अरुन्धती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
अरुन्धती
अरुन्धती
वसिष्ठः अरुन्धती च यज्ञे निरतौ (1994 चित्रम्).
Information
Family कर्दमः (पिता), देवहूती (माता)
कला, श्रद्धा, हविर्भुक्, गतिः, क्रिया, ख्यातिः, शान्तिः, अनसूया (भगिन्यः)
कपिलः (भ्राता)
वेदव्यासः (पौत्रः)
भार्या(ः)/भर्ता वसिष्ठः
अपत्यानि शक्तिः
धर्मः हिन्दू

अरुन्धती सप्तर्षिषु अन्यतमस्य वसिष्ठस्य पत्नी। अरुन्धती इति नाम्ना नक्षत्रपुञ्जमपि उत्तरस्यां दिशि विद्यते। एतत् नक्षत्रपुञ्जं प्रातः कालीननक्षत्रम् इति प्रसिद्धम्। अरुन्धत्याः अक्षमाला, ऊर्जा इत्यपि नामान्तरं विद्यते। चारित्र्यस्य शुद्धेः पतिव्रतायाः च मूर्तिरूपेण अरुन्धती पूज्यते।

जीवनम्[सम्पादयतु]

कर्दमदेवहूत्योः नवसु पुत्रीषु अरुन्धती अष्टमी। भागवते शिवपुराणे च अरुन्धत्याः जीवनविषये उल्लेखः लभ्यते। शिवपुराणे अरुन्धती पूर्वजन्मनि ब्रह्ममानसपुत्री सन्ध्या आसीत् इत्युक्तम्। सन्ध्या स्वशुद्ध्यै शिवं प्रार्थितवती। शिवः तां मेधातिथ्यग्नौ पततु इत्यसूचयत्। तत्र पतित्वा पुनरपि मेधातिथेः पुत्रीरूपेण जन्म प्राप्य तदनन्तरं वसिष्ठं वृतवती इति कथा अपि विद्यते। नारदस्य सूचनानुसारम् अरुन्धतीवसिष्ठयोर्विवाहः सञ्जातः[१]। कदाचित् पत्युः द्रोहं अकरोत् इति कारणतः सा सूक्ष्मरूपम् अधरत्। अरुन्धत्याः शक्तिः इति पुत्रः सञ्जातः। विश्वामित्रवसिष्ठयोः कलहकारणतः अरुन्धत्याः शतं पुत्राः मृताः इति कथा रामायणस्य बालकाण्डे उपलभ्यते[उद्धरणं वाञ्छितम्]। तथा च रामसीतालक्ष्मणैः सह अरुन्धत्याः मेलनमपि वर्णितम्[२]शिवपार्वत्योः विवाहे अरुन्धत्याः अपि पात्रम् आसीत् इति कुमारसम्भवे विद्यते[३]

महापतिव्रतासु अन्यतमात्वेन अरुन्धत्याः उल्लेखः विद्यते। कदाचित् अग्नेः ऋषिपत्नीः उपभोक्तुम् इच्छा सञ्जाता तदानीं स्वाहादेवी एव ऋषिपत्नीनां रूपं धृत्वा अग्निं तोषितवती। परन्तु अरुन्धत्याः रूपं धर्तुं सा न अशकत्। कदाचित् द्वादशानां वर्षाणां भीकरः क्षामः आसीत्। सप्तर्षयः फलमूलादीनि न प्राप्तवन्तः। अरुन्धती शिवमुद्दिश्य तपः आचरितवती। तथा च अयसा निर्मितानि बदरीफलानि पक्ववती। एतेन तुष्टः शिवः क्षामं न्यवारयत्। अरुन्धत्याः शक्तिः चिरकेतुः इत्यादयः अष्टौ पुत्राः आसन् इति पुराणेषु उल्लेखः विद्यते। अरुन्धती ऋषिभ्यः धर्मरहस्यमपि बोधितवती। उत्तररामचरिते सीतया सह अरुन्धत्याः मेलनप्रसङ्गः अपि वर्णितः विद्यते[४]

बान्धवाः[सम्पादयतु]

अरुन्धत्याः बन्धूनाम् एव दीर्घा आवलिः कर्तुं शक्या। अरुन्धत्याः पिता कर्दमः स्वायम्भुवमनुपुत्री देवहूती च माता। अरुन्धत्याः अष्टौ भगिन्यः। मरीचिपत्नी कला, अङ्गिरःपत्नीश्रद्धा, पुलस्त्यपत्नी हविर्भुक्, पुलहपत्नी गतिः, क्रतुपत्नी क्रिया, भृगुपत्नी ख्यातिः, अथर्वाङ्गीरसपत्नी शान्तिः, अत्रिपत्नी अनसूया च। कपिलमहर्षिः अरुन्धत्याः भ्राता। अरुन्धत्याः पुत्रः शक्तिः, पौत्रश्च वेदव्यासः[५]

अरुन्धतीनक्षत्रम्[सम्पादयतु]

अरुन्धतीनक्षत्रपुञ्जम्

अरुन्धतीनाम्ना नक्षत्रपुञ्जमपि प्रसिद्धम् वर्तते। इदं च उत्तरस्यां दिशि दृश्यते। विवाहसमये अरुन्धतीनक्षत्रं वधूवरौ पश्यतः। एतेन अरुन्धतीवसिष्ठयोरिव पवित्रं दाम्पत्यं नवोढयोरपि भवतीति प्रतीतिः। सप्तपदीगमनानन्तरं जामाता मन्त्रं पाठयन् बधूं तां दर्शयति च ॥ इति विवाहप्रयोगे उल्लेखः विद्यते। वरः वध्वे नक्षत्रं दर्शयति। भारते क्वचित् चैत्रशुद्धद्वितीयायाम् अरुन्धतीनिमित्तकः उपवासः गृहिणीभिः क्रियते। एतेव वैधव्यं नापतति इति विश्वासः नारीणां विद्यते[६]

अरुन्धतीनक्षत्रं यदि न दृश्यते तर्हि मृत्युः सन्निहितः इति भारतीयाणां विश्वासः ।

दीपनिर्व्वाणगन्धञ्च सुहृद्वाक्यमरुन्धतीं ।
न जिघ्रन्ति न शृण्वन्ति न पश्यन्ति गतायुषः” ॥
“न पश्यति स नक्षत्रां यश्च देवीमरुन्धतीं ।
ध्रुवमाकाशगङ्गां वा तं वदन्ति गतायुषं” ॥ सुश्रुतसंहिता [उद्धरणं वाञ्छितम्]

अरुन्धतीनदर्शनन्यायः[सम्पादयतु]

अरुन्धतीनक्षत्रदर्शनसमये आदौ तत्पार्श्वे विद्यमानं किञ्चन बृहत् नक्षत्रं दर्श्यते। तदनन्तरं तत्पार्श्वस्थं अरुन्धतीनक्षत्रं दर्श्यते। एवं यदि महतः साहाय्याद् लघुनः वस्तुनः द्योतनं अरुन्धतीनदर्शनन्यायः इत्युच्यते।

उल्लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अरुन्धती&oldid=448208" इत्यस्माद् पुनः प्राप्तिः