मदनुग्रहाय परमं...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
अर्जुन उवाच -
- मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् ।
- यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ १ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य प्रथमः(१) श्लोकः ।
पदच्छेदः
[सम्पादयतु]मदनुग्रहाय परमं गुह्यम् अध्यात्मसञ्ज्ञितम् यत् त्वया उक्तं वचः तेन मोहः अयं विगतः मम ॥ १ ॥
अन्वयः
[सम्पादयतु]मदनुग्रहाय परमं गुह्यम् अध्यात्मसञ्ज्ञितम् यत् वचः त्वया उक्तं तेन मम अयं मोहः विगतः ।
शब्दार्थः
[सम्पादयतु]- मदनुग्रहाय = मदनुग्रहार्थम्
- परमम् = सातिशयम्
- गुह्यम् = गोप्यम्
- अध्यात्मसञ्ज्ञितम् = अध्यात्मम् इति शब्देन व्यपदेश्यम्
- यत् वचः = यद्वचनम्
- त्वया उक्तम् = त्वया गदितम्
- तेन = तेन वचनेन
- मम एषः = मम अयम्
- मोहः = अविवेकः
- विगतः = अपगतः ।
अर्थः
[सम्पादयतु]मदनुग्रहाय एव भवान् सातिशयं गोप्यम् आत्मानात्मविवेकविषयं वचनम् उक्तवान् अस्ति । तेन वचनेन मम कर्तव्ये यो मोहः सः दूरं गतः ।