सामग्री पर जाएँ

मच्चित्तः सर्वदुर्गाणि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः

[सम्पादयतु]
गीतोपदेशः
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ ५८ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य अष्टपञ्चाशत्तमः(५८) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि अथ चेत् त्वम् अहङ्कारात् न श्रोष्यसि विनङ्क्ष्यसि ॥ ५८ ॥

अन्वयः

[सम्पादयतु]

मच्चित्तः मत्प्रसादात् सर्वदुर्गाणि तरिष्यसि । अथ त्वम् अहङ्कारात् न श्रोष्यसि चेत् विनङ्क्ष्यसि ।

शब्दार्थः

[सम्पादयतु]
मच्चित्तः = मदन्तःकरणः
मत्प्रसादात् = मदनुग्रहात्
सर्वदुर्गाणि = सकलदुःखानि
तरिष्यसि = अतिक्रमिष्यसि
अथ चेत् = यदि पुनः
अहंकारात् = अहम्भावात्
न श्रोष्यसि = न अवधारयसि
विनङ्क्ष्यसि = विनाशं गमिष्यसि ।

यदि मयि एव मनः स्थापयसि तर्हि सर्वाण्यपि दुःखानि अतिक्रमितुं शक्नोषि । अथ अहमपि ज्ञानी इति अहंकारात् मदुक्तं न शृणोषि तर्हि अवश्यम् अधःपतनं प्राप्नोषि ।

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]