मया ततमिदं सर्वं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ४ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य चतुर्थः(४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

मया ततम् इदं सर्वं जगदव्यक्तमूर्तिना मत्स्थानि सर्वभूतानि न च अहं तेषु अवस्थितः ॥ ४ ॥

अन्वयः[सम्पादयतु]

अव्यक्तमूर्तिना च मया इदं सर्वं जगत् ततम् । सर्वभूतानि मत्स्थानि । अहं तेषु न अवस्थितः ।

शब्दार्थः[सम्पादयतु]

अव्यक्तमूर्तिना च मया = अतीन्द्रियेण च मया
इदम् = एतत्
सर्वम् = निखिलम्
जगत् = भुवनम्
ततम् = व्याप्तम्
सर्वभूतानि = स्थावराणि जमानि च भूतानि
मत्स्थानि = मयि वर्तमानानि
अहं तेषु = अहं तेषु भूतेषु
न अवस्थितः = न स्थितः अस्मि ।

अर्थः[सम्पादयतु]

मम स्वरूपं कस्यापि इन्द्रियाणां गोचरः न भवति । तादृशः अहं सृष्ट्वा समग्रं जगदिदं व्याप्तवान् अस्मि । तस्मात् सर्वाण्यपि स्थावरजमानि भूतानि मयि अधीनानि सन्ति । अहं न तेषु अधीनोऽस्मि ।

सम्बद्धसम्प्र्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मया_ततमिदं_सर्वं...&oldid=418710" इत्यस्माद् प्रतिप्राप्तम्