मत्तः परतरं नान्यत्...
दिखावट
श्लोकः
[सम्पादयतु]- मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
- मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य सप्तमः(७) श्लोकः ।
पदच्छेदः
[सम्पादयतु]मत्तः परतरं नान्यत् किञ्चित् अस्ति धनञ्जय मयि सर्वम् इदं प्रोतं सूत्रे मणिगणाः इव ॥ ७ ॥
अन्वयः
[सम्पादयतु]धनञ्जय ! मत्तः अन्यत् किञ्चित् परतरं नास्ति । इदं सर्वं सूत्रे मणिगणाः इव मयि प्रोतम् ।
शब्दार्थः
[सम्पादयतु]- धनञ्जय = अर्जुन !
- मत्तः = परमेश्वरात्
- परतरम् = उत्कृष्टतरम्
- किञ्चित् = किमपि
- अन्यत् = इतरत् वस्तु
- न अस्ति = न विद्यते
- इदम् = एतत्
- सर्वम् = सकलम्
- सूत्रे = तन्तौ
- मणिगणाः इव = मणिसमूहाः इव
- मयि = परमेश्वरे
- प्रोतम् = योजितम् ।
अर्थः
[सम्पादयतु]धनञ्जय ! मदपेक्षया अन्यत् वस्तु किमपि उत्कृष्टतरं नास्ति । एतत् सर्वं तन्तौ मणिसमूहाः इव मयि योजितम् ।