मम देशः मम जीवनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
मम देशः मम जीवनम्  
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति
लेखकः लाल कृष्ण आडवाणी
देशः भारतम्
भाषा आङ्ग्लभाषा
विषयः आत्मचरितम्
प्रकाशकः रूपा अण्ड् कं
प्रकाशनतिथिः मार्च् १९, २००८
पृष्ठसङ्ख्या १०४०
आई॰ऍस॰बी॰ऍन॰ 978-81-291-1363-4
ओ॰सी॰एल॰सी॰ क्र॰ 221287960
लाइब्रेरी ऑफ़ कॉंग्रेस
वर्गीकरणं
DS481.A28 A66 2008

मम देशः मम जीवनम् इत्येतत् प्रसिद्धेन राजनीतिज्ञेन लालकृष्णाडवाणिवर्येण लिखितम् आत्मचरितम् । अड्वाणिवर्यः २००२ तः २००४ वर्षपर्यन्तं भारतस्य उपप्रधानमन्त्री आसीत् ।१५ तमायां लोकसभायां प्रतिपक्षस्य नायकः आसीत् । इदं पुस्तकं २००८ तमस्य वर्षस्य मार्चमासस्य १९ दिनाङ्के भूतपूर्वराष्ट्रपतिना श्रीमता अब्दुलकलामवर्येण लोकार्पितम् । [१]१०४० पृष्ठैः युतम् इदं पुस्तकम् अड्वाणिमहोदयस्य जीवनस्य विविधाः घटनाः विवृणोति । कादम्बर्येतरपुस्तकविभागे इदं पुस्तकम् अत्यधिकप्रसारयुतपुस्तकत्वेन चितं जातम्, अड्वाणिमहोदयः प्रसिद्धलेखकेषु अन्यतमः जातः । [२] पुस्तकस्य जालपुटं सूचयति यत् पुस्तकस्य दशलक्षाधिकाः प्रतयः विक्रीताः इति । [३] अस्मिन् पुस्तके १९०० तमात् वर्षात् भारतस्य इतिहासं राजनैतिकघटनाः च उल्लिखिताः सन्ति ।

तात्पर्यम्[सम्पादयतु]

मम देशः मम जीवनम् भारतस्य प्रसिद्धस्य राजकीयनेतुः लालकृष्णाड्वाणिवर्यस्य आत्मचरित्रम् । अस्मिन् पुस्तके अड्वाणिवर्यस्य जीवनस्य सर्वाः प्रमुखाः अप्रमुखाश्च घटनाः क्रमेण उल्लिखिताः सन्ति । अड्वाणिवर्यस्य स्मृतिसञ्चयः पञ्चसु घट्टेषु प्रस्तुताः ।

प्रथमः घट्टः - सिन्धप्रान्तभारतयोश्च अविनाभावसम्बन्धः (१९२७-४७)[सम्पादयतु]

अस्मिन् सिन्धप्रान्ते निवसतः अड्वाणिवर्यस्य बाल्यजीवनं, ब्रिटिश्शासनस्य अन्ते भारतपाकिस्तानयोः विभजने जातानां हृदयविद्रावकघटनानाम् उल्लेखः उपलभ्यते । भारततः पाकिस्तानं, पाकिस्तानतः भारतं प्रति आगतवत्सु लक्षाधिकेषु जनेषु अयम् अन्यतमः । सिन्धप्रान्तस्य सामाजिकाध्यात्मिकेतिहासं प्रस्तुवन् अड्वाणी गृहजीवनविषये विद्यालयजीवनविषये च वर्णयति । कराचिनगरे यत्र तेन शिक्षणं प्राप्तं तन्नगरं तस्य इष्टतममिति वर्णयति । तस्य जीवने महान्तं प्रभावं जनितवतोः द्वयोः विषये सः अत्र उल्लिखति - राष्ट्रियस्वयंसेवकसङ्घः यच्च राष्ट्रियसङ्घटनं सः स्वयंसेवकत्वेन स्वीये १४ वयसि प्राविशत्, स्वामी विवेकानन्दस्य तत्त्वस्य तीव्रप्रतिपादकः कराचिनगरस्य रामकृष्णमठस्य नेता स्वामी रङ्गनाथानन्दः येन सह मेलनम् आदौ जातं कराचीनगरे ।

द्वितीयः घट्टः - सिन्धप्रान्ततः राजा्स्थानं प्रति आगमनम् (१९४७-५७)[सम्पादयतु]

अस्मिन् राजस्थाने राष्ट्रियस्वयंसेवकसङ्घस्य प्रचारकत्वेन अड्वाणिवर्यस्य जीवनं भारतीयजनसङ्घस्य सक्रियकार्यकर्तृत्वेन तदीयं जीवनं च अत्र उपवर्णितं वर्तते । अत्रत्यः कश्चन प्रमुखः भागः महात्मागान्धि राष्ट्रियस्वयंसेवकसङ्घयोश्च परस्परगौरवयुतं सम्बन्धं प्रदर्शयति । १९४८ तमस्य वर्षस्य जनवरिमासे जातस्य महात्मागान्धेः मारणस्य पृष्ठभूमिकायां सङ्घस्य प्रभावं ये वामपन्थीयाः आरोपयन्ति तम् आरोपं प्रमाणपुरस्सरं निवारयति अत्र अड्वाणिवर्यः ।

तृतीयः घट्टः - राष्ट्रियराजनीतौ प्रवेशः (१९५७-७७)[सम्पादयतु]

नवदेहल्यां राजकीयनेतृत्वेन अड्वाणिवर्यस्य प्रगतिः अत्र वर्णिता वर्तते । ऐदम्प्राथम्येन लोकसभायां चितस्य अटलबिहारिवाजपेयिवर्यस्य राजनैतिकसहायकत्वेन कार्यकरणाय देहलीं प्रति स्थानपरिवर्तनं क्रियताम् इति भारतीयजनसङ्घस्य मार्गदर्शकसङ्घटकेन दीनदयाल उपाध्यायेन सूचितः अहम् इति वदति अड्वाणी । अस्मिन् दशकद्वये एव मया राजनैतिकसङ्घटनस्य राजनैतिककार्यपद्धतेः नायकत्वस्य च अनुभवः मया आसादितः इति वदति । अस्मिन् उपवर्ण्यमानः कश्चन विशिष्टः विषयः नाम १९७५ तमे वर्षे जून्मासे तदानीन्तन्या प्रधानमन्त्रिण्या इन्दिरागान्धिवर्यया आरोपिता आपत्कालीनस्थितिः । लक्षाधिकैः प्रतिपक्षकार्यकर्तृभिः क्रान्तिकारैः सह अड्वाणिवर्यः अपि १९ मासान् यावत् कारागृहे आसीत् । आपत्कालीनस्थितेः दुःखगाथां्, प्रजाप्रभुत्वस्य विजयगाथा च अस्मिन् घट्टे विस्तारेण उपवर्णितः विद्यते । अस्मिन् तदानीन्तनी प्रधानमन्त्रिणी इन्दिरागान्धिः कथं संविधानस्य प्राथमिकरचनामेव परिवर्तयितुं प्रायतत इति वर्णितम् । कृतस्य अपराधविषये भारतीयराष्ट्रियकाङ्गेस्पक्षेण अद्यावधि क्षमा न याचिता इति वदति ।

चतुर्थः घट्टः - भारतीयजनतापक्षस्य प्रगतिः (१९७७-९७)[सम्पादयतु]

अस्मिन् समये अड्वाणी देशस्य प्रमुखनायकत्वेन सर्वैः अभिज्ञातः । संसदि तदीयानि अपूर्वाणि कार्याणि, जनतापक्षस्य सर्वकारे (१९७७-७९) प्रसारमाध्यमस्य मन्त्रित्वेन तेन कृतानि कार्याणि अत्र दर्शितानि । आपत्कालीनस्थितेः निरङ्कुशाधिकारस्य मूलोत्पाटनम् कथं जातमिति अत्र दर्शितमस्ति । जनतापक्षस्य अवनतिः भारतीयजनतापक्षस्य उगमश्च अत्र दर्शितमस्ति । अयोध्यायाः राममन्दिरस्य पुनर्निर्माणविषये भारतीयजनतापक्षस्य सक्रियभागग्रहणविषयः अत्र मुख्यः भागः वर्तते । अड्वाणी लिखति - ’स्वतन्त्रभारतस्य इतिहासे एव इदं महज्जनान्दोलनम् । १९९० तमस्य वर्षस्य सेप्टेम्बर्-अक्टोबर्-मासयोः अयोध्यातः सोमनाथपर्यन्तं सम्पन्नायाः रामरथयात्रायाः विषये जनैः दर्शितः प्रतिस्पन्दः ममैव निरीक्षाम् अतिरिच्य स्थितः । आपक्तालीनस्थितेः विरोधान्दोलनेन भारतीयानां प्रजाप्रभुत्वविषयकी निष्ठा कीदृशी इति यथा मया अवगतं तथैव अयोध्यान्दोलनेन भारते विद्यमानानां सर्ववर्णीयानां हिन्दूनां मनसि धार्मिकप्रभावः कियान् इत्येषः अंशः मया अवगतः । भारतस्य स्वर्णमहोतसवस्य अङ्गतया अड्वाणिवर्यस्य राजकीयजीवने आयोजितायाः स्वर्णजयन्तिरथयात्रायाः विवरणेन अयं घट्टः समाप्तिम् एष्यति ।

पञ्चमः घट्टः -दृढम् आत्मविश्वासयुतं च भारतम् (१९९७-२००७)[सम्पादयतु]

अड्वाणिवर्यस्य राजकीयजीवनस्य महत्त्वपूर्णसाधनस्य अवधिः एषः । १९८९ तमे वर्षे भारतीयजनतापक्षेण महोन्नतिः आसादिता येन १९८८ तमस्य वर्षस्य मार्चमासे अटलबिहारिवाजपेयिवर्यस्य नेतृत्वे प्रथमः काङ्ग्रसेतरसर्वकारः संरचितः । १९९९ तमे वर्षे भारतीयजनतापक्षस्य नेतृत्वे राष्ट्रियगणतान्त्रिकमैत्रिकूटः अधिकारं प्राप्नोत्, षड्वर्षाणि यावत् अत्यन्तं निष्ठया देशस्य प्रगतिम् असाधयत् ।

अस्मिन् घट्टे २००४ तमस्य वर्षस्य निर्वाचने मैत्रिकूटेन पराजयः यः प्राप्तः तस्य आत्मविमर्शः समीचीनतया निरूपितः दृश्यते । अड्वाणिवर्यः वदति यत् ’पूर्वं यथा तथैव भारतीयजनतापक्षः पुनः अधिकारं प्राप्स्यति इत्येतस्मिन् विषये मम लेशमात्रेण अपि सन्देहः न विद्यते’ इति । पुस्तकस्य अस्य भागस्य प्रमुखाः अंशाः नाम - धार्मिकप्रतिरोधिभिः अनुमोदितस्य सीमाभयोत्पादनस्य विषये वाजपेयिसर्वकारस्य प्रबलं युद्धं, कार्गिल्-युद्धे भारतस्य महत्त्वपूर्णः विजयः, पाकिस्तानेन सह सामरस्य वर्धनाय वाजपेयि-अड्वाण्योः प्रयत्नः, वाजपेयि-जेनेरल् पर्वेझ् मुष्रफयोः आग्रामेलावसरे उद्भूताः निरीक्षाः जुगुप्सादयः, २००५ तमे वर्षे अड्वाणिवर्येण कृता ऐतिहासिकी पाकिस्तानयात्रा च । तदवधौ जातायाः वाग्विवादविषये अड्वाणी वदति यत् ’मम पश्चात्तापः न विद्यते’ इति ।

प्रतिक्रिया[सम्पादयतु]

हिन्दुस्थान् टैम्स् पत्रिकायां लिखन् वीर् साङ्घ्वि वदति यत् ’अड्वाणीवर्यस्य सामर्थ्यानि दौर्बल्यानि च ’मम देशः मम जीवनम्’ इत्येतस्मिन् नूतने पुस्तके स्पष्टतया अभिव्यक्तानि विद्यन्ते । वाचनयोग्यमिदं तदीयस्य राजनैतिकजीवनस्य दर्शकं वर्तते । हृदयेन लिखितमिदं स्मरणस्य क्रियात्मकतायाः च द्योतकम्’ इति । [४]-->

लता जग्तियानि स्वीये विस्तृते ग्रन्थविमर्शे लिखति - ’भारतस्य प्रगत्यर्थं यः मार्गः भारतीयजनतापक्षेण निर्दिश्यते तस्मिन् विषये कस्यचित् अङ्गीकारः स्यात् न स्यात् किन्तु अस्य आत्मचरितस्य पठनेन एतत् सुनिश्चितं यत् अड्वाणिसदृशः व्यक्तित्ववान् भारतीयराजनैतिकक्षेत्रे विरलतमाः इति । ये देशविषये दृढनिष्ठाः सन्ति किन्तु यैः अधिकारस्य महार्घं मूल्यं मौल्यं च न ज्ञातमस्ति तेषां कृते इदं पुस्तकं प्रेरणादायकं स्यादेव’ इति । [५]

आकराः[सम्पादयतु]

बाह्यशृङ्खला[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मम_देशः_मम_जीवनम्&oldid=281973" इत्यस्माद् पुनः प्राप्तिः