महर्षि महेश योगी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
महर्षि महेश योगी (२००७)

महर्षि महेश योगी १९१८ तमे वर्षे जनवरीमासस्य १२ दिनाङ्के प्रयागे जातः । तस्य मूलनाम आसीत् महेशप्रसादवर्मा इति । सः 'अतीन्द्रियध्यानपद्धतिम्' (Transcendental Meditation technique) आविष्कृतवान् । तस्य आन्दोलनस्य गुरुः सः । किञ्चन धार्मिकान्दोलनं सत्यपि धर्मनिरपेक्षमिति गृह्यते । महर्षि महेश योगी हिमालये स्थितस्य ज्योतिर्मठस्य शङ्कराचार्यस्य स्वामीब्रह्मानन्दसरस्वतीवर्यस्य शिष्यः सहायकश्च जातः ।

बाल्यजीवनम्[सम्पादयतु]

महेशः अलहाबादविश्वविद्यालये भौतशास्त्रे स्नातकपदवीं प्राप्तवान् १९४२ तमे वर्षे । सः ज्योतिर्मठस्य शङ्कराचार्याणां ब्रह्मानन्दसरस्वतीनां सान्निध्ये अध्ययनम् अकरोत् । बालब्रह्मचारी महेशः इति तत्र नामाङ्कितः जातः । सः स्वामिभिः सः १९५३ तमवर्षपर्यन्तं (गुरोः दिवङ्गमनं यावत्) तत्रैव अतिष्ठत् । ततः उत्तरखण्डस्य उत्तरकाशीम् अगच्छत् ।

भारते प्रवासः(१९५५-१९५७)[सम्पादयतु]

१९५५ तमे वर्षे ब्रह्मचारी महेशः स्वस्य गुरुणा पाठितम् अतीन्द्रियध्यानपद्धतिं सार्वजनिकरूपेण पाठयितुम् आरब्धवान् । वर्षद्वयं यावत् सः आभारते प्रवासं कृतवान् । स्वस्य इदम् आन्दोलनं सः अध्यात्मप्रगतेः / अध्यात्मपुनरुत्थानस्य आन्दोलनमिति निर्दिष्टवान् । अस्य पद्धतेः परमप्रयोजनस्य विषये बहवः स्वानुभवम् अकथयन् ।

विश्वप्रवासः (१९५८-१९६८)[सम्पादयतु]

महर्षिकेन्द्रम्, मेरु, होलेण्ड्

१९५९ तमे वर्षे महर्षि महेशयोगी विश्वप्रवासम् आरब्धवान् । तेन उक्तम् - 'मम मनसि एकः विचारः वर्तते, सर्वस्य जनस्य अपि उपयोगाय यत् भवेत् तादृशं किञ्चित् अहं जानामि' इति । प्रथमः विश्वप्रवासः रङ्गून्तः (बर्मा, अधुना म्यान्मार्) आरब्धः । ततः थैलेण्ड्, मलय, सिङ्गपूर्, हाङ्ग्काङ्ग्, हवैदेशं गतवान् । हवैदेशस्य दिनपत्रिका 'दि होनोलूलु स्टार् बुलेटिन्' उल्लिखति यत् - 'सः आसीत् निर्धनः । सः न किञ्चित् याचते । तदीयानि प्रापञ्चिकवस्तूनि हस्तग्राह्यानि आसन् । तदीयः सन्देशः विश्वं दुःखात्, अतृप्तितः च रक्षति इति सः कथयति' इति । १९५९ तमे वर्षे महर्षी होनोलूलु, सान्फ्रान्सिस्को, लास्-एञ्जलीस्, बोस्टन्, न्यूयार्क्, लण्डन्देशे च अतीन्द्रियध्यानपद्धतिम् अबोधयत् । १९५९ तमे वर्षे सः सान्फ्रान्सिस्कोनगरे लण्डन्नगरे च अन्ताराष्ट्रियध्यानकेन्द्रम् आरब्धवान् । १९६० तमे वर्षे महर्षी फ्रान्स्, स्विट्सर्लेण्ड्, इङ्ग्लेण्ड्, स्काट्लेण्ड्, नार्वे, स्वीडन्, जर्मनी, दि नेदर्लेण्ड्स्, इटालि,सिङ्गपुर्, आस्ट्रेलिया, न्यूझिलेण्ड्, आफ्रिका इत्यादीन् देशान् अगच्छत् । तत्र सर्वत्र सः अतीन्द्रियध्यानपद्धतिम् अपाठयत् । स्वस्य अनुपस्थितौ अभ्यासं कर्तुं ध्यानकेन्द्राणि च आरब्धवान् । १९६१ तमे वर्षे महर्षी आस्ट्रेलिया, स्वीडन्, फ्रान्स्, इटालि, ग्रीस्, भारतम्, केन्या, इङ्ग्लेण्ड्, अमेरिका, केनडा इत्यादीन् देशान् अगच्छत् । इङ्ग्लेण्ड्देशे बि बि सि दूरदर्शने तस्य सन्दर्शनं प्रसारितम् । १९६१ तमे वर्षे एप्रिल्मासे भारते हृषिकेशे अतीन्द्रियध्यानपद्धतेः प्रथमशिक्षकप्रशिक्षणवर्गः तेन सञ्चालितः । विभिन्नेभ्यः देशेभ्यः ६० प्रशिक्षणार्थिनः भागम् अवहन् । इदम् अग्रे अनुवृत्तम् ।

भावातीतध्यानान्दोलनस्य प्रगतिः[सम्पादयतु]

१९६८ तमे वर्षे महर्षिः स्विट्जर्लेण्ड्देशस्य सील्स्बर्गनगरं केन्द्रकार्यालयम् अकरोत् । तत्र शिक्षकप्रशिक्षणम् आरब्धवान् । १९७० तमे वर्षे मासात्मकं वर्गं केलिफोर्नियायाम् अकरोत् यस्मिन् १५०० जनाः भागम् अवहन् । १९७२ तमे वर्षे क्वीन्स्-विश्वविद्यालये प्रशिक्षणवर्गम् अचालयत् यस्मिन् अमेरिका-केनडातः आगताः १००० युवानः भागम् अवहन् । १९७३ तमे वर्षे स्टेट् आफ् इल्लिनाय्स् विधानसभायाम् अबोधयत् । विद्यालयेषु तस्य ज्ञानस्य योजनाय विधानसभया अनुमतिः प्राप्ता । १९७४ तमे वर्षे महर्षि-अन्ताराष्ट्रिय-विश्वविद्यालयः संस्थापितः । १९७५ तमे वर्षे महर्षि पञ्च-खण्ड-प्रवासम् अकरोत् यं सः 'प्रबोधयुगस्य उदयः' इति अवर्णयत् । १९ शतकस्य सप्तमशतके ३७० भावातीतध्यानकेन्द्राणि ३७० शिक्षकाः च आसन् ।

महर्षि महेश योगी, २००५ जनवरी १२

मरणम्[सम्पादयतु]

२००८ तमे वर्षे जनवरिमासस्य १२ दिनाङ्के महर्षि अवदत् - 'गुरुदेवस्य चरणसन्निधौ मम कर्तव्यं समर्पयामि । अस्मिन् जगति शान्तिः, सुखम्, समृद्धिः, दुःखात् स्वातन्त्र्यं च भवतु इति आशासे' इति । मरणात् एकसप्ताहात् पूर्वं महर्षिः अवदत् - 'भावातीतध्यानान्दोलनस्य नायकत्वात् निर्गत्य मौनम् आश्रयामि' इति । फेब्रवरिमासस्य ५ दिनाङ्के सः निद्रायामेव शान्त्या मरणं प्राप्नोत् नेदर्लेण्ड्देशस्य स्वगृहे । तस्य अन्तिमसंस्कारः भारतस्य अलहाबादाश्रमे कृतम् । अस्थिविसर्जनं गङ्गा-यमुनानद्योः कृतम् ।

बाह्यशृङ्खला[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=महर्षि_महेश_योगी&oldid=398310" इत्यस्माद् पुनः प्राप्तिः