मरडीहळ्ळीशिलोपधानानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


मरडीहळ्ळीशिलोपधानानि (Maradihalli Pillow lava) कर्णाटकस्य चित्रदुर्गमण्डले हिरियूरु-उपमण्डले मरडिहळ्ळीग्रामे विद्यमानाः उपाधानाकारिकाः शिलारचनाः ।

आर्षेयकल्पः इत्युक्ते त्रिशतकोटिवर्षेभ्यः पूर्वं गच्छति । कर्णाटकस्य अधिकाः शिलारचनाः एतस्य कल्पस्य शिलासमूहेन निर्मिताः सन्ति । तेषु पादोनः भागः नैस् शिलाद्वारा निर्मिता चेत् अवशिष्टः भागः ‘सिस्ट्’ शिलाद्वारा निर्मिता अस्ति ।

भूमिः स्वस्य दीर्घे इतिहासे बहुषु प्रदेशेषु बहु वारं ज्वालामुख्याः स्फोटकस्य बलिभूता अभवत् । ज्वालामुख्याः कार्याचरणम् इदानीमपि भूमेः उपरि, सागरतले च निरन्तरं चलत् अस्ति । समुद्रतले अपि ते लावारसं निरस्यन्ति ।

पूर्वतनज्वालामुख्याः स्फोटतः रूपिताः विविधप्रकारकाणां शिलाप्रभेदाः जगत्सु दृश्यन्ते ।

चित्रदुर्गस्य समीपे ज्वालामुख्याः स्फोटतः रूपिताः शिलाः अधिकतया दृश्यन्ते । ज्वालामुख्याः शिलाछिद्राः इदानीमपि चित्रदुर्गं परितः द्रष्टुं शक्यन्ते ।

मरडिहळ्ळीनामके ग्रामे अस्ति समुद्रतले स्फोटिता ज्वालामुखी उपधानस्य आकारस्य शिलाः रूपितवती अस्ति । चित्रदुर्गतः १६ कि.मी. दूरे एतद् अस्ति ।

अविस्मरणीयं भूवैज्ञानिकस्मारकम् एतत् । अत्र स्थितानां पर्वतानां २.५ कोटिवर्षेतिहासः अस्तीति भूवैज्ञानिकाः उक्तवन्तः सन्ति । जलस्य अधः स्थितस्य अग्निपर्वतस्य स्फोटेन लावारसः निर्गतः अभवत् । तस्मात् 'पिल्लोलावा‘रचना अभवत् । उपधानाकृतयः एते सन्ति इत्यतः पिल्लोलावा नाम अभवत् ।

यदि कदाचित् एताः शिलाः नष्टाः भवन्ति तर्हि पुनः संशोधनाय अपि न लभ्यन्ते । ज्वालमुखीनाम् अध्ययने एताः आकृतयः स्रोतरूपेण कार्यं कुर्वन्ति । एतादृशानि फेसिफिक् सागरे अपि द्रष्टुं शक्यन्ते । विज्ञानी श्रीरघुनाथरायः एतान् संशोधितवान् ।

ग्रामस्य भागः इव शैलस्य अन्ते उपधानानि इव दृश्यमानाः शिलारचनाः दृश्यन्ते । तासाम् अञ्चलः परस्परं योजितः इव दृश्यते । समुद्रतले ज्वालामुख्याः लावारसः यदा बहिः उच्चलति तदा जलसम्पर्केण अनुक्षणं शीतलं भवति । अनुक्षणम् उपधानस्य रूपेण सः भागः उद्गतः भवति । प्रत्येकवारम् उद्गत्य आगता उपधानस्य रचना भिन्नं भिन्नं गात्रं प्राप्नोति ।

अतः मरडिहळ्ळिग्रामे विद्यमानेषु शिलोपधानेषु केषाञ्चन वैशाल्यं २० से.मी. अपेक्षया अधिकम् अस्ति । एकस्मिन् गणे एव लघुलघु उपधानानि अपि दृश्यन्ते । उपधानस्य अन्तः बद्धः अनिलः यदा बहिः आगच्छति तदा प्रसरितकिरणानां रचनाः अपि भवेयुः । कदाचित् अनिलद्वारं नालः इव आकारं प्राप्नुयात् ।

प्रपञ्चस्य विभिन्नेषु भागेषु आर्षेयकल्पस्य शिलासमूहे एतादृशीनाम् उपधानानां रचनाः अधिकतया दृश्यन्ते । एतेन परस्परं तोलयितुम् अधिकं साहाय्यं भवति ।

मरडिहळ्ळीसमीपे रूपिताः एताः रचनाः विश्वे एव उत्कृष्टाः रचनाः इति परिगणिताः सन्ति । बेङ्गळूरुनगरस्थस्य सेण्ट्रल् महाविद्यालयस्य प्राध्यापकः सि.एस्. पिच्चुमुत्तु एतं विषयं प्रथमवारं विवृतवान् अस्ति ।

वयसः निर्धारेण एताः शिलाः २५० कोटिवर्षेभ्यः पुरातनाः इति ज्ञातमस्ति ।

भारतीयभूवैज्ञानिकसर्वेक्षणसंस्थया एताः शिलाः राष्ट्रियभूवैज्ञानिकस्मारकत्वेन परिगणिताः सन्ति । मरडिहळ्ळीग्रामसभायाः सहयोगेन एतासाम् उपधानाकारकाणां शिलारचनानां संरक्षणार्थम् उद्युक्ता अस्ति भारतीयभूवैज्ञानिकसर्वेक्षणसंस्था ।

मार्गः[सम्पादयतु]

वाहनमार्गः[सम्पादयतु]

बेङ्गळूरुतः २८० कि.मी
चित्रदुर्गतः २२ कि.मी । ऐमङ्गलस्थानतः ३ कि.मी

धूमशकटमार्गः[सम्पादयतु]

चित्रदुर्गपर्यन्तं धूमशकटयानसौलभ्यम् अस्ति ।