भेडाघाट्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भेडाघाट्
—  नगरम्  —
भेडाघाट्
Location of भेडाघाट्
in मध्यप्रदेशः
निर्देशाङ्काः

२३°०८′उत्तरदिक् ७९°४८′पूर्वदिक् / 23.13°उत्तरदिक् 79.80°पूर्वदिक् / २३.१३; ७९.८०

देशः भारतम्
राज्यम् मध्यप्रदेशः
मण्डलम् जबलपुरम्
जनसङ्ख्या १,८४० (2001)
समयवलयः IST (UTC+05:30)

मध्यप्रदेशराज्ये जबलपुरसमीपे १२ शतकतः प्रसिद्धा गोण्डवंशीयानां त्रिपुरीनामिका राजधानी आसीत् । एतत् अतीवप्रसिद्धं सुन्दरं च स्थानम् अस्ति । जबलपुरस्य समीपे एव भारतस्य ग्र्याण्ड् केनियन्’ इति ख्यातं स्थानं भेडाघाट् अस्ति । नर्मदानद्याः जलम् उपरिष्टात् पतति । तदा तुषारैः मेघमण्डलम् इव वातावरणं निर्मितं भवति । एतत् अद्भुतदृश्यं नयनरमणीयं भवति । एतस्य धुवाधार (Smoke Cascade) इति कथयन्ति ।अत्र १५० पादपरिमितोन्नतप्रदेशात् नर्मदानदीजलं पतति । एषः सुन्दरः जलपातः अस्ति । अमृतशिलापर्वतानां मध्ये नौकायानम् अतीवानन्ददायकं भवति । हिन्दीभाषायाः अशोकचलनचित्रे अत्रत्यं दृश्यं स्वीकृतमस्ति । नौकायानार्थम् आरम्भे ११५ सोपानानि अवतरणीयानि भवन्ति । प्रपाते नदी प्रवहति । नद्याः गभीरता १५ पादमितास्ति । अपायकारी स्थलमेतत् । श्वेतशिलाभित्तिषु प्रकाशपतनेन अद्भुतं दृश्यं जले प्रतिबिम्बितं भवति । एवमेव सुन्दरप्रदेशे २ कि.मी यावत् पादचारणेन गन्तव्यम् । अमृतशिलपर्वतानां विविधाः आकृतयः मनोमोदाय भवन्ति । गजपादः, अश्वपादः इत्यादीनि अत्र दृश्यन्ते इति जनाः वदन्ति । विशेषतः पूर्णिमादिने चन्द्रिकायाम् अत्रत्यं दृश्यं वर्णनतीतं भवति । एते शिलापर्वताः जुरासिक् युगकालिकाः सन्ति । क्याप्टन् फोर्सत् The HighLands of central India इति पुस्तके एतेषां पर्वतानां सौन्दर्यविषये वर्णितवान् । नीलाकाशे श्वेतामृतशिलापर्वतेषु सूर्यप्रकाशस्य पतनं, जले प्रतिफलनं, तत्र तत्र हरितद्वर्णशिलासु अथवा कृष्णशिलासु पतत्किरणं वर्णमयवातावरणं निर्माति । प्रकाशेन अमृतशिला इतोऽपि परिशुद्धा दृश्यते ।

विमानमार्गः[सम्पादयतु]

नागपुरभोपालरायपुरनिस्थानतः अत्र आगन्तुं व्यवस्था अस्ति ।

धूमशकटमार्गः[सम्पादयतु]

मुम्बयी-अलाहाबाद् मार्गे जबलपुरनिस्थानतः२५ कि.मी दूरे अस्ति । अलाहाबाद्तः ३६९ कि.मी । कोलकाता ११७३ कि.मी ।

वाहनमार्गः[सम्पादयतु]

जबलपुरतः २५ कि.मी

व्यवस्था[सम्पादयतु]

जबलपुरनगरे वसतिभोजनव्यवस्था कर्तुं शक्यते । धर्मशालाः, उपाहारवसतिगृहाणि सन्ति । जलपातदर्शनार्थं केबल्कार् व्यवस्थास्ति ।

समीपे दर्शनीयानि इतरस्थानानि[सम्पादयतु]

जबलपुरसमीपे चौसत् योगिनी मन्दिरं, मदनमोहनदुर्गं (११ शतककालिकम्) । राज्ञी दुर्गावती म्यूसियम् इत्यादीनि दर्शनीयानि स्थानानि सन्ति । देशे सर्वत्र जबलपुरस्य अमृतशिलायाः उपयोगः अस्ति । निसर्गसुन्दराः शिलाः भवने सुन्दरालङ्कारे प्रमुख पात्रं निर्वहन्ति । अमृतशिलासु सुन्दरविग्रहाणां निर्माणम् अपि भवति ।

चित्रशाला[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भेडाघाट्&oldid=390082" इत्यस्माद् प्रतिप्राप्तम्