सामग्री पर जाएँ

मातृदिवसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मातृदिवसः
मातृदिवसः
मातृदिवस्य एकं पत्रम्
के आचरन्ति विविधदेशसमूहः
वर्गः अन्ताराष्ट्रियविशेषदिनम्
दिनाङ्कः मे मासस्य द्वितीयः रविवासरः (आमेरिकादेशे तथा अन्यान्यराष्ट्रेषु च),
चतुर्थः रविवासरः (मादारिं सान् डे, ब्रिटेन् )
सम्बद्धम् शिशुदिवसः, अन्ताराष्ट्रिय-महिलादिनम्

मातृदिवसः ( /ˈmɑːtrdɪvəsəh/) (हिन्दी: मातृ दिवस, आङ्ग्ल: Mother's Day) समग्रे विश्वस्मिन् मई मार्च वा मासे आचर्यते । विश्वस्मिन् सर्वत्र भिन्न-भिन्न दिवसे अयं दिवसः आचर्यते । अतः भारतदेशे प्रतिवर्षं मई-मासस्य द्वितीये रविवासरे अयं दिवसः आचर्यते । तस्मिन् दिने माता आराध्यते, उपास्यते, पूज्यते च । तद्दिनं मात्रे अर्पितमस्ति ।

सञ्चिका:Mother's day udit1.jpg
वात्सल्यस्य प्रतीकः

मनुष्यः एकः सामाजिकः प्राणी अस्ति । समाजस्य मुख्याधारः कुटुम्बः अस्ति । परिवारेषु माता एव विशिष्टा अस्ति । कुटुम्बजनाः मातरं परितः भ्रमन्ति । कुटुम्बस्य वातावरणस्य निर्माणं माता एव करोति । अनेन वातावरणेन बालकाः सामजिकाः असामजिकाः वा भवन्ति । अतः सा निर्माता इति कथ्यते । अस्य कारणं स्पष्टमस्ति यत् बालकानां सर्वप्रथमः सम्बन्धः मात्रा सह भवति । कुटुम्बजनानाम् अपेक्षया बालकेन सह मातुः सम्बन्धः नवमासाः अधिकः भवति । मातुः गर्भे एव बालकस्य निर्माणप्रक्रियायाः प्रारम्भः भवति । नवमासं यावत् बालकः मातुः गर्भे निवसति, येन कारणेन तस्य सर्वत्र सम्पर्कः भवति ।

यथा जनाः सुसस्योत्पादनार्थं पृथ्वीं सम्यक्तया सज्जीकुर्वन्ति तथैव भारतीयसंस्कृतेः अनुसारं गर्भाधानसंस्कारात् परं पुंसवनसंस्कारः, सीमन्तोन्नयनसंस्कारः, जातकर्मसंस्कारः, नामकरणसंस्कारः इत्यादिभिः द्वादशसंस्कारैः (गृहस्थाश्रमप्रवेशात् पूर्वं) बालकः संस्कारी भवति । यद्यपि राक्षसवंशीयस्य हिरण्यकशिपोः कुटुम्बे प्रह्लादः जातः, तथापि सः विष्णोः भक्त एव अभवत् । अस्य मूलकारणं तस्य माता आसीत् । मातुः संस्कारप्रदानेन प्रह्लादः संस्कारी जातः । अतः तस्य सम्पूर्णं श्रेयः प्रह्लादस्य मातुः एव ।

केनचिदुक्तमस्ति – “जननी जने तो भक्त जन, या दाता या सूर, नहीं तो जननी बाँझ रहे, व्यर्थ गँवाए नूर” ।

मातुः समस्तानां ज्ञानेन्द्रियाणां प्रभावः गर्भस्थशिशौ भवति । सा किं खादति? किं पठति ? किं शृणोति ? इत्येते सर्वे प्रभावकारिणः विषयाः सन्ति । महाभारते आगता अभिमन्योः चक्रव्यूहप्रवेशज्ञानस्य कथा सर्वैः ज्ञाता एव अस्ति । एषा कथा ऐतिहासिकी, साक्षीभूता च अस्ति । अतः संस्कारी सन् समाजे राष्ट्रे वा कथं जीवनीयम् इति तु माता एव पाठयति ।

बालकस्य जीवननिर्माणाय धैर्यं, क्षमा, सहनशीलता इत्यादीनां गुणानाम् आवश्यकता भवति । मातरि एते गुणाः अन्तर्निहिताः भवन्ति । एतेषां गुणानां कारणादेव माता बालकस्य त्रुटीः क्षाम्यति । यथा बीजम् एकस्मै वृक्षाय स्वस्य अस्तित्वं नाशयति तथैव माता अपि स्वस्य बालकस्य सुख-समृद्ध्यर्थं स्वसुखं त्यजति । तस्याः तपः, साधना, त्यागश्च निःस्वार्थ एव भवति । गुरोः वसिष्ठस्य निर्देशानुसारं कौशल्यया सम्पूर्णराजसुखानां त्यागं कृत्वा तपस्या कृता । तेन कारणेन भगवान् रामः पुरुषोत्तमः अभवत् । पूर्वम् एकः तपस्वी बालकः ध्रुवः आसीत् । स अपि मातुः प्रेरणया अमरत्वं प्राप्तवान् । शिवाजी जीजाबाई इत्यस्याः पुत्रः आसीत् । तेन मातुः प्रेरणया मुगल-शासकानां नाशः कृतः, छत्रपति शिवाजी इति विख्यातिः च प्राप्ता । इतिहासे एतादृशानि अनेकानि उदाहरणानि सन्ति ।

उपमादृष्ट्या लघुबालकः मृत्तिका इव, माता कुम्भकारः इव ज्ञेयः । कारणं बालकः अधिकांशतः मातुः सम्पर्के एव भवति । अतः माता यथा इच्छति तथैव संस्कारान् दातुं शक्नोति । यथा आयुष्यवृद्धिः भवति तथैव संस्कारैः मनुष्यस्य चरित्रनिर्माणं भवति । अतः भारतीयसंस्कृतौ माता एव सर्वप्रथमः गुरुः मन्यते ।

उच्यते – “माँ से बडा नहीं है कोई, गाते वेद पुराण हैं । सच मानो तो इस धरती पर माता ही भगवान् हैं” ॥

"https://sa.wikipedia.org/w/index.php?title=मातृदिवसः&oldid=360240" इत्यस्माद् प्रतिप्राप्तम्