मदनुग्रहाय परमं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मदनुग्रहाय परमं - 11.1 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः

अर्जुन उवाच -

मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् ।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ १ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य प्रथमः(१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

मदनुग्रहाय परमं गुह्यम् अध्यात्मसञ्ज्ञितम् यत् त्वया उक्तं वचः तेन मोहः अयं विगतः मम ॥ १ ॥

अन्वयः[सम्पादयतु]

मदनुग्रहाय परमं गुह्यम् अध्यात्मसञ्ज्ञितम् यत् वचः त्वया उक्तं तेन मम अयं मोहः विगतः ।

शब्दार्थः[सम्पादयतु]

मदनुग्रहाय = मदनुग्रहार्थम्
परमम् = सातिशयम्
गुह्यम् = गोप्यम्
अध्यात्मसञ्ज्ञितम् = अध्यात्मम् इति शब्देन व्यपदेश्यम्
यत् वचः = यद्वचनम्
त्वया उक्तम् = त्वया गदितम्
तेन = तेन वचनेन
मम एषः = मम अयम्
मोहः = अविवेकः
विगतः = अपगतः ।

अर्थः[सम्पादयतु]

मदनुग्रहाय एव भवान् सातिशयं गोप्यम् आत्मानात्मविवेकविषयं वचनम् उक्तवान् अस्ति । तेन वचनेन मम कर्तव्ये यो मोहः सः दूरं गतः ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मदनुग्रहाय_परमं...&oldid=418703" इत्यस्माद् प्रतिप्राप्तम्