिक्ता अन्ये केचन ग्रन्था: मित्रमिश्रेण विरचिता आसन्। ते भवन्ति यथा -

१. मित्रमिश्रः याज्ञवल्क्यस्मृतौ वीरमित्रोदयाख्यां टीकां प्रणीतवान् । टीकेयं चौखम्बापुस्तकमालातः प्रकाशिताऽऽसीत् ।

२. वीरमित्रोदयग्रन्थः (गणितग्रन्थः)-काशिकराजकीयसरस्वतीभवनेऽमुद्रितः विद्यते।

३.आनन्दकन्दचम्पू: - काशिकराजकीयसरस्वतीभवनात् प्रकाशिता । नाममा मित्रमिश्रः स्वकृतिषु केषाञ्चन प्राचीनधर्मनिबन्धकाराणां नामानि उद्धरति। ते निबन्धकाराः भवन्ति यथा - अपरार्क - कल्पतरु - चण्डेश्वर जीमूतवाहन - रघुनन्दन - धारेश्वर - भवदेव - मदनसिंह - विज्ञानेश्वर- मेधातिथि - वाचस्पति - शूलपाणि - सोमेश्वर - देवणभट्ट - हलायुधाश्च । काम

विप्रमिश्रः

[सम्पादयतु]

उत्कलीयधर्मनिबन्धकारेषु विप्रमिश्रः एक प्रमुख स्थानं गृह्णाति। विप्रमिश्रस्य प्रौढपाण्डित्यपूर्णा शैली तदीयपाण्डित्यवैभवं सूचयति । सोऽयं विद्वन्मूर्धन्यो विप्रमिश्र उत्कलीय इति नास्ति विचिकित्सा। श्राद्धप्रदीपस्य बाधाभ्युच्चयालोके स्वजन्मभूमिरुत्कलदेश इति वदन्नुत्कलीयश्राद्धपरंपरायाः शास्त्रीय निबन्धनं प्रस्तौति। स्वविरचिते श्राद्धप्रदीपग्रन्थेऽपि स उत्कलीय धर्मनिबन्धकाराणां श्रीमतांशम्भुकरविद्याकरवाजपेयीचरणानां मतानि सम्मेलयति। तन्त्रालोके स्वजन्मभूमिप्रसिद्धशास्त्रीयसिद्धान्तान् प्रतिपादयितुम् 'अस्मद्देशेषु' इत्यादि पदं विन्यस्यति । एतेन विप्रमिश्रस्योत्कलीयत्वं निर्विवादं सिद्ध्यति । किन्तूत्कलेषु कं भागं स्वजन्मना मण्डयामास तन्नैतावज्ज्ञातुं शक्यते।

१. दिव्यसिंहमहापात्रप्रणीते श्राद्धदीपे, गदाधरराजगुरुप्रणीते कालसारे च विप्रमिश्रस्य नाम श्राद्धप्रदीपस्य मतानि चोट्टङ्कितानि सन्ति । अत एताभ्यां प्राचीन आसीदसौ विप्रमिश्रः।

२. विप्रमिश्रः श्राद्धप्रदीपग्रन्थे स्वगुरु नृसिंहमिश्रं स्मरति। स च नरसिंहमिश्र वाजपेयीमहोदयाद् भिन्न आसीत् । यतः स्वगुरुपादानां मतं न कुत्रापि उद्धरति । नरसिंहवाजपेयिकृत- श्राद्धप्रदीपस्य मतं न कुत्रापि विप्रमिश्रेणोद्धृतं दृश्यते । अतस्तस्माद् भिन्न आसीदसौ विप्रमिश्रस्य गुरुः नृसिंहमिश्रः । सप्तदशशतकस्य प्रथमभागोत्पन्न: विश्वनाथमिश्रः विप्रमिश्रादर्वाचीनः।

३. एतेभ्य: प्रमाणेभ्य: विप्रमिश्र: ख्रीष्टीयसप्तदशशतकस्य प्रथमभाग एवोदपद्यत इति ऐतिहासिकानां केदारनाथमहापात्रमहोदयानां मतम् । डा. शिशिरकुमारमित्र महोदय: विप्रमिश्रस्य कालं सप्तदशशतकस्य प्रथमभाग एवोपस्थापयति ।

श्राद्धप्रदीपः धर्मशास्त्रीयनिबन्धग्रन्थोऽपि अत्र भूयान् मीमांसातत्त्वानां विचार: परिदृश्यते । ग्रन्थेऽस्मिन् प्रथमभागे विप्रमिश्रः आपस्तम्बश्रौतसूत्र शतपथब्राह्मण- मनु- गौतम-वसिष्ठ- देवल- सुमन्तु- प्रचेता:- वैजवाप ऋष्यशृंग- जाबालि- गालव- हारीत- पैठीनसि- लौगाक्षि- पुलस्त्य- गर्ग शातातप- विष्णु- कात्यायन-याज्ञवल्क्य-पारस्करगृह्यसूत्र-गोभिलगृह्यसूत्र आश्वलायनगृह्यसूत्र-जैमिनि -ब्रह्मपुराण- ब्रह्माण्डपुराण- विष्णुपुराण - मत्स्यपुराण- मार्कण्डेयपुराण- वायुपुराण- स्कन्दपुराण- देवीपुराणानां वचनाानि उद्धरति ।

द्वितीयभागे शबरस्वामी- कुमारिलभट्ट- पार्थसारथिमिश्र- कर्काचार्य विज्ञानेश्वर- लक्ष्मीधरभट्ट- भवदेव- अनिरुद्धभट्ट- हेमाद्रि- श्रीदत्त - माधवाचार्य - शूलपाणि- शम्भुकर- विद्याकर- चण्डेश्वर- वाचस्पतिमिश्र- कृत्यकौमुदीकार नारायणभट्ट- नृसिंहमिश्रादीनां मतानि स्मरति ।

विप्रमिश्रं तद्विरचितं श्राद्धप्रदीपं च परवर्तिनः धर्मनिबन्धकाराः ससम्मानमुद्धरन्ति । तेषु श्राद्धदीपकार: दिव्यसिंहमहापात्रः षडार, कालसारकारः गदाधरराजगुरुः पञ्चवारं, कालसर्वस्वकारः कृष्णमिश्रमहोदयः वारत्रय, पण्डितसर्वस्वकारोऽपि वारमेकं स्मरन्ति । मिया ग्रन्थेऽस्मिन् षडध्यायाः विद्यन्ते । अध्यायानां संज्ञा आलोकपदेनात्र परिकल्पिता । तेषामालोकानां नामानि यथा -

प्रथमाध्यायः - प्रथमालोकः(अङ्गप्रधाननिर्णयविषयक:),

द्वितीयाध्यायः- क्रमालोकः।

तृतीयाध्यायः- अतिदेशालोकः

चतुर्थाध्यायः- ऊहालोकः पर

पञ्चमाध्याय:- बाधाभ्युच्चयालोकः

षष्ठाध्याय:-- तन्त्रालोकः।

ग्रन्थेऽस्मिन् प्रथमाध्याये पञ्चमीमांसाधिकरणानि, द्वितीयाध्याये अष्टौ अधिकरणानि, तृतीयाध्यायेऽधिकरणमेकं, चतुर्थाध्याये सप्तदशाधिकरणानि, पञ्चमाध्याये षोडशा धिकरणानि, षष्ठाध्याये षडधिकरणानि च विवेचितानि सन्ति ।

भट्टोजिदीक्षित:

[सम्पादयतु]

भट्टोजिदीक्षित: लक्ष्मीधरस्य पुत्र आसीत् । असौ १६००-१६५० ख्रीष्टाब्दाभ्यन्तरे वर्तमान आसीत् । अनेनानेके ग्रन्थाः विरचिताः सन्ति । ते ग्रन्थाः भवन्ति यथा -

१)चतुर्विंशतिमतसंग्रहटीका,

२) हेमाद्रिकालनिर्णयसंक्षेपः,

३) धर्मशास्त्रसर्वस्वम्,

४) गोत्रप्रवरभास्करः,

५) तिथिनिर्णयः,

६) प्रायश्चित्तनिर्णयः,

७) सापिण्ड्यनिर्णयः,

८) त्रिस्थलीसेतुसारः,

९) प्रायश्चित्तसारः,

१०) आचारप्रदीपश्च।

भट्टोजिदीक्षितस्य पुत्र: भानुभट्ट: १६५० ख्रीष्टाब्दे दानविवेकग्रन्थं प्रणीतवान् ।

विश्वनाथमिश्रः(१६००-१६५० ख्री.)

[सम्पादयतु]

धर्मनिबन्धकारः विश्वनाथमिश्रः उत्कलप्रान्त एवाजायत । उत्कलस्य बहुषु प्रान्तेषु ग्रन्थस्यास्य मातृकाः उत्कललिप्यामेवोपलभ्यन्ते। उत्कलीयधर्मनिबन्धकारा: दिव्यसिंहमहापात्र-कृष्णमिश्रादयोऽस्य मतं समुद्धरन्ति। विश्वनाथ: स्वयमपि स्मृतिसारसंग्रहग्रन्थेशम्भुकर- विद्याकर-बृहस्पतिप्रभृतीनामु त्कलीयानां मतान्युट्टङ्कयति। अस्माच्चास्योत्कलीयत्वे नास्ति संशयः। 15 विश्वनाथः शम्भुकर-विद्याकर- बृहस्पतिप्रभृतीनां मतमुद्धृत्य तेभ्यः आत्मनोऽर्वाचीनतां प्रतिपादयति । अतोऽस्य काल: पञ्चदशशतकानन्तरमेव भवेत्। पुन: दिव्यसिंह- कृष्णमिश्रादिभिः विश्वनाथस्य मतमुद्धृतत्वादस्य काल: सप्तदश शतकानन्तरं न भवेत् । अस्माद् विश्वनाथमिश्रस्य काल: ऐतिहासिकैः १५५० तः १६५० ख्रीष्टाब्दाभ्यन्तर एव भवेत् ।।

विश्वनाथमिश्रः स्मृतिसारसंग्रहनामकं धर्मनिबन्धं रचितवान् । अस्मिन् ग्रन्थे मुख्यत: संवत्सरोद्भवानां व्रतोत्सवानां कालविचारः, मासकृत्यानि, स्नानयोगाः, श्राद्धकालाः, संस्कारकालाश्च प्रतिपादिताः सन्ति । ग्रन्थोऽयं श्रीमता डा.अतुलकुमारनन्देन २००१ ख्रीष्टाब्दे प्रकाशितोऽस्ति ।

गङ्गाधरः

[सम्पादयतु]

गङ्गाधरः रामचन्द्रस्य पुत्रः आसीत् । स च स्तम्भतीर्थे १६०६-०७ ख्रीष्टाब्दयोर्मध्ये प्रवासकृत्यग्रन्थं प्रणीतवान् । ग्रन्थेऽस्मिन् जीविकानिमित्त प्रवासगतस्य साग्निकस्य ब्राह्मणस्य कर्त्तव्यानि वर्णितानि सन्ति ।

शङ्करभट्टः

[सम्पादयतु]

शङ्करभट्टः नीलकण्ठभट्टस्य पुत्रः, शङ्करभट्टस्य पौत्रश्चासीत् । तस्य काल: १६२० तः १६७५ ख्रीष्टाब्दमध्य एवैतिहासिकैः निश्चीयते । स च १६७१ ख्रीष्टाब्दे कुण्डभास्करग्रन्थं प्रणीतवान्। तस्यान्ये ग्रन्थाः यथा - कर्मविपाक:, एकादशीनिर्णयः, सदाचारसंग्रहः, व्रतार्कश्च । व्रतार्क: १८८१ ख्रीष्टाब्दे लखनउप्रान्ते मुद्रितोऽभवत् । व्रतार्के ११३ व्रतान्युद्धृतानि सन्ति ।

विश्वम्भरत्रिवेदी

[सम्पादयतु]

विश्वम्भरत्रिवेदी भीममल्लस्य पुत्रस्य नारायणमल्लस्याज्ञया स्मृतिसारोद्धार ग्रन्थं विरचितवान् । स च १६०० तः १६५० ख्रीष्टाब्दाभ्यन्तरे विद्यमान आसीत्। स्मृतिसारोद्धारग्रन्थे द्वादशोद्धारा: सन्ति । ते भवन्ति यथा -

१) सामान्यनिर्णयः,

२) एकभक्तादिनिर्णयः,

३) तिथिसामान्यनिर्णयः,

४) प्रतिपदादितिथिनिर्णय:,

५) व्रतनिर्णयः,

६) संक्रान्तिनिर्णयः,

७) श्राद्धनिर्णयः,

८) आशौचनिर्णयः,

९) संस्कारकालनिर्णयः,

१०)आह्निकनिर्णयः,

११) व्यवहारनिर्णयः,

१२) प्रायश्चित्तनिर्णयश्चेति ।

ग्रन्थोऽयं विद्याविलास प्रेस्, वनारस द्वारा १९११ ख्रीष्टाब्दे प्रकाशितोऽस्ति।

मणिरामदीक्षित:

[सम्पादयतु]

मणिरामदीक्षितः गङ्गारामस्य पुत्रः, शिवदत्तस्य पौत्रश्चासीत् । महाराजस्यानूपसिंहस्य पृष्ठपोषकतायामसाववर्त्तत। अनूपसिंहः महाराजस्य कर्णसिंहस्य पुत्र आसीत् । अतोऽनूपसिंहस्य राजत्वकालानुसारं मणिरामस्य काल: ख्रीष्टीयसप्तदशशतकमध्य एव निश्चीयते ।

मणिराम: अनूपसिंहस्य पृष्ठपोषकतायां स्थित्वा बहून् ग्रन्थान् विरचितवान्। तेषु प्रमुखग्रन्थो भवति अनूपविलासः धर्माम्भोधिर्वा । ग्रन्थेऽस्मिन् षड्विभागा: सन्ति। ते भवन्ति यथा - आचाररत्नं, समयरत्नं, संस्काररत्नं, वत्सररत्नं, दानरत्नं, शुद्धिरत्नञ्च । एतदतिरिक्तं स: गयायात्राप्रयोगं, अन्त्यक्रियापद्धति, मनुस्मृतौ सुखबोधिनीटीकामपि विरचितवान् ।

अनन्तभट्टः

[सम्पादयतु]

अनन्तभट्टः काण्वकुलोद्भवः, जह्नो: पौत्रः, नागदेवस्य पुत्रश्चासीत् । सः १६२५ ख्रीष्टाब्दे वनारसमध्ये विधानपारिजातग्रन्थं विरचितवान् । ग्रन्थेऽस्मिन् आह्निक - संस्कार - तीर्थ - दान - शान्ति - प्रकीर्णकविषयाः पञ्चस्तवकेषु प्रतिपादिताः सन्ति । एतदतिरिक्तं स: वृषोत्सर्गप्रयोगमपि लिखितवान् । विधानपारिजात: कृष्णदास एकाडेमी, वनारसद्वारा १९९२ ख्रीष्टाब्दे प्रकाशितो विद्यते ।

दिवाकरभट्टः(१६०० - १६८० ख्री.)

[सम्पादयतु]

दिवाकरभट्ट: भारद्वाजगोत्रीयः, महादेवस्य पुत्रः, रामकृष्णभट्टस्य च दौहित्र आसीत् । स च १६६० ख्रीष्टाब्दत: १६८० ख्रीष्टाब्दाभ्यन्तरे अन्त्येष्टिप्रकाशं, स्मार्त्तप्रायश्चित्तप्रयोगं, कालनिर्णयचन्द्रिका, प्रायश्चित्तचन्द्रिका, आह्निकचन्द्रिकां, आचारार्क, पञ्चायतनपद्धति, तिथ्यङ, प्रतिष्ठार्कं, त्रिवेणीपद्धतिं च विरचितवान्।

हरिभास्करः

[सम्पादयतु]

हरिभास्कर: काश्यपगोत्रीयः, काशीस्थस्यापाजिभट्टस्य पुत्रः, हरिभट्टस्य पौत्रः, पुरुषोत्तमस्य प्रपौत्रश्चासीत् । स च बुन्देलखण्डस्य राज्ञः इन्द्रमणिदेवस्य पुत्रस्य यशवन्तदेवस्याश्रयेण १६७६ ख्रीष्टाब्दे यशवन्तभास्करग्रन्थं प्रणीतवान् । यशवन्तभास्करस्यान्यतमो भागः संवत्सरकृत्यप्रकाश: पाण्डुलिपिरूपेण प्राप्यते। अन्ये भागाः यथा - आचारप्रकाशः, मुक्तिक्षेत्रप्रकाशः, शुद्धिप्रकाशः, स्मृतिप्रकाशश्च। शुद्धिप्रकाश: १६९५ -९६ ख्रीष्टाब्दयोर्मध्ये प्रणीतः।

अनन्तदेवः

[सम्पादयतु]

महाराष्ट्रियधर्मनिबन्धसम्प्रदाये अनन्तदेवः सर्वप्राचीनो भवति । तस्य पितुः नाम आपदेव: (द्वितीय), पितामहस्य नाम अनन्तदेव: (प्रथमः), प्रपितामहस्य नाम आपदेवः (प्रथमः), वृद्धप्रपितामहस्य च नाम एकनाथ: आसीत् । एकनाथश्च महाराष्टे सन्त एकनाथनाम्ना प्रसिद्धः। अनन्तदेवस्य कनिष्ठभ्राता जीवदेव आसीत्। असौ राज्ञ: नीलचन्द्रस्य पुत्रस्य वाजवाहादुरचन्द्रस्य पृष्ठपोषकतायामवर्त्तत।

अनन्तदेवस्य पूर्वजस्य एकनाथस्य काल: १५२८ ख्रीष्टाब्दात् १६०० ख्रीष्टाब्दपर्यन्तं स्वीक्रियते। मराठीभाषायां भागवतमेकनाथः रचितवान्। यत्र ग्रन्थसमाप्तिकाल: १५७३ ख्रीष्टाब्दस्य नवम्बरमासस्य नवमदिनाङ्क एव सूचितोऽस्ति । एकनाथस्य मृत्युः शक १५२१ संवत्सरे फाल्गुनस्य षष्ठदिवसे अर्थात् १६०० ख्रीष्टाब्दस्य फेवृयारीमासस्य पञ्चविंशतिदिनाङ्केऽभवत् । अनन्तदेवस्य कनिष्ठभ्रात्रा जीवदेवेनाशौचनिर्णयग्रन्थे निर्णयसिन्धुमतमुद्धृतमस्ति। अत एतेभ्य: प्रमाणेभ्योऽनन्तदेवस्य काल: १६५० तः १७०० ख्रीष्टाब्दमध्ये एव स्थिरीकर्तुं शक्यते । स च गोदावरीतीरे न्यवसदिति तत्कृतिषुल्लिखितमस्ति । तत्कुलीनाः सर्वे श्रीकृष्णभक्ता आसन् ।

अनन्तदेव: धर्मशास्त्रे बहून् ग्रन्थान् प्रणीतवान् । ते च ग्रन्थाः भवन्ति यथा -

१) स्मृतिकौस्तुभ:,

२) अन्त्येष्टिपद्धतिः,

३) चातुर्मास्यप्रयोगः,

४) भगवद्भक्तिनिर्णयः,

५)अग्निहोत्रप्रयोगः,गलियामा

६) लक्ष्मीधरस्य भगवन्नामको मुद्यां प्रकाशनाम्नी टीका च ।

अनन्तदेवविरचिते स्मृतिकौस्तुभे सप्तप्रकरणानि विद्यन्ते । तानि यथा -

१) संस्कारकौस्तुभः,

२) आचारकौस्तुभः,

३) राजधर्मकौस्तुभः,

४)दानकौस्तुभः,

५)प्रतिष्ठाकौस्तुभः,

६)तिथिकौस्तुभ:,

७)संवत्सरकौस्तुभश्च ।

प्रतिष्ठाकौस्तुभे उत्सर्गकौस्तुभनाम्नाऽवान्तरप्रकरणमपि विद्यते। एतदतिरिक्तं मोतिलाल वनारसीदासप्रकाशिते १९८५ ख्रीष्टाब्दे मुद्रितस्मृतिकौस्तुभे आशौचदीधितिनाम्ना प्रकरणमेकं वर्त्तते। एतेषु ग्रन्थेषु संस्कारकौस्तुभ: सर्वाधिक महत्त्वं प्राप्नोति। स च ग्रन्थः प्रथमवारं १९१३ ख्रीष्टाब्दे निर्णयसागरप्रेसद्वारा, द्वितीयवारं च गायकवाड ओरियण्टाल सिरिजद्वारा १९३४ ख्रीष्टाब्दे प्रकाशितोऽभवत् ।

ग्रन्थेऽस्मिन् गर्भाधानादारभ्य विवाहं यावत् षोडशसंस्काराणां वर्णन दृश्यते । तदतिरिक्तं पुण्याहवाचनं,नान्दीश्राद्धं, मातृकापूजनं, नारायणबलि:, नागबलिः, दत्तकपुत्रस्य स्वरूपमधिकारश्च, दत्तकस्य सापिण्ड्यविचारः, उत्तराधिकारः, विवाहान्तं सर्वे संस्काराश्चात्र पुडानुपुङ्ख विवृता: सन्ति।

राजधर्मकौस्तुभ: १९३५ ख्रीष्टाब्दे गायकवाड ओरियण्टाल सिरिजद्वारा प्रकाशित आसीत् । तस्मिन् ग्रन्थे दीधितिचतुष्टयं विद्यते। तत्र प्रथमदीधितौ राजधानी (दुर्ग)प्रतिष्ठा, प्रासाद-मन्दिर-प्रतिमा-लिङ्ग-पुष्करिणी-कूपादीनां प्रतिष्ठाविधय: वर्णिताः सन्ति। द्वितीयदीधितौ- वास्तुपूजा, मूर्तीनां निर्माणविधिः, वास्तुयागप्रयोगः,मन्दिरकूपपुष्करिणीनामुत्सर्गविधयश्च। तृतीयदीधितौ राज्याभिषे कविधिः, चतुर्थदीधितौ प्रजापालन-युद्धादिविषयाश्च।

मोतिलालबनारसीदासप्रकाशिते तिथिकौस्तुभे प्रतिपादितविषयाः यथा तिथिनिर्णयपरिभाषा,युग्मवाक्यविचारः, कर्मणामवान्तरभेदाः, एकभक्तन क्तादिविचारः, व्रतारम्भकालः, व्रते प्रतिनिधिः, व्रतघ्नानि, हविष्याणि, पारणाविचारः, द्वितीयादि चतुर्दश्यन्तनिर्णयः, पर्वनिर्णयः, पिण्डपितृयज्ञः, स्थालीपाककालः, आग्रयणकालः, चातुर्मास्यानां कालः, आधानकालः, वाजपेयकालः, सोमविकाराः, ग्रहणनिर्णयश्च।

संवत्सरकौस्तुभे प्रतिपादिता: मुख्यविषयाः यथा - चान्द्रसंवत्सरनिर्णय:, चैत्रमासकृत्यम्, वैशाखकृत्यम्, ज्येष्ठकृत्यम्, आषाढकृत्यम्, श्रावणकृत्यम्, भाद्रपदकृत्यम्, आश्विनकृत्यम्, कार्तिककृत्यम्, मार्गशीर्षकृत्यम्, पौषकृत्यम्, माघकृत्यम्, फाल्गुनकृत्यम्, अधिकमासकृत्यम्, बार्हस्पत्याब्दकृत्यम्, कलिवानि चेति ।

आशौचदीधितौ प्रतिपादिता: मुख्यविषयाः यथा -आशौचभेदाः, सूतकनिर्णयः,मृतकनिर्णयः,अतिक्रान्ताशौचम्, सन्निपाताशौचम् , अतीतसंस्कारः, आशौचे श्रौतादिकृत्यनिर्णयश्चेति । निर्णयसिन्धुवदनन्तदेवस्य संस्कारकौस्तुभग्रन्थे शताधिकानां स्मृतिकाराणां धर्मनिबन्धकाराणां नामानि मतानि चोद्धृतानि सन्ति ।

दिव्यसिंहमहापात्र:(१६५०-१७०० ख्री.)

[सम्पादयतु]

दिव्यसिंहमहापात्रः उत्कलप्रान्तस्य श्रीपुरुषोत्तमक्षेत्रसमीपवर्त्तिनं विश्वनाथपुरशासनं स्वजन्मनाऽलङ्कृतवान् । स च वत्ससगोत्रीयः, सामन्तब्राह्मणः, भवानीशङ्करयोश्चोपासक आसीदिति तत्कृतकालदीपस्य मङ्गलाचरणाज्ज्ञायते। विश्वनाथपुरशासने वत्ससानां प्रोक्तदेवत्रयस्य च प्रतिष्ठानं वर्तते। वत्ससगोत्रीयाः ब्राह्मणा: कुलपरम्परया आचार्योपाधिका आसन् । कविडिण्डिमजीवदेवाचार्यः, तत् पिता त्रिलोचनदेवाचार्यादयस्तवंशीया: राजसम्मानिता आसन् । कालक्रमेण ते सामन्तोपाधिं महापात्रपदवीं चलब्धवन्तः। तस्यैव विख्यातवंशेऽयं दिव्यसिंहः उदपद्यत ।

दिव्यसिंह: कालदीपे कालमाधवकारं बहुधा स्मरति । स च श्राद्धदीपे शूलपाणिं दूषयति, विप्रमिश्र- विश्वनाथमिश्रयोः श्राद्धप्रदीप, स्मृतिसारसंग्रह चोद्धरति। विद्याकर-नरसिंहवाजपेयिनौ नित्याचारपद्धति- नित्याचारप्रदीपकारा वप्युदाहरति, तथा विज्ञानेश्वरं, कल्पतरुकारं, शुद्धिचन्द्रिकाकारं कालिदासचयनिनं च स्मरति। संवत्सरप्रदीपं, स्मृतिरत्नमाला, मदनपारिजातं चोल्लिखतीति तेभ्योऽयं नूनमर्वाचीनः। कृत्यकौमुदीकारमनुद्धरन्नपि तन्मतं कोजागरकृत्ये समुद्धरन् रघुनन्दनं समुद्धरन्नात्मानं ततोऽर्वाचीनं स्वयमेव वक्ति ।

गदाधरश्च दिव्यसिंहस्य नामानुद्धरन्नपि बहूनि दिव्यसिंहमतानि खण्डयति। दिव्यसिंहः गदाधरमतविरोधं न दर्शयतीति नूनमयं गदाधरात् प्राचीनः। पण्डितसर्वस्वकारोऽपि तथैव महाष्टम्यां निशीथकालं दर्शयन् दिव्यसिंहादर्वाचीन: एव । ऐतिहासिकाश्च दिव्यसिंहस्य कालं १६५० तः १७०० ख्रीष्टाब्दमध्ये स्थापयन्ति ।

दिव्यसिंहः कालदीप, श्राद्धदीपं, दिव्यसिंहकारिकां च विरचितवान् । तद्विरचितः कालदीपः पण्डितश्रीकुलमणिमिश्रमहोदयैः १९८२ संवत्सरे तेजनीसमुपेतः प्रकाशं नीतः। श्राद्धदीपश्च प्रथमवारं पण्डितश्रीयादवेन्द्रनाथराय महोदयेन सम्पादितः, एसियाटिक सोसाइटि अफ् वेंगल, कलिकताद्वारा १९७७ ख्रीष्टाब्दे प्रकाशितश्चासीत् । ततः द्वितीयवारं च मयाऽयं ग्रन्थः २००९ ख्रीष्टाब्दे सम्पाद्य प्रकाशितः। दिव्यसिंहकारिकानाम्ना तृतीयग्रन्थोऽद्यावधि न प्रकाशितः। कालदीपग्रन्थे संवत्सरोद्भवानांव्रतोत्सवानां, पर्वणां, स्नानयोगानां, ग्रहणसंक्रान्ति मलमासादिविषयाणां समावेश: दृश्यते ।

श्राद्धदीपग्रन्थे श्राद्धस्वरूपमशौचं, बालाद्यशौचं, कन्याशौचं, पर्णनरदाहविधिः, सपिण्डीकरणविचारः, वृद्धिश्राद्ध -अमावास्याश्राद्ध - अष्टका युगादि - तीर्थ - आमश्राद्धानि, अपरपक्षश्राद्ध- पार्वणश्राद्ध - काम्यश्राद्ध - मन्वादिश्राद्धानि प्रतिपादितानि सन्ति।दिव्यसिंहः विषयप्रतिपादनावसरे केषाञ्चन धर्मनिबन्धकाराणां नामानि मतानि चोद्धरति । तेषु धर्मनिबन्धकारेषु शतानन्द विज्ञानेश्वर - माधवाचार्य - वाचस्पति - कुल्लूकभट्ट - लक्ष्मीधर - गोविन्दराज-नरसिंहवाजपेयी -विप्रमिश्र-विश्वनाथमिश्र -मेधातिथि -मदनसिंह- शूलपाणि शम्भुकर - कालिदासचयनिप्रभृतीनां नामानि प्रमुखानि सन्ति। दिव्यसिंहः सर्वशास्त्रज्ञः, धर्ममर्मज्ञ: विद्वान्नासीत् । तस्य धर्मशास्त्रीयविषयाणां प्रणयनशैली अत्यन्तं सरला, सुस्पष्टा च प्रतीयते । एतदर्थं सः धर्मशास्त्रीयनिबन्धकारेषु विशेषमहत्त्वं धारयति ।

नागोजिभट्टः

[सम्पादयतु]

महाराष्ट्रीयधर्मनिबन्धसंप्रदाये प्रसिद्धः धर्मनिबन्धकार: नागोजिभट्टः शिवभट्टस्य पुत्र आसीत् । तस्य मातुः नाम सती आसीत् । स च काल उपाधिधारी महाराष्ट्रीय ब्राह्मण आसीत् । भट्टोजिदीक्षितस्य पौत्रः, वीरेश्वरस्य पुत्रश्च हरिदीक्षित: नागोजिभट्टस्य गुरुरासीत् । प्रयागसमीपस्थ-श्रृङ्गवेरपुरस्य विसेनकुलस्य राज्ञः रामचन्द्रस्याश्रयेणासाववर्त्तत । नागोजिभट्ट: व्याकरणशास्त्रे नागेशभट्टनाम्ना सुविदितः।

भट्टोजिदीक्षितस्य काल: १५७५-१६७५ ख्रीष्टाब्दमध्ये स्थिरीक्रियते। नागोजिभट्टकृतायां रसमञ्जरीटीकायां तस्य लेखनकाल: १७१३ ख्रीष्टाब्द इति लिखितमस्ति । अतोऽसौ नागोजिभट्टः १६७५ तः १७७५ ख्रीष्टाब्दपर्यन्तं जीवित आसीदित्यनुमीयते । तस्य साहित्यिककालश्च १७०० -१७५० ख्रीष्टाब्दपर्यन्तं सम्भवेत् । महामहोपाध्यायहरप्रसादशास्त्रीमहोदयानां मतानुसार नागोजिभट्टस्य मृत्युः १७७५ ख्रीष्टाब्देऽभवत् । यदा स एकशतवर्षवयस्क: वृद्ध आसीत् ।

नागोजिभट्टः प्रसिद्ध: विद्वान्नासीत् । सः धर्मशास्त्र-साहित्य-व्याकरण कर्मकाण्डादिषु विविधशास्त्रेषु पारंगत आसीत् । तद्विरचिताः धर्मशास्त्रसम्बन्धिनः ग्रन्थाः भवन्ति यथा -

१)आचारेन्दुशेखरः,

२) अशौचनिर्णयः,

३)आशौचेन्दुशेखरः,

४)उपाकर्मप्रयोगः,

५)कुण्डपद्धतिः,

६)गोत्रप्रवरनिर्णयः,

७)चण्डीप्रयोगः,

८)तिथिनिर्णयतत्त्वं,

९)तिथीन्दुशेखरः,

१०)तीर्थेन्दुशेखरः,

११)श्राद्धेन्दुशेखरः,

१२)प्रायश्चित्तेन्दुशेखरः,

१३)त्रिस्थलीसेतुसारसंग्रहः,

१४)प्रायश्चित्तसारसंग्रहः,

१५)संस्काररत्नमाला,

१६)सप्तशतीप्रयोगविधिः,

१७)सपिण्डमञ्जरी,

१८)सापिण्ड्यप्रदीपश्च ।

अन्याः कृतय: यथा -

१)महाभाष्य-प्रदीपोद्योतः,

२)परिभाषेन्दुशेखरः,

३)वैयाकरणसिद्धान्तमञ्जूषा,

४)काव्यप्रकाशे प्रदीपटीका,

५)कुवलयानन्दटीका,

६)रसमञ्जरीटीका,

७)रसतरंगिणीटीका,

८)रसगंगाधरे[६६]-मर्मप्रकाशटीका,

९)शब्देन्दुशेखरश्चेति ।

एतेषु ग्रन्थेषु अनेके ग्रन्थाः प्रकाशिता:, अनेके चेदानीं यावदप्रकाशिता: सन्ति।

साम्बाजीप्रतापराजः (सप्तदशशतकीयः)

[सम्पादयतु]

प्रतापराज: जामदग्न्यवत्सगोत्रस्य पण्डितपद्मनाभस्य पुत्र आसीत् । असो भट्टकूर्मस्य शिष्यः, निजामशाहस्याश्रितश्चासीत् । स च परशुरामप्रतापग्रन्थ विरचितवान् । ग्रन्थेऽस्मिन् आह्निक - जातिविवेक - दान - प्रायश्चित्त- संस्कार राजनीति - श्राद्धादीना विवेचन विद्यते ।

रघुनाथ सार्वभौमः

[सम्पादयतु]

रघुनाथ: मथुरेशस्य पुत्रः आसीत् । स च राज्ञः रत्नेश्वररायस्यादेशेन १६६१ ६२ ख्रीष्टाब्दयोर्मध्ये स्मार्त्तव्यवस्थार्णवग्रन्थं प्रणीतवान् । ग्रन्थेऽस्मिन् षट्परिच्छेदेषु तिथि - संक्रान्ति - आशौच - द्रव्यशुद्धि - प्रायश्चित्त - दायव्यवस्था: विचारिताः सन्ति । दायभागव्यवस्थाग्रन्थः अष्टतरङ्गैर्विभक्तः।

गदाधरराजगुरुः

[सम्पादयतु]

आसीत् कश्चन प्रसिद्धधर्मनिबन्धकार: उत्कलीयधर्मशास्त्रसंप्रदाये गदाधर राजगुरुनामा । सकलस्मृति-ज्योतिष-पुराणादिषु शास्त्रेषु अगाधपाण्डित्य स्याधिकारी आसीदसौ महोदयः। एतद्विरचितधर्मशास्त्रीयनिबन्धग्रन्थानां प्रणयनशैली सर्वथा भिन्नाऽभिनवा च वर्त्तते । तस्य लेखनशैली, शब्दसंयोजन, पाण्डित्यस्य प्रौढता च सर्वथाऽऽकर्षणीया। सनातनधर्मपालनतत्परेऽस्मिन् उत्कलभूभागे सप्तदशशतकस्यान्तिमभागेऽष्टादशशतकस्य प्रथमचरणे चोत्कल गजपतीनां पृष्ठपोषकतां स्वीकृत्यासौ गदाधरः धर्मनिबन्धप्रणयने प्रवृत्त: आसीत् ।

विद्वन्मूर्द्धन्योऽयं गदाधरः कौशिकगोत्रीय: ब्राह्मण आसीत् । पुर्या: उपकण्ठे वीरहरेकृष्णपुरनामके ग्रामे कश्चिद् बृहत्पण्डितोपाधिलब्धः श्रीमान् श्रीकृष्णमहापात्रः राज्ञः पुरुषोत्तमदेवस्य शासनकाले रराज। स च गदाधरराजगुरोः पितामहः आसीदिति तस्य कालसारग्रन्थस्य मङ्गलाचरणाज्ज्ञायते। अस्य श्रीकृष्णमहापात्रस्याद्भुत प्रतिभायां पाण्डित्यस्य पारदर्शितायां च मुग्धो भूत्वा खुरुधागडस्य राजा तं बृहत्पण्डितो'पाधिनाऽभूषयत् । स च नीतिरत्नाकरनामकस्य धर्मनिबन्धग्रन्थस्य रचयिताऽऽसीत् । अस्य श्रीकृष्णमहापात्रस्य हलधरः, नीलाम्वरः, यमेश्वरश्चेति त्रयः पुत्राः आसन् । तस्य ज्येष्ठपुत्र: हलधर: शारदवाजयेयीनामकं यज्ञं कृत्वा गजपतिहरेकृष्णदेवस्य प्रियभाजनोऽभूत् । राज्ञः अनुग्रहात् स पुरीनिकटवर्त्तिवीर हरेकृष्णपुरशासनं प्राप्तवान् ।

हलधरस्य कनिष्ठभ्राता नीलाम्वर: गदाधरस्य पिताऽऽसीत् । माता च जानकीदेवी आसीदिति शुद्धिसारग्रन्थादुपलभ्यते । यथा -

यज्वा यच्चरमो यमेश्वर इति भ्राता बृहत्पण्डित-

गाजणा गानिक स्तं नीलाम्वरनामकं च पितरं श्रीजानकीमातरम् ।

नत्वा राजगुरुर्गदाधरसुधी: स्वैः शुद्धिसाराभिधं

पद्यैः संतनुते प्रबन्धमृषिवाङ्मयोत्कलाचारकम् ॥[६७]

अयं नीलाम्वर: न केवलं धर्मशास्त्रे अपि तु वेदान्तज्योतिषादिषु शास्त्रेषु निपुणः परमविद्वांश्चासीत् । सः श्रीजगन्नाथदेवस्य स्नानोत्सवमाश्रित्य 'स्नानोत्सवस्तोत्र'मेकं रचितवान् । नीलाम्वर: चतुर्मखादिबहूनां यज्ञानामनुष्ठाता आसीत् । गजपतिहरेकृष्णदेवस्य (१७१५-१७१८ ख्री.अ) राजगुरुरपि आसीदसौ नीलाम्वरः। तस्य पाण्डित्यस्य पराकाष्ठायां मुग्ध: सन् गजपति: तं स्वर्णतारखचितं छत्रमेकमुपाहृतवान् । अस्य कनिष्ठभ्राता यमेश्वरोऽपि एकः प्रसिद्धयाज्ञिक: विख्यातपण्डितश्चासीत् ।

पवित्रतमायामस्यामुत्कलभूमौ जन्मग्रहणं कृत्वोत्कलप्रदेशं धर्मशास्त्रवाङ्मय च गौरवमण्डितं कृतवानसौ गदाधरः। गदाधरस्य ज्येष्ठतात: हलधरः राज्ञः हरेकृष्णदेवस्यानुग्रहात् पुरीनिकटवर्ति-वीरहरेकृष्णपुरशासनं प्राप्तवान् । अतः गदाधरस्योत्कलीयत्वे नास्ति संशयलेशः।

अयं गदाधरः उत्कलीयप्रख्यात-धर्मनिबन्धकारस्य नरसिंहवाजपेयिनः परवर्ती तथा धर्मनिबन्धकारस्य रघुनाथदाशस्य समकालीनः आसीत्। असौ स्वग्रन्थे बृहस्पति- विप्रमिश्र- विश्वनाथमिश्र- शम्भुकर- विद्याकर- कालिदासचयनि प्रभृतीनामुत्कलीयधर्मनिबन्धकाराणां नामानि मतानि चोद्धरति । अमुं गदाधरराजगुरुमपि कृष्णमिश्र- भुवनेश्वरवडपण्डाप्रमुखा: धर्मनिबन्धकाराः स्मरन्ति। निबन्धकाराणां पौर्वापर्याकलनात्, हरेकृष्णदेवस्य नृपतेः राजगुरुत्वेन च वर्तमानत्वा दस्य काल: ख्रीष्टात् परं सप्तदशशतकस्यान्तिमा दष्टादशशतकस्य च प्रथम चरणाभ्यन्तर एव स्थापयितुं शक्यते ।

गदाधरराजगुरु: गदाधरपद्धतिनामानं धर्मनिबन्धग्रन्थं प्रणीतवान् । अस्य चापरं नाम स्मृतिसारः। ग्रन्थोऽयमष्टादशभागैर्विभक्तः। तेष्वाचारसारः,कालसारः, शुद्धिसारः, व्रतसारः, दानसारः, विवाहसार:, स्नानसारः, संस्कारसारश्चेति प्रमुखा: सन्ति । कालसारग्रन्थे शुद्धिसार- दानसार- व्रतसार- विवाहसारग्रन्थानामुल्लेख: दृश्यते । आचारसारेऽपि स्नानसार- संस्कारसारयोः उल्लेख: प्राप्यते । एतेषु ग्रन्थेषु आचारसार- कालसारौ द्वौ नागराक्षरेण एसियाटिक सोसाइटि अफ वेङ्गलद्वारा १९०५ ख्रीष्टाब्दे प्रकाशितौ वर्तेते। कालसारोऽपि उत्कलप्रान्ते बहुवारं प्रकाशितोऽस्ति । शुद्धिसारश्च मया २००१ ख्रीष्टाब्दे सम्पाद्य प्रकाशितः। काण्डत्रयात्मकोऽयं ग्रन्थ: कालशुद्धिं, द्रव्यशुद्धिं, शारीरशुद्धिं च प्रतिपादयति ।

गोपालन्यायपश्चाननभट्टाचार्य:

[सम्पादयतु]

श्रीगोपालभट्टाचार्यः वङ्गीयधर्मनिबन्धसम्प्रदायेऽन्तर्भवति । स च नदीयामण्डलस्य नवद्वीपनामकस्थाने एकस्मिन् ब्राह्मणपरिवारेऽजायत । तस्य प्रकृतं नाम रामगोपालभट्टाचार्य आसीत् । न्यायशास्त्रे तस्य प्रगाढपाण्डित्यवशादसौ न्यायपञ्चाननोपाधिना भूषितोऽभवत् । स च नवद्वीपस्य राज्ञः श्रीकृष्णचन्द्रस्य राजसभायां सभापण्डित आसीत् ।

श्रीकृष्णचन्द्रस्य नृपतेः राजत्वकालानुसारं गोपालभट्टाचार्यस्य काल: अष्टादशशतक एव स्थिरीक्रियते। स च स्वलिखिततिथिनिर्णयस्य पुष्पिकायां ग्रन्थसमाप्तिकालं सूचयति । तदनुसार १८०० तमे ख्रीष्टाब्दे चैत्रशुक्लचतुर्दश्या ग्रन्थोऽयं समाप्तः। अत ऐतिहासिकैरस्य काल: १७२० तः १८१३ ख्रीष्टाब्दमध्य एव निश्चीयते ।

गोपालभट्टाचार्यः धर्मशास्त्रेऽनेकान् ग्रन्थान् विरचितवान् । तेषु प्रमुखाः ग्रन्थाः भवन्ति यथा -

१) विचारनिर्णयः,

२) दायभागनिर्णय:,

३) तिथिनिर्णयः,

४) आचारनिर्णयः,

५) सम्बन्धनिर्णयः,

६) आशौचनिर्णयः,

७) कालनिर्णयः,

८) प्रायश्चित्तनिर्णयः,

९) विवादनिर्णयः,

१०) शुद्धिनिर्णयः,

११) श्राद्धनिर्णयः,

१२) संक्रान्तिनिर्णयः,

१३) व्यवस्थानिर्णयः,

१४) व्रतोत्सवनिर्णयः,

१५) दुर्गोत्सवनिर्णयः,

१६) अधिकारिनिर्णयः,

१७) उद्वाहनिर्णयः,

१८) मलमासनिर्णयश्चेति ।

रङ्गनाथसूरि:

[सम्पादयतु]

रङ्गनाथ: कृष्णानन्दसरस्वत्याः शिष्य आसीत् । स च पुरुषार्थरत्नाकरग्रन्थ रचितवान् । ग्रन्थेऽस्मिन् पञ्चदशतरङ्गाः सन्ति । अत्र क्रमश: पुराणप्रामाण्यविवेक त्रिवर्ग - तत्त्वविवेक - मोक्षतत्त्वविवेक - वर्णादिधर्मविवेक - नामकीर्तनविवेक प्रायश्चित्तविवेक - तत्त्वपदार्थविवेक - मुक्तिविवेकादय: भागा: विद्यन्ते ।

भवदेवन्यायालङ्कारः(१६५० - १७३० ख्री.)

[सम्पादयतु]

पार भवदेवः हरिहरस्य पुत्रः आसीत् । स च १७२० त: १७२२ ख्रीष्टाब्देषु स्मृतिचन्द्रग्रन्थं प्रणीतवान् । स्मृतिचन्द्रः षोडशकलाभि: विभक्तः। ताश्च कलाः भवन्ति यथा - तिथि - व्रत - संस्कार - आह्निक - श्राद्ध - आचार - प्रतिष्ठा - वृषोत्सर्ग - परीक्षा - प्रायश्चित्त - व्यवहार - गृह्ययज्ञ - वेश्मभू - मलिम्लुच - दान - शुद्धयः।

रघुनाथदाशः(१६८५-१७७५ ख्री.)

[सम्पादयतु]

रघुनाथदाशः कौण्डिन्यगोत्रीयः नृसिंहोपासकश्चासीत् । तस्य पितुर्नाम वासुदेवः, मातु: नाम चाम्बिका । असौ सप्तदशशतकस्यान्तिमभागे उत्कलप्रान्तस्य कटकमण्डलान्तर्गतसाइलोविषये प्राचीनद्याश्चोत्तरस्यां दिशि सुन्दरग्रामेऽजायत। अस्य पिता वासुदेवः पुरीस्थ-श्रीजगन्नाथमन्दिरस्य मुक्तिमण्डपे पुराणपण्डारूपेण नियुक्त आसीत् । वासुदेवश्च ज्योतिस्तत्त्वकौमुदीग्रन्थं विरचितवान् । अस्य पूर्वजाः पण्डिता आसन्निति तस्य वंशवृक्षाज्ज्ञायते ।

उत्कलप्रान्ते तदानीं गङ्गवंशावतंसश्चक्रधरनामा नरपति:शासनमकरोदिति तत्कृतसाहित्यभूषणस्य पुष्पिकायां वर्णितमस्ति ।

ओड्रे निवृत्तिसाइलोविषयके प्राच्युत्तरस्यां दिशि

ग्रामो यस्त्वतिराजते गडगडानामा चिरात् पालितः।

नाटकीय नाम्ना चक्रधरेण दुर्गविलसद् गङ्गेश्वरस्थायिना

तत्रस्थं रघुनाथनाम विदितं विप्रं नृसिंहोऽवतु ॥[६८]

रघुनाथ: स्वप्रणीतकालनिर्णये श्रीजगन्नाथदेवस्य द्वादशयात्राविषये, श्रीलिङ्गराजदेवस्य च चतुर्दशयात्राविषये वर्णयति। पुनः उत्कलीयधर्मनिबन्धकारान् शम्भुकर-विद्याकर-बृहस्पति कालिदासचयनिप्रभृतीनुद्धरति। अतस्तस्योत्कलीयत्वे नास्ति सन्देहः।

पण्डितरघुनाथदाश: १६८५ त: १७७५ ख्रीष्टाब्दं यावत् वर्तमान आसीत्। एतच्च रत्नकोषकारेण[६९] भागीरथीमहापात्रेण लिखितमस्ति । तदीयवंशजेन श्रीबलरामदाशेन[७०] सुन्दरीनामके काव्ये लिखति यद्रघुनाथ: १७७५ तमे ख्रीष्टाब्दे दिवं गतवान् । अस्य रचनासमय: १७३० तः १७७५ खीष्टाब्दपर्यन्तं भवेत् ।

रघुनाथ: धर्मशास्त्र - साहित्य- व्याकरण- आयुर्वेद-न्याय-ज्योतिष तन्त्र- छन्द:- कोषादिषु शास्त्रेषु धुरन्धर आसीत् । तत्प्रणीता: ग्रन्थाः यथा -

१. धर्मशास्त्रे - कालनिर्णयः, श्राद्धनिर्णय:, उत्पाततरङ्गिणी च ।

२. साहित्य - साहित्यभूषणनाम्ना अलङ्कारग्रन्थः, भट्टिकाव्यटीका, रघुवंशटीका, काव्यप्रकाशटीका,नलोदयटीका, शिशुपालवधटीका, गोविन्दलीलामृतटीका चेति।

३. व्याकरणे - शब्दनिरूपणम्, कातन्त्रविस्तराक्षेपः, कारक निर्णयः, वर्धमानप्रकाशः, सारसिद्धान्तसंग्रहश्चेति ।

४. आयुर्वेदे - वैद्यकल्पलता, आयुर्वेदलीलावती चेति ।

५. न्याये - न्यायरत्नावली ।।

६. ज्योतिषे - उत्पाततरङ्गिणी ।

७. तन्त्रे - वनदुर्गापूजा।

८. छन्दःशास्त्रे - वृत्तावलिः।

९. कोषे - अमरकोषे टीका चेति ।

एते ग्रन्थाः रघुनाथस्यासाधारणं वैदुष्यं प्रतिपादयति ।

जगन्नाथतर्कपश्चाननः

[सम्पादयतु]

वंगीयधर्मनिबन्धकारेष जगन्नाथतर्कपश्चाननोऽन्यतमः तार्किकविद्वान् आसीत् । हिन्दुनियमविधौ तस्य प्रभूतज्ञानमासीत् । वङ्गसंप्रदाये तस्य कृते: बहुमान्यता वर्तते ।

जगन्नाथतर्कपञ्चाननस्य जीवनकाल: १६९५ ख्रीष्टाब्दात् १८०५ ख्रीष्टाब्दपर्यन्तमेव । सः १११ वर्षाणि जीवितवान् ।

वङ्गभूखण्डे आंग्लोजनानां शासनकाले जगन्नाथ: विवादविषयकग्रन्थानां प्रणयनं कृतवान् । वारेन हेष्टिङ्गस्महोदयानां समये स: १७६३ ख्रीष्टाब्दे विवादार्णवसेतुं प्रणीतवान् । १७८९ ख्रीष्टाब्दे सार् उइलियम जोन्समहोदयानां प्रेरणानुसारं नवतरङ्गविशिष्टं विवादसारार्णवं नाम धर्मनिबन्धं विरचितवान् । कोलबुकमहोदय: १७९६ ख्रीष्टाब्दे ग्रन्थस्यास्याङ्ग्लानुवादं कृतवान् । अस्य ग्रन्थस्य प्रकाशनं १७९७ ख्रीष्टाब्देऽभवत् । ग्रन्थेऽस्मिन् सर्वविधानि विवादपदानि आलोचितानि सन्ति।

काशीनाथ उपाध्यायः

[सम्पादयतु]

महाराष्ट्रीयधर्मनिबन्धकारेष्वन्यतमोऽसौ काशीनाथ उपाध्यायः। अस्यापरं नाम बाबा पाध्ये । अस्य पितुर्नाम अनन्तः, पितामहस्य च नाम काश्युपाध्याय आसीत् । स च स्वजन्मभूमिं कोङ्कणक्षेत्रं विहाय पण्ढरपुरं प्रति आगतवान् । काशीनाथ: विठोवादेवतायाः परमभक्त:, कोङ्कणक्षेत्रस्य रत्नगिरिमण्डलस्य गोलावलीग्रामनिवासी चासीत् । काशीनाथ: कविमोरोपन्तस्य सम्बन्धी आसीत् । तस्य पुत्री आवडी मोरोपन्तस्य द्वितीयपुत्रं विवाहमकरोत्। मोरोपन्तः काशीनाथस्य जीवनचरितं लिखितवान्।

काशीनाथ: १७९०-९१ ख्रीष्टाब्दयोर्मध्ये धर्मसिन्धुनामकं निबन्धग्रन्थं प्रणीतवान् । अन्तिमे स: संन्यास्यभवत् । १८०५ ख्रीष्टाब्दे च सः प्राणत्यागं कृतवान्।

धर्मसिन्धोरपरं नाम धर्मसिन्धुसारः, धर्माब्धिसारोवा। ग्रन्थोऽयं १९३६ ख्रीष्टाब्दे प्रथमवारं निर्णयसागरमुद्रणालयद्वारा प्रकाशित आसीत्। तदनु च बहुत्र प्रकाशितोऽस्ति । तस्यान्याः कृतयः यथा - प्रायश्चित्तेन्दुशेखरः, विट्ठलऋङ् मन्त्रभाष्यञ्चेति । काशीनाथविरचितः धर्मसिन्धुः दक्षिणभारते धार्मिकविषयेषु प्रामाणिकग्रन्थरूपेण स्वीक्रियते। स च तस्य पूर्ववर्त्तिग्रन्थकाराणां निबन्धान् पठित्वा निर्णयसिन्धुग्रन्थस्य सारमाकृष्य ग्रन्थमिमं प्रणीतवानिति स्वयं लिखति।

धर्मसिन्धुग्रन्थः त्रिभिः परिच्छेदैः विभक्तः। धर्मसिन्धोः प्रथमपरिच्छेदे संवत्सर-ऋतु-मास-पक्ष-तिथिप्रभृतीनां विषये वर्णनं विद्यते। द्वितीयपरिच्छेदे चैत्रमासादारभ्य फाल्गुनमासान्तं यावत् संवत्सरमध्ये पालितानां धार्मिककृत्या नामनुष्ठानकाला:, विधयश्च प्रतिपादिताः सन्ति । तृतीयपरिच्छेदस्य प्रथमभागे गर्भाधानादारभ्य सर्वेषां संस्काराणां विषये वर्णितमस्ति। द्वितीयभागे सर्वेषां नैत्यककर्त्तव्यानां विषये सर्वेषां श्राद्धानां विषये च वर्णनं विद्यते । ग्रन्थेऽस्मिन् स्मृति-धर्मसूत्र-पुराणवचनान्यतिरिच्योद्धृतानां ग्रन्थानां ग्रन्थकाराणां च नामानि यथा- अखण्डादर्शः, कालतत्त्वविवेचनं, पुरुषार्थचिन्तामणिः, पूर्तकमलाकरः, भक्तिनिर्णयः, भट्टोजिदीक्षितः, माधवाचार्यः, मुहूर्त्तचिन्तामणिः, मुहूर्तमार्तण्डः, रामार्चनचन्द्रिका, शान्तिमयूखः, शान्तिसारः, शूद्रकमलाकरः, श्राद्धसागरः, सापिण्ड्यदीपिका चेति।

कृष्णमिश्रः

[सम्पादयतु]

उत्कलीयधर्मनिबन्धकार: महामहोपाध्यायः कृष्णमिश्रः कौत्सवंशावतंस आसीत्। अयं न्यायवैशेषिकमीमांसाज्योतिषादिशास्त्रेषु निष्णात आसीदिति तत्कृतकालसर्वस्वग्रन्थाज्ज्ञायते। अस्य पितुर्नाम बलभद्रः, पितामहस्य नाम देवानन्दमिश्रश्चासीत्। कृष्णमिश्रस्यान्ये सप्त भ्रातरः दक्षेश्वर-त्रिलोचन नारायण- भुवनेश्वर-वनमालि-सिद्धेश्वर-भगवान्संज्ञका आसन् । अधुना तस्य दायादा: नयागडसमीपवर्तिनि लडुकेश्वरपुरब्राह्मणशासने निवसन्ति ।

यद्यप्यसौ कृष्णमिश्र: न कुत्रचित् साक्षादात्मानमुत्कलीयत्वेन परिचाययति तथापि कालसर्वस्वे शुद्धिसर्वस्वे चोभयत्रान्यूनतया दशवारमुत्कलशब्दस्यास्मद्दे शशब्दस्य च प्रयोगं कृत्वाऽऽत्मन: उत्कलीयत्वं प्रतिपादयति। तद्विरचितग्रन्थेषु उत्कलीयपूजाव्रतपर्वणां विशेषतः प्रथमाष्टमी-बलदेवपूजोत्कलवैष्णवतप्तमुद्रा धारणविधीनां सुस्पष्टमभिहितत्वान्महामहोपाध्यायकृष्णमिश्र उत्कलीय इति दृढं निश्चीयते। वास्तवत: उत्कलेषु श्रीजगन्नाथपुर्य्या: समीपवर्त्तिनि जगन्नाथविद्याधरपुरब्राह्मणशासने कृष्णमिश्रस्य जन्माभवत्। पाण्डित्यख्यापनार्थं च स: नवदुर्ग (नयागड)नगरनिवासी जातः।

महामहोपाध्यायकृष्णमिश्र: ख्रीष्टीयाष्टादशशतकस्योत्तरार्द्ध एव वर्तमान आसीत्। कृष्णमिश्र: गोपीनाथवाजपेयिनं कालसर्वस्वे वारत्रयं स्मरति। गोपीनाथ वाजपेयी च गजपतिद्वितीयरामचन्द्रदेवस्य राजगुरुरासीत् । गजपतेः शासनकाल: १७२६-१७३६ ख्रीष्टाब्दाभ्यन्तर एव निश्चीयते । अतः कृष्णमिश्रः तत्परवर्ती आसीदिति प्रतिपादयितुंशक्यते। कृष्णमिश्रस्य काल: तद्वंशजेभ्यश्च ज्ञायते। तदनुसार कृष्णमिश्रस्य तिरोभाव: १८२६ ख्रीष्टाब्देऽशीतिवर्षवयस्यभवदिति तत्संपर्कीयाः कथयन्ति । अतस्तस्य काल: १७४६-१८२६ ख्रीष्टाब्दमध्ये निश्चेतुं शक्यते ।

कृष्णमिश्रोऽनेकग्रन्थान् विरचितवान् । तेषु धर्मशास्त्रविषयका: ग्रन्था:यथा

१) कालसर्वस्वम् - डा. विश्वनाथस्वाईमहोदयेन १९९७ ख्रीष्टाब्दे पुर्यामेव प्रकाशितम् । कालसर्वस्वग्रन्थे काल-वत्सर-अयन-ऋतु-मास-तिथीनां निरूपणं, तिथिव्रतानि,मासकृत्यानि, वैष्णवनिरूपणं, वैष्णवानुसारं मासकृत्यानि चेत्येते विषयाः प्रतिपादिताः सन्ति ।

२) शुद्धिसर्वस्वम् - डा. विश्वनाथस्वाईमहोदयेन १९९३ ख्रीष्टाब्दे पुर्यामेव प्रकाशितम् । शुद्धिसर्वस्वे शुद्धिनिरूपणम्, अशौचविचारः, साग्निनिरग्निशुद्धि विचारः,जन्माशौचम्,गर्भस्रावाद्यशौचम्,बालमरणाशौचविचारः, असपिण्डा नामशौचविचारः, पर्णनरदाहविचारः, एकजातीयाशौचद्वयविचारः, प्रेतनिर्हरण विधिनिषेधाः, अशौचे वपनविचार:, अशौचै विधिनिषेधविचार:, अङ्गाशौचम्, प्रथमाब्दनियमाः, पूर्तेष्टिविचारश्चेत्येते विषया: विचारिता: सन्ति ।

३) भक्तिसर्वस्वम् ,

४) वैष्णवसर्वस्वञ्च ।

अन्ये ग्रन्थाः -

१) कृष्णमिश्रप्रक्रिया,

२) विद्यापद्धतिः,

३) कल्पसूत्रम्,

४) सिद्धेश्वरीप्रकाशश्च ।

बालम्भट्टः

[सम्पादयतु]

बालम्भट्टस्यापरं नाम बालकृष्णः। स च दाक्षिणात्यब्राह्मणः, वैद्यनाथपायगुण्डेमहाभागस्य लक्ष्मीदेव्याश्च पुत्र:, माधवस्य पौत्रश्चासीत् । लक्ष्मीदेवी मुद्गलगोत्रोत्पन्नस्य खेडा-उपाधिप्राप्तस्य महादेवस्य, उमादेव्याश्च पुत्री आसीत्। तस्याः परिचय: बालम्भट्टीटीकायां प्रतिपादितः यथा- ‘इति श्रीमिताक्षराव्याख्याने महादेवभट्टात्मजोत्तमाङ्गजवैद्यनाथार्धाङ्गभूतबालक जननीपायगुण्ड इत्युपाख्यश्रीलक्ष्मीदेवीविरचिते लक्ष्म्यभिधे आचारप्रकरणम्' ।

वैद्यनाथपायगुण्डे - बालकृष्णपायगुण्डे इत्यनयो: गुरुः स्वयं नागोजिभट्ट आसीत् । बालभट्टः नागोजिभट्टस्य कृतिमुद्धरति। गोविन्ददासमतानुसार बालम्भट्टीटीकाया: आचारकाण्डस्य पाण्डुलेख: वनारसराजकीयपाठागारे संरक्षितोऽस्ति, यत्र १७७४-१७७५ ख्रीष्टाब्दयो: सूचना प्राप्यते। अन्यत्रापि उच्यते यत् कोलबुकमहोदयस्य पृष्ठपोषकतायामसौ बालम्भट्टः अशीतिवर्षवयसि १८०० ख्रीष्टाब्दे धर्मशास्त्रसंग्रहग्रन्थलिखने प्रवृत्तः। स च नवतिवर्षवयसि दिवं गतवान्। गोपालोऽथवा मनुदेव: बालम्भट्टस्य शिष्य आसीदिति वैयाकरणभूषणसारटीकायां गोपाल: प्रतिपादयति। अत: बालम्भट्टस्य काल: १७४० तः १८३० ख्रीष्टाब्दमध्ये एव निश्चीयते ।

बालम्भट्टः विज्ञानेश्वरकृतायां मिताक्षराटीकायां व्याख्यानं कृतवान् । इयं टीका लक्ष्मीदेवीनाम्ना भणिता । अयं ग्रन्थः यद्यपि लक्ष्मीदेवीनाम्ना भणितस्तथापि तत्पत्या वैद्यनाथेन, तत्पुत्रेण बालकृष्णेन वाऽयं प्रणीतः स्यादिति ऐतिहासिका: प्रतिपादयन्ति। अत एवास्या: टीकायाः नाम बालम्भट्टी इत्यपि उच्यते। स तिथिनिर्णय, १८०० ख्रीष्टाब्दे धर्मशास्त्रसंग्रह, १७९२ ख्रीष्टाब्दे उपाकृतितत्त्वं, गोत्रनिर्णय, नन्दपण्डितस्य तत्त्वमुक्तावलीग्रन्थे बालभूषाटीका, भारद्वाजस्मृतौ टीकामपि प्रणीतवान् । बालम्भट्टीटीका जे.आर्. घारपुरेमहाभागेन संपादिता, एसियाटिक सोसाइटि आफ् वेंगल, कलिकताद्वारा १९०५ ख्रीष्टाब्दे प्रकाशिता च। तत्र प्रथमे आचारभागे ६२६ पृष्ठाः, द्वितीये व्यवहारभागे ४०२ पृष्ठाः, तृतीये प्रायश्चित्तभागे २२० पृष्ठाश्च सन्ति। अत्राचारभागस्य विस्तृतं व्याख्यानं दृश्यते । बालम्भट्टीटीकायामुद्धृतानां ग्रन्थानां ग्रन्थकाराणां च नामानि यथा निर्णयसिन्धु - वीरमित्रोदय -भगवन्तभास्कर-संस्कारकौस्तुभ-सिद्धेश्वरभट्ट भाट्टदीपिका-खण्डदेव- धर्मप्रदीपादयश्चेति ।

त्र्यम्बकभट्ट:

[सम्पादयतु]

कानि त्र्यम्बकभट्टः आङ्गिरसगोत्रीयः, रघुनाथभट्टस्य पुत्रः, नारायणभट्टस्य पौत्रश्चासीत् । तस्य काल: १७६० तः १८५० ख्रीष्टाब्दमध्ये ऐतिहासिकै: निश्चीयते। तेनाचारेन्दुः, प्रायश्चित्तसारः, आशौचनिर्णयः, जातिविवेकः, प्रतिष्ठेन्दुग्रन्थश्च विरचिताः। एतेषु ग्रन्थेषु आशौचनिर्णय: निर्णयसागरप्रेस्, मुम्बईद्वारा तथा आचारेन्दुश्चानन्दाश्रममुद्रणालयः, पुने द्वारा १९१६ ख्रीष्टाब्दे प्रकाशितौ स्तः।

विष्णुभट्ट आठबले

[सम्पादयतु]

विष्णुभट्टः रामकृष्णस्य पुत्रः आसीत् । सः १७८४-१७८५ ख्रीष्टाब्दयोर्मध्ये पुरुषार्थचिन्तामणिग्रन्थं प्रणीतवान् । ग्रन्थेऽस्मिन् कालसंस्कारादीनां विषये विवेचनमस्ति । ग्रन्थोऽयं निर्णयसागरप्रेस्, मुम्बईद्वारा तथा आनन्दाश्रममुद्रणालयः, पुने द्वारा १९०७ ख्रीष्टाब्दे च प्रकाशितोऽस्ति ।

पण्डितकुलमणिमिश्रः

[सम्पादयतु]

पण्डितकुलमणिमिश्रशर्मा उत्कलीयधर्मनिबन्धसम्प्रदायमलंचकार। १९१८ ख्रीष्टाब्दे डिसेम्वरमासस्य द्वाविंशतितमदिनाङ्के पौषकृष्णपञ्चम्यां रविवासरे गदाधरमिश्र- विमलादेव्योरौरसात् जनि लब्धवानसौ पण्डितमहोदयः । भरद्वाजगोत्रोत्पन्नस्यास्य मिश्रशर्मणः पिता पण्डितगदाधरमिश्रः, पितामहः वैद्यनाथमिश्रः, प्रपितामहः श्याममिश्रश्चासन् । पण्डितकुलमणिमिश्रः उत्कलप्रान्ते खोर्द्धानिकटस्थ-हलदिआगडजातमध्ये भगवानपुरशासनेऽजायत ।

कुलमणिमिश्रः धर्मशास्त्राचार्य, साहित्याचार्य, वेदशास्त्रीं चोत्तीर्य १९४५ ख्रीष्टाब्दे पुर्यां सर्वकारीयसंस्कृतमहाविद्यालये धर्मशास्त्राध्यापकरूपेण योगदानं कृत्वा १९७९ ख्रीष्टाब्देऽप्रेलमासि चावसरं गृहीतवान् । १९५० ख्रीष्टाब्दे संस्कृतकार्यालय, अयोध्यापक्षत: साहित्यरत्नोपाधिना, १९६१ ख्रीष्टाब्दे च संस्कृतकार्यालय, अयोध्याद्वारा विद्याभूषणोपाधिना चासौ भूषितोऽभवत् । पण्डितमिश्रः १९८४ ख्रीष्टाब्दे भारतवर्षस्य राष्ट्रपतिमहोदयैः सम्मानितोऽभूत् । अन्तिमे पुर्यामेव स्ववासभवने १८-२-९० ख्रीष्टाब्दे फाल्गुनकृष्णनवम्यां मरशरीरं त्यक्तवान् । तेषां मार्गदर्शनेनानेके गवेषका: विद्यावारिध्युपाधिना विभूषिताः।

पण्डितकुलमणिमिश्रमहोदया: एकाधारेण साहित्य-धर्मशास्त्र-वेद कर्मकाण्ड-ज्योतिषादिषु अनेकशास्त्रेषु पारंगता आसन् । तेनानेके ग्रन्थाः प्रणीता: सम्पादिताः, प्रकाशिताश्च वर्तन्ते । तेषु प्रमुखाः भवन्ति यथा

१.धर्मशास्त्रशब्दकोषः - ग्रन्थोऽयं द्वाभ्यां भागाभ्यामोडिशापर्यटनसंस्कृतिविभागः, भुवनेश्वरद्वारा १९८१ ख्रीष्टाब्दे प्रकाशितः ।

२. एतेषां सम्पादनया शूलपाणिकृतः प्रायश्चित्तविवेकः तत्त्वार्थबोधिनीटीकया सह श्रीसदाशिवकेन्द्रियसंस्कृतविद्यापीठ, पुरीद्वारा १९८२ ख्रीष्टाब्दे प्रकाशितः।

३. कालदीपः - दिव्यसिंहमहापात्रकृतः - तेजनीटिप्पणीसमन्वितः - १९८२ ख्रीष्टाब्दे प्रकाशितः।

४.एतेषां सम्पादनया नरसिंहवाजपेयिकृत: नित्याचारप्रदीप: श्रीसदाशिवकेन्द्रिय संस्कृतविद्यापीठ, पुरीद्वारा १९८४ ख्रीष्टाब्दे प्रकाशितः ।

५. कौटल्यार्थशास्त्रे प्रथमाधिकरणे प्रज्ञाटीका।टीक्यं श्रीसदाशिवकेन्द्रियसंस्कृत विद्यापीठ, पुरीद्वारा १९८६ ख्रीष्टाब्दे प्रकाशिता ।

६. पारस्करगृह्यसूत्रे मार्गदर्शिनीटीका। टीकेयं श्रीसदाशिवकेन्द्रियसंस्कृतविद्यापीठ, पुरीद्वारा १९८१ ख्रीष्टाब्दे प्रकाशितः।

७. गौतमधर्मसूत्रे सूक्ष्माटीका। टीकेयं १९९१ ख्रीष्टाब्दे पुर्यामेव प्रकाशिता ।।

८. सूक्तिरत्नावलिः - (टिप्पणीसहिता) १९९१ ख्रीष्टाब्दे प्रकाशिता ।

९. सामवेदीयकर्मकाण्डः । ग्रन्थोऽयं १९९१ ख्रीष्टाब्दे प्रकाशितः ।

१०.आनन्दवर्द्धनकृतस्य ध्वन्यालोकस्योत्कलानुवादः। ग्रन्थश्चायमोडिशा साहित्य एकाडेमी, भुवनेश्वरद्वारा वारद्वयं १९६४ ख्रीष्टाब्दे, १९८२ ख्रीष्टाब्दे च प्रकाशितः।

११.श्रीविष्णुसहस्रनामस्तोत्रे श्रद्धाव्याख्या। ग्रन्थोऽयं १९८५ ख्रीष्टाब्दे प्रकाशितः।

१२. श्रीशिवसहस्रनामस्तोत्रे निष्ठाव्याख्या । ग्रन्थोऽयं १९८६ ख्रीष्टाब्दे प्रकाशितः।

१३. गौतमबुद्धप्रणीतस्य धम्मपदस्योत्कलानुवादः । ग्रन्थश्चायं ग्रन्थमन्दिरम्, कटकद्वारा २००० ख्रीष्टाब्दे प्रकाशितोऽस्ति ।

१४. बनवकं मालाटीकासहितम् ।ग्रन्थोऽयं १९८७ ख्रीष्टाब्दे प्रकाशितः।

१५.वसिष्ठधर्मसूत्रे तत्त्वप्रकाशिकाटीका । टीकेयं २००५ ख्रीष्टाब्दे प्रकाशिताऽस्ति।

एतदतिरिक्तमन्येऽपि अनेके प्रकाशिता: अप्रकाशिताग्रन्थाश्च विद्यन्ते । भारतस्य विभिन्नप्रान्तेषु विविधासु शोधपत्रिकासु शताधिका: शोधलेखाश्च तेषां प्रकाशिता: सन्ति ।

कुलमणिमिश्रः उत्कलसंस्कृतगवेषणासमाजस्य सभापतिः, श्रीजगन्नाथ मन्दिरस्थित-श्रीजगन्नाथवैदिकशिक्षानुष्ठानस्य प्रतिष्ठातासभापतिश्चासीत् । पुरीमण्डलस्य कारागारे धर्मोपदेशकरूपेण पण्डितमिश्रमहोदय: अष्टादशवर्षाणि यापितवान्, तथा राधारमणप्रेस्सम्पादित-विशुद्धखडिरत्नपञ्चाङ्गस्याष्टादशवर्षाणि यावत् संशोधकरूपेण कर्म कृतवान्। पण्डितमिश्रमहोदय: नैष्ठिकब्राह्मणः, निरलसः, क्रोधशून्यः, अर्थशुद्धः, श्रौतस्मा दिकर्मनिपुणः, पञ्चाङ्गव्यवस्थाप्रदाता, छात्रवत्सलः, निपुणलेखकः, अनवरतसारस्वतसाधकश्चासीत् । मा

धर्मशास्त्रवाङ्मयस्यापरिसीमत्वाद् धर्मनिबन्धकारा अपि असंख्या: भवन्ति। तेष्वस्माभिरत्र प्रमुखानां परिचयः प्रदत्तोऽस्ति। भारतवर्षे प्रतिप्रान्तमेते धर्मनिबन्धकारा: प्रान्तीयधर्माणां, परम्पराणां, रीतीनाञ्चोपस्थापनमत्र कुर्वन्ति। धर्मशास्त्रस्य विविधविषयानुपजीव्य धर्मनिबन्धकारैरपि धर्मनिबन्धग्रन्था: प्रणीता: दृश्यन्ते। ऐतिहासिकाश्च पौर्वापौर्याकलनया तेषां कालनिरूपणं कुर्वन्ति।

सम्बद्धाः लेखाः

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]
  1. हारलतायां -पृ-९७
  2. सरस्वतीविलासे, पृ - ३४८
  3. मिता. (या.स्मृ.१-८१,२-१२४)
  4. परा.माध.,व्य.का.,पृ-३४६.
  5. सर.वि.,पृ-१२, १९, २०, २३, २४, ३०, ३२, ५०, ५१, १५०, १६०, १६१, १६३, १६४, १६५, १६६, २२०, २४०, २४१, २४३, २६९, २९५,३०८, ३१५, ३१९, ३२१, ३२२,३२५, ३३६, ३३७, ३४४, ३४५,३४७,३४८,३५२, ३५४, ३६१,३६२, ३६३,३६८, ३६९, ३७३,३८०,३८३,३८४,३८५,३८७,३८९,३९०,३९३,४०२, ४०३,४०७,४१९,४२२,४२७,४२८,४२९,४३०,४३१,४३२,४३३, ४३४, ४३५,४३६,४३७,४३८,४३९,४४६,४४७,४६१,४६३,४६४, ४६९,४७०,४७१, ४७२,४७७, ४८९, ४९७ = ८३ वारम् ।
  6. स्मृ.च.,व्यव.का.पृ.६८८.
  7. स्मृत्यर्थसा., मंगलश्लो.४-५.
  8. वि.र., पृ. ८२,१३५, १५५.
  9. राज. र., पृ-८४-८५.
  10. चतुर्विंशतिमतव्याख्याने-पृ-१३५.
  11. मनुभाष्ये- मनु.८-३.
  12. यत्तु बालकवचनं पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा' इत्यादि नियतक्रमादधस्तन एव दौहित्रस्याधिकार इति तद् बृहस्पतिवचनेन विरोधात् बालवचनमेव । दायभागे-पृ-७५.
  13. दुर्गोत्सवविवेके-पृ-१६.
  14. विवादचिन्तामणौ-पृ-१५३.
  15. व्यव.मा.पृ-३०२.
  16. दायभा-पृ-६७,७५,९०.
  17. वि.र., पृ.१३१,१४५,१५०,१९६,४९०= ५ वारम्
  18. वि. चि., पृ-१३०.
  19. वीरमि. -व्य.प्र.पृ-५७२.
  20. वि. र., पृ.२५,३४,८२,१४५,१५०,१५३,१५७,१९६= ८ वारम्
  21. प्रातिभाव्यागतमपि पौत्रेणापि दातव्यमिति प्रदीपः। - सर.वि.,पृ-२५३.
  22. प्रदीपेऽपि - विभक्तास्तु पृथक्कुर्युः प्रतिसंवत्सरादिकम् । एकैनेवाविभक्तेषु कृते सर्वैस्तु तत्कृतम्॥ - इति जीवपितृकनिर्णये।
  23. स्मृ.च., व्यव. पृ. ६८१.
  24. सर.वि., पृ. ४१८.
  25. स्मृ.च., व्यव. पृ.६६३.
  26. श्रीकण्ठचरिते- २५/१०९-१११.
  27. Sanskrit poetics -vol. II/पृ-१३६,(Calcutta,1960)
  28. श्रृङ्गारप्रकाशे - पृ-५.
  29. The paramaras ,पृ-७६,(New Delhi-1970)
  30. मिताक्षरायां वारत्रयमुद्धृतमस्ति ।।
  31. स्मृ. च., व्यव., पृ. ५९७,६०२,६२१,६८१,६८४, ६८५(२), ६९४, 1 ६९९ = नववारम्
  32. कृत्यकौमुद्यां राजमार्तण्डस्य १९ वारं ३९ वचनानि उद्धृतानि सन्ति ।
  33. वि. र., पृ. ३४, ४२, १३५, २४०. ध. 1-10
  34. क. संस्कृतसाहित्यर इतिहास - प्र. गोपीनाथमहापात्र- पृ-१७५. ख. History of Orissa - K.C. Panigrahi
  35. कृत्यकौमुद्यां शतानन्दस्य एकादशवचनानि उद्धृतानि सन्ति ।
  36. दिव्यसिंहस्य कालदीपे त्रिवार, श्राद्धदीपे चैकवारमुद्धृतमस्ति ।
  37. दानसागरे-पृ-५४२.
  38. इति चाम्पाहट्टीय महामहोपाध्याय धर्माध्यक्ष श्रीमदनिरुद्धभट्ट-विरचिताऽशौचव्यवस्था हारलता समाप्ता । इति चाम्पाहट्टीय महामहोपाध्याय श्रीमदनिरुद्धभट्टविरचिता छन्दोगानां पद्धतिः पितृदयिता समाप्ता ।
  39. निखिलभूपचक्रतिलक श्रीमद्वल्लालसेननन्दनेन । पूर्णे शशिनवदशमितशकवर्षे दानसागरो रचितः॥ - दानसागरस्य समाप्तौ।
  40. सुरापगातीरविहारपाटके निवासिना भट्टनयार्थवेदिना । कतानिरुद्धेन सतामुर:स्थले विराजता हारलतेयमर्पिता ॥
  41. भ्राता पद्धतिमग्रजः पशुपतिः श्राद्धादिकृत्ये व्यधा- दीशानः कृतवान् द्विजाह्निकविधौ ज्येष्ठो पर: पद्धतिम् ॥ - सीमामालजवानर ब्रा.स.,मङ्गल.श्लो.२४.
  42. बाल्ये ख्यापितराजपण्डितपदः श्वेतांशुबिम्बोज्ज्वल- च्छत्रोत्सिक्तमहामहत्तकपदं दत्त्वा नवे यौवने। यस्मै यौवने शेषयोग्यमखिलक्ष्मापालनारायण: श्रीमाल्लक्ष्मणसेनदेवनृपतिधर्माधिकारं ददौ । - ब्रा.स., मङ्गलश्लो.१२
  43. हलायुधेन गौडेन्द्रधर्मकोषाधिकारिणा । एतत्पुरुषसूक्तस्य व्याख्यानं प्रतिपाद्यते ॥ ब्रा.स., पृ-१३२.
  44. वि. र., पृ. १०, ११, ३०, ३२, ३४, ३९, ४७, ८२, ८६,९८, १३५. १५३, १९६,२९४, ३०३, ३२१, ३५७, ३७५, ३९०, ३९३, ४६७, ४६८ = २२ वारम्
  45. गृह.र., पृ. २७, ४०, ५२, ९२, १९५, ३५८, ३७०, ४३५ = ८ वारम्
  46. हरिहरस्तु व्यङ्गलपरिमाणलिङ्गछेद दण्डः इत्याह । - विवा.र., पृ-४०२.
  47. तस्मात् त्रयोदशे श्राद्धं न कुर्यान्नोपतिष्ठते इत्येव बहुग्रन्थदृष्टः। काश्मीरलिखितश्च पाठो ज्यायान् । तथा च हरिहरादिग्रन्थेऽप्येवमेव पाठो गृह्यते । चतु.चिन्ता.,काल.
  48. वि.र., पृ. ३२, ३४, ८२,८३,१०४,१३०,१३१,१५०, १५३,२१८,२८४,३२८,३९० = १३ वारम्
  49. चतु.चिन्ता.२/१. मङ्गलश्लो-१६.
  50. चतु.चिन्ता.३/२, श्लो.२६.
  51. गौडे नन्दनवासिनाम्नि सुजनैर्वन्द्यै वरेन्द्यां कुले श्रीमद्भट्टदिवाकरस्य तनयः कुल्लूकभट्टोऽभवत् ।' काश्यामुत्तरवाहिजह्नुतनयातीरे समं पण्डितै - स्तेनेयं क्रियते हिताय विदुषां मन्वर्थमुक्तावली ॥ मन्वर्थ. मङ्गलश्लो.
  52. स्मृतित. व्यव.. पृ. २१३.
  53. स्मृतित. दाय..पृ. १९३.
  54. राजनीतिरत्नाकरे- पृ-२.
  55. इति श्रीकोदण्डपरशुरामेत्यादिविरुदावलीविराजमानमानोन्नतमहाराजाधि-राजश्रीशक्तिसिंहात्मजमहाराजाधिराजश्रीमदनसिंहदेवविरचिते मदनरत्नप्रदीपे दानविवेकोद्योते ..........।
  56. उद्योता: समयाचारव्यवहारविवेचकाः। प्रायश्चित्तस्य दानस्य शुद्धिशान्त्योश्च सप्तमे ॥ तत्राद्यौ राजसिंहेन सर्वधर्मोपयोगतः । तन्यते मदनेन्द्रेण समयस्य विनिर्णयः॥ श्लो. २४-२५.
  57. श्रीचन्द्रसिंहनृपतेर्दयिता लक्ष्मीमहादेवी । रचयति पदार्थचन्द्रं मिसरुमिश्रोपदेशेन ॥ पदार्थचन्द्रे, मङ्गलश्लो-२
  58. श्रीलक्ष्मीदेवी तस्य चन्द्रसिंहनृपतेर्दयितस्य । नाम्ना मिसरुमिश्रद्वारा रचयति विवादचन्द्रमभिरामम् ॥ विवा.च.मङ्गलश्लो-२
  59. ध. शा.इ.. भा.१,पृ.८९.
  60. संस्कारसारेऽष्टमश्लोके, आह्निकसारस्य प्रथमश्लोके च - प्रणम्य श्रीनृसिंहेन दलाधीशेन भूभुजा । श्रीनृसिंहप्रसादेन दिनानुष्ठेयमुच्यते ॥ श्राद्धसारप्रारम्भे- श्रीनृसिंहं नमस्कृत्य दलाधीशमहीपतिः। श्राद्धसारं प्रकुरुते सर्ववैदिकतुष्टये ॥
  61. संस्कारसारे (मङ्गलश्लो. १७-२९)
  62. स. वि.,पृ.५०३
  63. स चायं वीररुद्रो गजपतिय्योध्यामिवायोध्यां... भुक्तान्तकटकं कटकनगरी समानयन् । - स.वि., पृ-११.
  64. भ.भा. आ. म., मङ्ग.श्लो.१२,पृ.२.
  65. वी.मि. परि.प्र., मङ्ग. श्लो. ३०-३१.
  66. याचकानां कल्पतरोररिकक्षहुताशनात् । नागेश: श्रृङ्गवेरेश्वरामतो लब्धजीवकः ॥ (रसगंगाधरस्य-मर्मप्रकाशे)
  67. (मङ्गला.श्लो.४)
  68. - ओ.एच्.आर्.जे., भा.११.नं २. पृ.७४.
  69. र. को., पृ. २९१.
  70. सुन्दरी. का., पृ. २५.
"https://sa.wikipedia.org/w/index.php?title=भाष्यनिबन्धकाराः&oldid=459964" इत्यस्माद् प्रतिप्राप्तम्