महर्षीणां भृगुरहं...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
- यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ २५ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य पञ्चविंशतितमः(२५) श्लोकः ।
पदच्छेदः
[सम्पादयतु]महर्षीणां भृगुः अहं गिराम् अस्मि एकम् अक्षरम् यज्ञानां जपयज्ञः अस्मि स्थावराणां हिमालयः ॥ २५ ॥
अन्वयः
[सम्पादयतु]महर्षीणाम् अहं भृगुः । गिराम् एकम् अक्षरम् अस्मि । यज्ञानां जपयज्ञः अस्मि । स्थावराणां हिमालयः अस्मि ।
शब्दार्थः
[सम्पादयतु]- महर्षीणाम् = महामुनीनाम्
- अहं भृगुः = अहं भृगुमहर्षिः
- गिराम् = वाचाम्
- एकम् अक्षरमस्मि = ओङ्कारः अस्मि
- यज्ञानाम् = यागेषु
- जपयज्ञः अस्मि = जपयागः अस्मि
- स्थावराणाम् = स्थितिमताम्
- हिमालयः = हिमवान् ।
अर्थः
[सम्पादयतु]महर्षिषु अहं भृगुमहर्षिः । शब्दरूपासु गीर्षु ओारः अस्मि । यज्ञेषु जपयज्ञः अस्मि । स्थितियुक्तेषु अहं हिमालयपर्वतः अस्मि ।