महात्मानस्तु मां पार्थ...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः[सम्पादयतु]

गीतोपदेशः
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य त्रयोदशः(१३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

महात्मानः तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः भजन्ति अनन्यमनसः ज्ञात्वा भूतादिम् अव्ययम् ॥ १३ ॥

अन्वयः[सम्पादयतु]

पार्थ ! दैवीं प्रकृतिम् आश्रिताः महात्मानः तु मां भूतादिम् अव्ययम् ज्ञात्वा अनन्यमनसः भजन्ति ।

शब्दार्थः[सम्पादयतु]

पार्थ = अर्जुन
दैवीम् = देवसम्बन्धिनम्
प्रकृतिम् = स्वभावम्
आश्रिताः = प्राप्ताः
महात्मानः तु = महानुभावाः तु
मां भूतादिम् = मां सर्वभूतकारणम्
अव्ययम् = अविनाशिनम्
ज्ञात्वा = विदित्वा
अनन्यमनसः = एकाग्रचित्ताः
भजन्ति = सेवन्ते ।

अर्थः[सम्पादयतु]

सत्त्वगुणप्रधानाः महात्मानस्तु देवानां प्रकृतिम् आश्रिताः मां सर्वेषां भूतानां कारणम् अविनाशिनं च मत्वा एकाग्रचित्ताः सन्तः मां ध्यायन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]