अन्ताराष्ट्रिय-महिलादिनम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
अन्ताराष्ट्रिय-महिलादिनम्
अन्ताराष्ट्रिय-महिलादिनम्
अन्ताराष्ट्रिय-महिलादिनाचरणस्य चित्रम्, मार्च्-मासः ८, १९१४
के आचरन्ति विश्वस्तरे आचर्यते
वर्गः अन्ताराष्ट्रियम्
महत्त्वम् महिलानां विषये जनजागरणम्
दिनाङ्कः मार्च्-मासे ८ दिनाङ्के

भूमण्डले प्रायशः त्रिशतकोटिमहिलाः सन्ति । अत एव प्रतिवर्षं मार्च् मासस्य अष्टमे दिनाङ्के अन्ताराष्ट्रियमहिला्दिनम् आचर्यते । विशेषतः अस्मिन् दिने महिलानां सस्यानां, साधकबाधकानां तथा विशिष्टमहिलानां विषये चिन्तनं प्रचलति । प्रथमतः १९१० तमे वर्षे डेन् मार्क् देशे कोपन् हेगन् नगरे अन्ताराष्ट्रिय महिला समाजवादि सम्मेलने मार्च् मासस्य अष्टमदिने महिलादिनम् इति आचरितुं घोषणा कृता आसीत् । इतः पूर्वं प्यारिस् नगारे १८८९ तमे वर्षे अन्ताराष्ट्रिय कार्थिक सम्मेलने श्रीमती क्लारा जेटकिन् समानवेतन समानावकाश समान कर्तव्यविषये प्रस्तावनां स्थापितवती । १९०८ तमे वर्षे एतदर्थं महती प्रतिभटना कृता आसीत् । अमेरिकादेशे वस्त्रयन्त्रागारकार्मिकाः एतां प्रतिभटनां कृतवन्तः । मार्च मासस्य अष्टमे दिने एव १९३७ तमे वर्षे रष्यादेशे महिलाः जार राजानं विरुध्य प्रतिभटनां कृतवत्यः । एवं मार्च मासस्य अष्टमं दिनम् महिलादिनम् इति प्रसिद्धम् अभवत् ।

पूर्वदेशेषु महिलाः पुरुषसमानाः कार्यकरणे रताः । लेखकाः अपि भूत्वा महिलाकर्तव्यमहिलाधिकारः समानतादिविषये जनात् जागरितवत्यः । पूर्वदेशेषु एव प्रथमतः समानता, समाधिकारः, गौरवम् इत्यादिप्राप्तमभवत् । भारतदेशे महिलाः पुरुषप्रधानसमाजे व्यवस्थितरीत्या निर्लक्षिताः आसन् । तासां शिक्षणं न ददाति स्म । केवलं गृहकार्यं, कृषिकार्य, पतिपुत्रादिसंरक्षणं महिलानां कार्यमासीत् । यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः इति उक्तिः महिलानां महत्वं ज्ञापयति । किन्तु महिलाः अबलाः शोषिताः गृहे एव आसन् इति तु सर्वविदितः विषयः अस्ति । वेदकालेऽपि गार्गी, मैत्रेयी, अरुन्धती, लोपमुद्रा इत्यादायः श्रेष्ठमहिलाः पुरुषसमानाः आसन् । किन्तु अनन्तरकाले महिलाः विद्याभ्यासरहिताः आर्थिकसम्बन्धरहिताः आसन् । यद्यपि बुद्धिमत्यः महिलाः आसन् तथापि तासां पूर्णरीत्या प्रोत्साहनं न लब्धम अभवत् ।

महिलाः सहनशीलाः, त्यागशीलाः, वात्सल्ययुक्ताः गृहे अतीव मुख्यनि रव्याकार्याणि कुर्वन्ति स्म । अथापि सर्वसमानता न प्राप्ता आसीत् । संसारनिर्वहणे, लालनपालने, इतरकार्येषु च योगदानं दत्वा महिलाः गौरवम् प्राप्ताः आसन् । गृहात् बहिर्गमनं तासां न इष्टमासीत् । ललितकलासु निपुणाः गृहे एव सन्तुष्टाः वसन्ति स्म । एषः मनोभावः अपि महिलानाम् अन्यक्षेत्रेषु प्रवेशे बाधकः अभवत् । भारतीयेतिहासे कित्तूरु चेन्नम्मा, झान्सी लक्ष्मीबाई, बेळवडिमल्लम्मा, अक्कमहादेवी, मीराबाई, सञ्चिहोन्नम्मा, इत्यादि श्रेष्ठमहिलानां विशेषकार्याणि जनाः स्मरन्ति । लेखने युद्धे देशप्रेमविषये सेवायां तथा प्रशासने च एताः महिलाः प्रसिद्धाः आसन् वीरमाता पन्ना, राज्ञी पद्मिनी, ओनके ओबव्वा हेळवनकट्टे गिरियम्मा इत्यादयः स्मरणीयाः सन्ति ।

भारते, मध्यकाले पितापतिपुत्रैः पालिता महिला न स्वातन्त्र्यमर्हति इति मनुवचनम् अनुसृतम् आसीत् । पतिव्रतादर्शनेन पूजनेन पुण्यप्राप्तिः भवति इति विश्वासः आसीत् । कुमारिकाणां पूजाऽपि विशेषतः भवति स्म । आधुनिककाले श्रीमती कस्तूरिबा गान्धी, विजयलक्ष्मी पण्डिता, सरोजिनी नायडु, विद्यावतीदेवी, इन्दिरा गान्धी, एम्. एस्. सुब्बुलक्ष्मीः, पी टी उषा इत्यादि अनेकमहिलाः सर्वजनप्रियाः सन्ति । विविधक्षेत्रेषु कार्यं कृत्वा गौरवम् प्राप्तवत्यः । एतिहासिककाले सावित्री, राज्ञीशान्तला इत्यादि महिलाः अपूर्वकार्यं कृतवत्यः आसन् । विश्वे सर्वत्र पुरुषसमानकार्यकरणे रताः महिलाः समानतां प्राप्ताः सन्ति । भारतदेशेऽपि इदानीं अनेकक्षेत्रेषु महिलाः कार्यप्रवृत्ताः सन्ति । कार्यालयव्यवहारः, कृषिकार्यं, काव्यरचना, पत्रिकाकार्यं सङ्गीतं नर्तनम् अभिनयः क्रीडा, विमानोड्डयनम्, विज्ञानम्, राजकीयक्षेत्रं, यन्त्रचालनं, गणकयन्त्रकार्यं, संशोधनम् इत्यादि क्षेत्रेषु अतीव प्रसिद्धाः महिलाः आर्थिकव्यवहारेषु अपि निपुणाः सन्ति । उद्यमेषु च समर्थाः इति ख्याताः । नाटक चलनचित्र दूरदर्शनादिषु महिलानां अद्भुतं कार्यं द्रष्टुं शक्यम् अस्ति । उदानीं पुरुषस्त्री भेदः कार्यक्षेत्रे नास्ति। सर्वेषां शिक्षणव्यवस्थास्ति। परिवारकार्येण साकं अन्यदपि कर्तुं महिलाः समर्थाः सन्ति । अथापि महिलानां समस्याः अपगताः न सन्ति ।

सतीपद्धतिः निरस्ता तेन जीवने महिलानामपि स्वकीयम् अस्तित्वं प्राप्तम् अस्ति । श्री शिशुहत्या नियमानुसारं निरस्ता अस्ति । विधवाविवाहः अपि प्रोत्साहितः अस्ति । राजकीयक्षेत्रे अनेकाः महिलाः राज्येषु मुख्यमन्त्रिरुपेण कार्यं कृत्वा सफलतां प्राप्ताः सन्ति । श्रीमती इन्दिरा गान्धी भारतस्य प्रधानमन्त्री आसीत् । मार्गारेट थ्यायर, इङ्ग्लैण्डदेशस्य, प्रधानमन्त्री आसीत् । इदानीं श्रीमति प्रतिभा पाटील भारतस्य राष्ट्रपतिस्थाने विराजमाना अस्ति । महिलासु अनेकाः इदानींपि आर्थिकदुर्बलाः, अनारो- ग्यपीडिताः, अत्याचार बलात्कारादिना शोषिताः सन्ति । महिलानां संरक्षणं सर्वेषां कार्यमास्ति । महिला न केवलं गृहं किन्तु विश्वमपि प्रशासितुं समर्था इति ज्ञातः एव विषयः । महिलादिनाचरणेन समस्यानाम् उन्मूलनं, महिलानां संरक्षणं, महिलासङ्घटनाभिः उत्तमकार्ये प्रवर्तनं, पीडितानां शोषितानां पुनरुद्धारः, सौन्दर्यस्य दुरुपयोगः इत्यादि विषये चिन्ततीयम् अस्ति । नाममात्रेण आचरणंव्यर्थं भवति । उत्तमकार्य तथा महिलानां विषये जागरणम् अनिवार्यम् अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]