मिखाइल् गोर्बचोफ्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मिखाइल गोर्बाचोफ

मिखाइल सर्गेयेविच् गोर्बाचोफ (Mikhail Gorbachev) रशियादेशस्य कश्चन सुप्रसिद्धः राजकीयनेता अस्ति । अयं वामपन्थीयपक्षस्य (Communist Party) प्रमुखः सदस्यः अस्ति।

जननम्, बाल्यञ्च[सम्पादयतु]

मिखायिल् गोर्बाचोफ १९३१ तमे संवत्सरे मार्चमासस्य २ दिनाङ्के रशियादेशस्य काक्सन्-प्रदेशस्य प्रिवोल्नोयियाम् अजायत । सः मेधावी आसीत् । अस्य गणितम्, इतिहासश्च प्रियौ विषयौ आस्ताम् । अस्य बाल्यजीवनं कठिनमयम् आसीत् । सः त्रयोदशे वयसि एव कृषिकार्यम् आरब्धवान् । कृषिकार्ये दक्षः आसीत् । सः स्वस्य षोडशे वयसि एव "आर्डर् आफ् दि रेड्-ब्यानर् आफ् लेबर्” इति नामकं पुरस्कारं प्राप्तवान् आसीत् । अस्य पुरस्कारस्य प्राप्त्यनन्तरं मास्कोविश्वविद्यालये अध्ययनार्थं प्रवेशं प्राप्तवान् । अस्मिन् एव विद्यालये शासनविधिं (Law) पठित्वा पदवीधरः सञ्जातः । सुप्रसिद्धः शासनतज्ज्ञः संजातः ।

वैय्यक्तिकजीवनम्[सम्पादयतु]

१९५३ तमे संवत्सरे सेप्टम्बर्-मासे "रैसा माक्सिमोवना तितारेङ्को" नाम्नीं परिणीतवान् । १९५७ तमे संवत्सरे पुत्री जाता । तस्याः नाम 'ऐरिन्’ । १९८७ तमे संवत्सरे नवम्बर्-मासे "पेरिस्ट्रोयिक् न्यू थिङ्किङ्ग् फार् अवर् कण्ट्रि दि वर्ल्ड्” नामकपुस्तकं रचितवान् । अस्य "ग्लास्-वास्ट् पेरिस्ट्रोयिक्” नीतयः सुप्रसिद्धाः सञ्जाताः ।

राजनीतिः[सम्पादयतु]

सुप्रसिद्धेषु राजकीयनेतारेषु मिखायिल् गोर्बचेव् अन्यतमः । अस्य राजकीयजीवनं स्टाव्रोपोल्-प्रदेशे आरब्धम् । १९५२ तमे संवत्सरे मिखायिल् गोर्बाचोफ कम्युनिस्ट्-पक्षस्य सदस्यः जातः । १९५६ तमे संवत्सरे पक्षस्य कार्यदर्शित्वेन नियुक्तः । १८७४ तमे संवत्सरे 'सोवियत् युवजनायोगस्य' अध्यक्षः संजातः । १९८० तमे संवत्सरे पालिट्-ब्युरो-संस्थायाः सदस्यत्वं प्राप्तवान् । अस्य देशे तेषु दिनेषु क्षामः आसीत् । अतः तेन कृषिक्षेत्रे विनूतनपरिवर्तनानि आनीतानि । ततः देशः समृद्धः सञ्जातः । १९८८ तमे संवत्सरे देशीयजनेभ्यः ग्लास्-नास्ट्-नीतीः परिचायितवान् । एतेन जनाः स्वातन्त्र्यं प्राप्तवन्तः । १९९० तमे संवत्सरे जुलैमासे प्रधानकार्यदर्शित्वेन पुनः नियुक्तः । एषः 'सोवियत् कम्युनिष्ट् पक्षस्य' अन्तिमः कार्यदर्शी आसीत् । 'यु एस् एस् आर्'-राष्ट्रस्य अन्तिमः अध्यक्षः आसीत् ।

पुरस्काराः[सम्पादयतु]

  • १९९० तमे संवत्सरे 'नोबेल्' शान्तिपुरस्कारं प्राप्तवान् ।
  • १९९२ तमे संवत्सरे क्यालिफोर्नियादेशस्य प्रप्रथमतया 'रोनाल्ड् रेगन् प्रेसिडेन्षियर्' पुरस्कारं प्राप्तवान् ।
  • १९९५ तमे संवत्सरे केनडादेशस्य "कार्लटन् विश्वविद्यालयस्य" 'लीगंडाक्टर्’ पुरस्कारं प्राप्तवान् ।
  • ’डर्ह्यां विश्वविद्यालयस्य' गौरवडाक्टरेट् उपाधिं प्राप्तवान् ।
  • २००४ तमे संवत्सरे 'ग्रामि’ पुरस्कारं प्राप्तवान् ।
  • मून्-स्टर् विश्वविद्यालयस्य 'गौरवडाक्टरेट्’ उपाधिं प्राप्तवान् ।

अस्वास्थ्यम्[सम्पादयतु]

  • २००६ तमे संवत्सरे नवम्बर्-मासे अस्वस्थः जातः । ग्रीवायाः शस्त्रचिकित्सा अपि जाता । गोर्बचेफ् २००६ तमे संवत्सरे रशियादेशं प्रति गतः । सद्यः विश्रान्तिजीवने अस्ति ।

बाह्यानुबन्धः[सम्पादयतु]

Interviews and articles

श्रेणीःजीवनी

"https://sa.wikipedia.org/w/index.php?title=मिखाइल्_गोर्बचोफ्&oldid=480797" इत्यस्माद् प्रतिप्राप्तम्