मनःप्रसादः सौम्यत्वं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य षोडशः(१६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

मनःप्रसादः सौम्यत्वं मौनम् आत्मविनिग्रहः भावसंशुद्धिः इत्येतत् तपः मानसम् उच्यते ॥

अन्वयः[सम्पादयतु]

मनःप्रसादः सौम्यत्वं मौनम् आत्मविनिग्रहः भावसंशुद्धिः इति एतत् मानसं तपः उच्यते ।

शब्दार्थः[सम्पादयतु]

मनःप्रसादः = चित्तशान्तिः
सौम्यत्वम् = सौमनस्यम्
मौनम् = वाक्संयमः
आत्मविनिग्रहः = मनोनिरोधः
भावसंशुद्धिः = वञ्चनाराहित्यम्
मानसम् = अन्तःकरणसम्बन्धि ।

अर्थः[सम्पादयतु]

चित्तशान्तिः सौमनस्यं वाक्संयमः मनोनिरोधः भावसंशुद्धिः च इति इदम् अन्तःकरणसम्बन्धि तपः कथ्यते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]