मय्येव मन आधत्स्व...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
- निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ ८ ॥
अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य अष्टमः(८) श्लोकः ।
पदच्छेदः
[सम्पादयतु]मयि एव मनः आधत्स्व मयि बुद्धिं निवेशय निवसिष्यसि मयि एव अतः ऊर्ध्वं न संशयः ॥ ८ ॥
अन्वयः
[सम्पादयतु]मयि एव मनः आधत्स्व । मयि बुद्धिं निवेशय । अतः ऊर्ध्वं मयि एव निवसिष्यसि, न संशयः ।
शब्दार्थः
[सम्पादयतु]- मयि एव = परमात्मनि मयि एव
- मनः = चित्तम्
- आधस्त्व = आनय
- मयि बुद्धिम् = मयि मतिम्
- निवेशय = योजय
- अतः = ततः
- ऊर्ध्वम् = परम्
- मय्येव निवसिष्यसि = मय्येव वसिष्यसि
- संशयः न = सन्देहः न विद्यते ।
अर्थः
[सम्पादयतु]परमात्मनि मयि एव चित्तं स्थापय । मयि एव मतिं योजय । ततः परं मयि एव वसिष्यसि । अत्र सन्देहः न वर्तते ।