मा ते व्यथा मा च...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।
- व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ ४९ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य नवचत्वारिंशत्तमः(४९) श्लोकः ।
पदच्छेदः
[सम्पादयतु]मा ते व्यथा मा च विमूढभावः दृष्ट्वा रूपं घोरम् ईदृक् मम इदम् व्यपेतभीः प्रीतमनाः पुनः त्वं तत् एव मे रूपम् इदं प्रपश्य ॥ ४९ ॥
अन्वयः
[सम्पादयतु]घोरम् ईदृक् मम रूपं दृष्ट्वा ते व्यथा मा, विमूढभावः च मा । त्वं व्यपेतभीः प्रीतमनाः मे तत् एव इदं रूपं पुनः प्रपश्य ।
शब्दार्थः
[सम्पादयतु]- घोरम् = भयरम्
- ईदृक् = ईदृशम्
- मम इदम् रूपम् = मम एतद्रूपम्
- दृष्ट्वा = अवलोक्य
- ते = तव
- व्यथा मा = भयं मास्तु
- विमूढभावः च मा = मूढचित्तत्वं च मास्तु
- व्यपेतभीः = अपगतभयः
- प्रीतमनाः = सन्तुष्टचित्तः
- मे तदेव इदम् = मम स्थितपूर्वमेव तत्
- रूपम् = स्वरूपम्
- पुनः प्रपश्य = भूयः ईक्षस्व ।
अर्थः
[सम्पादयतु]भयरम् ईदृशं मम इदं स्वरूपम् अवलोक्य तव भयं मास्तु । त्वम् अपगतभयः सन्तुष्टचित्तः मम स्थितपूर्वं तदेव स्वरूपं पुनः पश्य ।