मल्लिका साराभाई

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मल्लिका साराभाय्
मल्लिका साराभाय्
जन्म (१९५३-२-२) ९, १९५३ (आयुः ७०)
गुजरात्राज्यम्, भारतम्
शिक्षणस्य स्थितिः भारतीय प्रबंध संस्थान, गुजरातविश्वविद्यालयः Edit this on Wikidata
वृत्तिः नृत्याङ्गना कूचिपुडी , भरतनाट्यम् च ।
सक्रियतायाः वर्षाणि १९६९ - वर्तमाना
औन्नत्यम् फलकम्:Infobox person/height
अपत्यानि रेवन्तः, अनाहिता च ।
पुरस्काराः

रङ्गभूमिप्रशास्तिः,क्रि.श.२००७तमवर्षे नोबेल्पारितोषिकार्थं सूचितेषु १०००महिलासु अन्यतमा ,
क्रि.श२००५तमवर्षे Knight of the Order of Arts & Letters,
फ्रेञ्चसर्वकार्रेण, क्रि.श.२००२तमवर्षे सङ्गीतनाटाकाकादमीप्रशस्तिः
सर्जनात्मकनृत्यार्थम्, क्रि.श.२००१तमवर्षे Chevalier des
Palmes Academiques, फ्रेञ्चसर्वकारेण,
क्रि.श.१९९९तमवर्षे चलच्चित्रटीकासंस्थया, अत्युत्तमा,
पोषकपात्रधारिणी इति शीषा इति हिन्दीचलच्चित्रम् ,क्रि.श.१९८४तमवर्षे
अत्युत्तमाभिनेत्री इति पुरस्कारः, मीना इति गुजरातीभाषाचलच्चित्रम्,
गुजरात्राज्यसर्वकारेण,क्रि.श.१९७५तमवर्षे
चलच्चित्रटीकासंस्थया, अत्युत्तमा,पोषकपात्रधारिणी

इति मुति भार इति हिन्दीचलच्चित्रम्,क्रि.श.१९७४तमवर्षे
जालस्थानम् http://www.mallikasarabhai.com/home.html क्रि.श.तमवर्षे

मल्लिका साराभाय् भारतदेशस्य गुजरात्राज्यस्य ख्याता सामाजिककार्यकर्ती नृत्याङ्गना च । इयं शास्त्रीयनृत्याङ्गनायाः मृणालिनी साराभय्, बाह्याकासविज्ञानी विक्रं साराभाय् दम्पत्योः पुत्री । एषा कूचिपुडी भरतनाट्यम् नृत्यप्रकारस्य परिपूर्णा नृत्याङ्गना अस्ति । अपि च एषा, नृत्यस्य रङ्गभूमेः, चलच्चित्रस्य, लेखनस्य, मुद्रणस्य च क्षेत्रेषु अस्य योगदानं महत् अस्ति । [१] इयं TED (टेक्नालजि एण्टर्टेन्मेण्ट् डिसैन्) इत्यस्य विद्वन्मण्डल्याः सदस्या अपि । [२]

बाल्यं जीवनं च[सम्पादयतु]

इयं मल्लिका भारतस्य गुजरात्राज्यस्य विक्रं साराभाय् मृणालिनी साराभाय् दम्पत्योः पुत्रीत्वेन क्रि.श.१९५२तमवर्षस्य मे मासस्य ९दिनाङ्के अजायत । एषा गुजरात् राज्यस्य स्वनगरे अह्मदाबाद् मध्ये सेण्ट् क्सेवियर् महाविद्यालये शिक्षां प्राप्तवती ।[३]इयं मल्लिका प्रतिष्ठितायां IIM महाविद्यालयतः MBA पदवीं क्रि.श.१९७४तमे वर्षे आप्नोत् । मल्लिका क्रि.श.१९७६तमे वर्षे सांस्थिकव्यवहारस्य विषये शोधप्रबन्धं विलिख्य गुजरात् विश्वविद्यालयात् डाक्टरेट् पदवीम् अलभत । [४] अनेन सह एषा नटनायां, चलच्चित्रनिर्माणे, सङ्कलने, दूरदर्शनकार्यक्रमप्रस्तुतौ च निपुणा आसीत् ।

वृत्तिजीवनम्[सम्पादयतु]

मल्लिका बाल्यादेव नृत्याभ्यासम् आरब्धवती । स्वस्य पञ्जदशे वयसि एव कलात्मकचलच्चित्रेषु नटित्वा अभिनेत्रीजीवनम् समारभत । पीटर् ब्रूक् इत्यस्य दि महाभारतम् इति नाटके द्रौपद्याः पात्रं निरूपितवती स्वस्य सुदीर्घे वत्तिजीवने अनेकासां प्रशस्तिभजनम् अभवत् । दि गोल्डन् स्टार् इति प्रशस्त्या अपि भूषिता अभवत् । क्रि.श.१९७७तमे वर्षे थियेटर् डे चाम्प्स् एलिसीस् तः इयमेका एव या अत्युत्तमनृत्याङ्गना इति प्रशस्तिमती अभवत् । अनुपमा नृत्याङ्गना इति ख्यातिना सह मल्लिका काचित् सामाजिकसेवाकार्यकर्त्री अपि । इयं मात्रा समं अह्मदाबादनगरस्य दर्पणा अक्यादमी आफ् पर्फार्मिङ्ग् आर्ट्स् इति सङ्घटनं सञ्चालयति । [५]

जनजागरणार्थं रङ्गभूमिः[सम्पादयतु]

अरविन्द गौर् इत्यस्य निदेशनस्य बर्टोल्ट् ब्रेच्ट् इत्यनेन रचिते दि गुड् पर्सन् आफ् सजेच्वान् इति नाटके मल्लिका ।

क्रि.श १९८९तमे वर्षे इयं मल्लिका अतितीक्ष्णविषयम् आधृत्य एकव्यक्तिरुपकं प्रादर्शयत् । शक्तिः दि पवर् आफ् वुमेन् इति अंशः अस्य प्रदर्शनस्य उद्देशः आसीत् । तदनन्तरं प्रसक्तविषयमेव अवलम्ब्य अगणितप्रदर्शनानि निदेश्य अभिनीतवती । एते कार्यक्रमाः समाजस्य जागरणम् अकुर्वन् । इयं मल्लिका हर्षमन्दर् इत्यस्य अन्हर्ड् वाय्सस् इति कृतिम् अवलम्ब्य लिखितस्य अन्सुरि इति नाटकस्य चित्रकथामपि अलिखत् । एतत् अन्सुनि नाटकं भारते सर्वत्र प्रदर्शितम् अभवत् । अह्मदाबादनगरस्य कलासंस्था दर्पणा अन्सुनी चलच्चित्रनिर्माणेन जनजागरणम् अकरोत् ।[६] क्रि.श.२००९तमे वर्षे नवेम्बर् मासे अरविन्द् कौर् इत्यनेन सह मिलित्वा जीते भी नाटकस्य निदेशनम् अकरोत् । दुबै राज्ये भारतीयश्रमिकवर्गस्य स्थितेः परामर्शं करोति । दर्पणाकलसमूहः श्रमिकवर्गाणां कृते एव प्रदर्शनम् आयोजयत् । सद्यः काले इयं मल्लिका बर्टोल्ट् ब्रेच्ट् इत्यस्य दि गुड् पर्सन् आफ् सजेचवान् इति नाटकस्य भारतीयरूपान्तरम् अह्मदाबाद् कि औरत् भलि इत्यस्मिन् नाटकए राम्कलि पात्रम् इयं पोषितवती ।अरविन्द कौर् निदेशितस्य एतत् नाटकं विक्रं साराभाय् ३४तमे अन्ताराष्टियकलोत्सवे प्रदर्शितम् ।[७] [८][९]

वैयक्तिकं जीवनम्[सम्पादयतु]

स्वस्य महाविद्यालयीयजीवनं स्मृत्वा मल्लिका वदति यत् अहं कदापि कार्याणि अगोपयन्ती कृतवती इति । तदानीन्तन काले एव आधुनिकशैल्याः लघु लघु वस्त्राणि धृत्वा अटति । तरुणैः सह सरसविरसाः प्रेमप्रणयाः विवाहपूर्वसम्बधाः आसन् इति स्वयम् उद्घुष्टवती । [१०] महाविद्यालस्य अध्ययनकाले एव बिपिन् शाह इति पुरुषं मिलितवती तं एव पतिम् अकरोत् च । सप्तवर्षानन्तरं विच्छेदनम् समाश्रयताम् । तयोः दाम्पत्यफलरूपेण पुत्रः रेवन्तः पुत्री अनाहिता च स्तः । मातरं मल्लिकाम् अवलम्ब्य एव पुत्रौ अमेरिकासंयुक्तसंस्थानस्य सार लारेन्स महाविद्यालये पठन्तः स्तः ।[११] रेवन्तः(जननम् क्रि.श.१९८४तमवर्षः) [१२]) अपि च पुत्री अनाहिता (जन्म १९९०) उभावपि विश्वासयोग्यौ शास्त्रीयनृत्यपटू ।

राजकीयजीवनम्[सम्पादयतु]

क्रि.श.२००९तमे वर्षे मल्लिका साराभाय् गुजरात्राज्यस्य गान्धिनगरस्य लोकसभास्थानस्य देशस्य अस्य प्रधानमन्त्रिस्थानस्य आकाङ्क्षिणम् एल्.के.अड्वाणीमहोदयं विरुध्य प्रतिस्पर्धिनी भवामि इति उद्घुष्टवती । किन्तु काङ्ग्रेस् नायकाः तां निरकृतवन्तः । पूर्वं काङ्ग्रेस् नेता राजीव गान्धिः अपि पक्षस्य प्रतिनिधिः भवतु इति क्रि.श.१९८४तमे वर्शे आग्रहं कृतवान् इति सा वदति । [१३][१४] स्पर्धिनौ अभवताम् । राजकीयवैशम्यं विरुद्ध्य मम सत्याग्रहः इयं स्पर्धा इति तस्याः अभिप्रायः आसीत् ।[१४] अन्दे निर्वाचने मल्लिका पराजयम् अनुभवति । सुरक्षानिधिरपि नष्टा भवति । [१५]

प्रशस्तयः पुरस्काराः च[सम्पादयतु]

  • विश्वशान्त्याः प्रचाराथं नृत्यकलाम् उपयुज्यं कृतं योगदानं परिगणय्य क्रि.श.२००८तमे वर्षे वर्ल्ड् इकानमिक् फोरम् तः क्रिस्ट्ल् प्रशस्तिः प्रदता ।[१६]
  • थियेटर् पास्ता थियेटर् प्रशस्तिः क्रि.श.२००७तमे वर्षे ।
  • नोबेल्पारितोषिकार्थं सूचितेषु १०००महिलासु अन्यतमा ,क्रि.श२००५तमवर्षे ।[१७]
  • इण्डियन् फार् कलेक्टिव् एक्षन् आनर् प्रशस्तिः क्रि.श.२००४तमे वर्षे ।,२००४[१८]
  • कलाशिरोमणिपुरस्कारः इन्स्टिट्यूट् आफ् इकानिमिक् स्टडीस् क्रि..२००४तमे वर्षे । [१८]
  • इण्डियन् मर्चेण्ट्‘स् चेम्बर् । (IMC), क्रि.श.२००३तमे वर्षे [१८]
  • नैट्स् आफ् दि आर्डर् आफ् आर्ट्स् ऽ ल्याम्प् फ्रेञ्च् सर्वकारेण क्रि.शा.२००२।
  • सर्जनात्मकनर्तनार्थं सङ्गीतनाटकाकादमीप्रसास्तिः, क्रि.श.२०००तमे वर्षे[१८][१९]
  • षेवलियर् डेस् पाल्म्स् अक्याडेमिक्स् प्रशास्तिः क्रि.श.१९९९तमे वर्षे फ्रेञ्चसर्वकारेण दत्ता ।[१८]
  • शीशा चलच्चित्रस्य अभिनयस्य अत्युत्तमा पषोकनटी इति चित्रविमर्शा प्रशस्तिः १९८४तमे वर्षे । [१८]
  • गुजरातसर्वकारनिर्मिते मेना गुर्जारी चलच्चित्त्रे अभिनयस्य अत्युत्तमा आभिनेत्री इति प्रशस्तिः क्रि.श१९७५तमे वर्षे ।[१८]
  • मुट्टि भर् चावल् चलच्चित्राभिनयस्य अत्युत्तममाभिनेत्री प्रशस्तिः क्रि.श. १९७४तमे वर्षे ।[१८]


उल्लेखाः[सम्पादयतु]

  1. "अखण्डभारतवर्षस्य सुप्रसिद्धा नृत्यसंयोजिका, शिक्षिका, नृत्यकारा इति अस्याः विषये". Archived from the original on 2011-10-02. आह्रियत 2012-02-17. 
  2. [१]
  3. नृत्यपटूनाम् इण्डोबेस्
  4. "संग्रह प्रतिलिपि". Archived from the original on 2009-03-28. आह्रियत 2012-02-17. 
  5. [http://www.darpana.com
  6. सुनी आन्दोलनम्[नष्टसम्पर्कः]
  7. Utpal K Banerjee (2010-08-17). "Epiphany of good and greed". The Indian Express. आह्रियत 2010-08-31. 
  8. Dipanita Nath (2010-07-30). "The Difficulty of Being Good". The Indian Express. आह्रियत 2010-07-31. 
  9. "34th Vikram Sarabhai International Art Festival". The Times of India. 2009-12-24. आह्रियत 2009-12-31. 
  10. http://www.telegraphindia.com/1090329/jsp/7days/story_10740051.jsp
  11. http://www.expressindia.com/latest-news/i-have-no-vehicle-nor-any-bank-deposits/442462[नष्टसम्पर्कः]
  12. ड्यान्स् वर्क्स्, चित्रा सुब्रह्मण्यम्, क्रि.श. २००८तमवर्षः मार्चमासस्य ६दिनाङ्कः । http://indiatoday.intoday.in/index.php?option=com_content&task=view&issueid=44&id=5428&Itemid=&sectionid=&completeview=1
  13. साराभाय् एल्.के.अड्वाणि च गुजरात् गान्धिनगरे [नष्टसम्पर्कः]
  14. १४.० १४.१ [http://timesofindia.indiatimes.com/India/Mallika-Sarabhai-to-challenge-Advani/articleshow/4288000.cms
  15. "[[नरेन्द्र मोदिः|नरेन्द्रमोदिमहोदयस्य]] मान्त्रिकमोहः यशः अवाप्नोत् इति वादः अस्ति ।". Archived from the original on 2009-05-19. आह्रियत 2012-02-17. 
  16. "Amitabh Bachchan, Mallika Sarabhai to receive WEF Crystal Award" (in English). The Hindu. 2009-01-25. आह्रियत 2009-01-26. 
  17. 1000 Peacewomen Across the Globe (in English). Scalo. 2006-03-30. p. 1073. ISBN 3039390392. 
  18. १८.० १८.१ १८.२ १८.३ १८.४ १८.५ १८.६ १८.७ "Malika Sarabhai" (in English). Indo-American Arts Council Inc. 2007-02-27. आह्रियत 2009-01-26. 
  19. [https://web.archive.org/web/20081005121314/http://www.sangeetnatak.com/programmes_recognition%26honours_dance_cdc.html Archived २००८-१०-०५ at the Wayback Machine

बाह्यानुबन्धाः[सम्पादयतु]

अतिशयज्ञानार्थम्[सम्पादयतु]

  • इन्द्रगुप्तस्य इण्डियास् ५०मोस्ट् इल्लस्ट्रियस् विमेन् ।
"https://sa.wikipedia.org/w/index.php?title=मल्लिका_साराभाई&oldid=481719" इत्यस्माद् प्रतिप्राप्तम्