सामग्री पर जाएँ

मस्तकाभिषेकः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मस्तकाभिषेकः
{{{holiday_name}}}
बाहुबल्यभिषेकः
के आचरन्ति जैनाः
वर्गः धार्मिकम्
रीतयः प्रार्थनाभिषेकादयः धार्मिकाचाराः

महामस्तकाभिषेकः (Mahamastakabhisheka) कर्णाटके हासनमण्डले स्थिते श्रवणबेळगोळनगरे प्रतिद्वादशवर्षं प्रचाल्यमानः कश्चन प्रमुखः जैनजनानाम् उत्सवः । अयम् उत्सवः फेब्रवरीमासस्य द्वितीये सप्ताहे प्रचलिष्यति । सर्वे जैनमतावलम्बिनः एतम् उत्सवम् औत्सुक्येन प्रतीक्षन्ते सदापि । जगतः नानाकोणेभ्यः ३०,००,००० अधिकाः जनाः एतस्मिन् मस्तकाभिषेकोत्सवे भागं गृह्णन्ति.[१] । ५७ पादोन्नतस्य (१७.५.मी) अद्वितीयस्य अखण्डशिलालानिर्मितस्य बाहुबलिनः मूर्तेः मस्तकाभिषेकः जगति एव सुविख्यातः ।

बाहुबलिनः कथा

[सम्पादयतु]

चतुर्विंशतितमेन (२४)तीर्थङ्करेण वर्धमानमहावीरेण जैनमतस्य प्रसारः महता प्रमाणेन कृतः । आदिनाथः ऋषभदेवः प्रथमः तीर्थङ्करः । सः आसीत् कश्चन राजा । सः राज्यं परित्यक्तुम् ऐच्छत् । अतः सः राज्यं द्विधा विभज्य एकं भागं ज्येष्ठपुत्राय भरताय, अपरं भागं कनिष्ठाय पुत्राय बाहुबलिने च अर्पितवान् । भरतस्य चक्रवर्तीत्वं न अनुमतं बाहुबलिना । यद्यपि तयोः मन्त्रिणः युद्धम् एव उचितं भावितवन्तः, तथापि तौ सहोदरौ निर्णीतवन्तौ यत् मल्लयुद्धमात्रेण एव शक्तिमत्त्वं निश्चेतव्यम् इति । एतस्मिन् युद्धे जयं प्राप्तवान् अपि बाहुबली राज्यं न ऐच्छत् । साम्राज्यं परित्यज्य सः विविक्ते देशे अन्नं जलं वापि असेवमानः तपः आचरत् । अचिरात् एव सः निर्वाणं प्राप्तवान् ।

बहूनां वर्षाणाम् अनन्तरं, तन्नाम दशमे शतके, चावुण्डरायः गङ्गवंशीयस्य द्वितीयस्य राचमल्लस्य मन्त्री जातः । यत्र बाहुबली निर्वाणं प्राप्तवान् तं पौदनपुरप्रदेशं प्रति सः कदाचित् मातरं नीतवान् । मातापुत्रयोः स्वप्ने भगवती कूष्माण्डिनीदेवी प्रत्यक्षीभूय आज्ञापितवती यत् चन्द्रगिरौ स्थित्वा दक्षिणभागस्थम् इन्द्रगिरिं प्रति बाणः प्रयोक्तव्यः इति । अनन्तरदिने चावुण्डरायः सुवर्णमयं बाणम् इन्द्र्गिरिं लक्ष्यीकृत्य प्रयुक्तवान् । तदा तेन बाहुबलिनः मूर्तिः तत्र अक्षिसात्कृता । ततः सः तत्रत्यायां शिलायां बाहुबलिनः मूर्तेः उत्कृन्तनम् अकारयत् ।

मूर्तिः

[सम्पादयतु]
बाहुबलिनः मूर्तिः।

क्रि श ९७३ तमे वर्षे चावुण्डरायेण निर्मापिता बाहुबलेः एकशिलाप्रतिमा जनानां मनः आकर्षति । ५७ पदपरिमित-उन्नतकायः सुन्दरः शान्तवदनः बाहुबलिः शतकेभ्यः आस्तिकजनानां आकर्षणस्य केन्द्रबिन्दुः । देशविदेशेभ्यः सहस्रशः जना विरागिणः बाहुबलेः दर्शनार्थम् आगच्छन्ति ।

अभिषेकः

[सम्पादयतु]

हिन्दु- जैन – बौद्ध –धार्मिकसम्प्रदायेषु अभिषेकस्य अतीव महत्वं वर्तते । शुद्धोदकं, पञ्चामृतं , सुगन्धद्रव्याणि इत्यादि वस्तूनि उपयुज्य इष्ट्मूर्तेः अभिशेकं कुर्वन्ति श्रद्धालवः ।

द्वादशवर्षेषु एकवारं श्रवणबेळगोळस्थस्य महाविरागिणः बाहुबलेः अभिषेकस्य महाउत्सववः महामस्तकाभिषेकः प्रचलति । बाहुबलेः विग्रहनिर्माणकार्यस्य समाप्तेः स्मरणार्थम् एषः उत्सवः आचर्यते । महामस्तकाभिषेकस्य सन्दर्भे विंशतिदिनानि यावत् उत्सवः, अभिषेक-पूजादयः भवन्ति । श्रवणबेळगोळस्थस्य जैनमठस्य पूज्यस्वामिनः नेतृत्वे महामस्तकाभिषेकोत्सवः आचर्यते । विंशतिदिनात्मके महामस्तकाभिषेकोत्सवे सहस्रशः जैनस्वामिनः, विविधसम्प्रदायानां आचार्याः, केसरि-श्वेतवस्त्रधारिणः लक्षशः श्रद्धालवः भागं वहन्ति ।

उत्सवस्य कालावधिः

[सम्पादयतु]

उत्सवसन्दर्भे विंशतिदिनानि यावत् श्रवणबेळगोळक्षेत्रे जैन-धर्मसभाः. विद्वद्गोष्ठ्यः, पुस्तकप्रदर्शिनी इत्यादि विभिन्नाः कार्यक्रमाः आयोज्यन्ते । महामज्जनस्य अवधिः विंशतिदिनात्मकः । परन्तु मासत्रयं यावत् श्रवणबेळगोळक्षेत्रे उत्सवः चलति । तेषु दिनेषु भक्तानां प्रवाहः एव श्रवणबेळगोळं प्रति प्रवहति !

अभिषेकविधिः

[सम्पादयतु]

विंशतिदिनानि प्रतिदिनं षड्-घण्टाः यावत् अभिषेकः भवति । १०८ पूजितकलशेषु पूरितं जलम् उपयुज्य अभिषेकं कुर्वन्ति । १०००ली क्षीरं , २५० किलो परिमितं श्रीगन्ध-हरिद्राचूर्णं , ३०००ली जलम् च उपयुज्य प्रतिदिनम् अभिषेकं कुर्वन्ति । एतद्विहाय  नारिकेलजलं , इक्षुरसः , तण्डुलपिष्टं, मूलिकाचूर्णं, अमूल्यानि रत्नानि तथा ५२ प्रकारकपुष्पणि महामज्जनार्थम् उपयुज्यन्ते । अद्यत्वे  हेलिकाप्टरद्वारा क्रियमाणा पुष्पवृष्टिः अपि कार्यक्रमस्य वैभवं वर्धयति [२]

सन्देशाः

[सम्पादयतु]

अहङ्कारनिग्रहः तथा स्वनियन्त्रणं मोक्षमार्गस्य प्राथमिकघट्टः । बाहुबलेः भव्यदिगम्बरविग्रहः त्यागभावं , प्रापञ्चिकापेक्षाणां विषये वैराग्यं, स्वनिग्रहं च द्योतयति । मस्तकाभिषेकद्वारा जनाः त्यागपरम्परायाः विषये श्रद्धाम् आदरं च दर्शयन्ति ।

उपस्थितिः

[सम्पादयतु]

२०१८ फेब्रुवरिमासे जैनमठस्य स्वामिनां प.पू चारुकीर्तिभट्टारकमहास्वामिनः अद्ध्वर्यवे आचरिते महामस्तकाभिषेककार्यक्रमे देशस्य प्रमुखजैनस्वामिनः , महामहिम राष्ट्रपतिः रामनाथकोविन्दमहाभागः , कर्णाटकसर्वकारस्य अनेके मन्त्रिणः भागम् अवहन् ।

चित्राणि

[सम्पादयतु]

उल्लेखाः

[सम्पादयतु]
  1. Correspondent, TNN (8 February 2006). "Mahamastakabhisheka of Bahubali begins today". The Times of India. Archived from the original on 2013-01-26. आह्रियत 2020-12-05. 
  2. Jaini 1998, p. 205.

बाह्याः उल्लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=मस्तकाभिषेकः&oldid=480765" इत्यस्माद् प्रतिप्राप्तम्