मापुपेत्य पुनर्जन्म..

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वरतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ १५ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

माम् उपेत्य पुनर्जन्म दुःखालयम् अशाश्वरतम् न आप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥

अन्वयः[सम्पादयतु]

परमां संसिद्धिं गताः महात्मानः माम् उपेत्य अशाश्वंतं दुःखालयं पुनर्जन्म न आप्नुवन्ति ।

शब्दार्थः[सम्पादयतु]

परमाम् = उत्कृष्टाम्
संसिद्धिम् = सिद्धिम् (मोक्षरूपाम्)
गताः = प्राप्ताः
महात्मानः = महापुरुषाः
माम् उपेत्य = मां लब्ध्वा
अशाश्व तम् = अस्थिरम्
दुःखालयम् = दुःखस्थानम्
पुनर्जन्म = पुनर्जन्म
न आप्नुवन्ति = न लभन्ते ।

अर्थः[सम्पादयतु]

उत्कृष्टां मोक्षरूपां सिद्धिं प्राप्तवन्तः महापुरुषाः यदा मां लभन्ते पश्चाजत् ते क्षणिकं दुःखस्थानमिदं पुनर्जन्म न प्राप्नुवन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मापुपेत्य_पुनर्जन्म..&oldid=418725" इत्यस्माद् प्रतिप्राप्तम्