सामग्री पर जाएँ

मिवारप्रतापम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मिवारप्रतापम्  
'राजा' रविवर्मणा निर्मितं प्रतापचित्रम्
लेखकः हरिदाससिद्धान्तवागीशः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

मिवारप्रतापं नाम नाटकं १६४४ ख्रीष्टाब्दे विरचितम् । अस्य प्रथमोऽभिनयो १९४५ ख्रीष्टाब्दे कोलकातानगरे स्टाररङ्ग-मञ्चे समभूत् । प्रस्तावनायां सूत्रधारः संस्कृतभाषायाम् अमरताविषये स्पष्टयति -

वेदादि-शास्त्र-निचय-स्फुट-दिव्यमूर्तिः,

सा वाक् किमन्यवचनादमरा म्रियेत॥

मध्याह्नसूर्यकरणो हि यदि ब्रवीति,

रात्रिः किलेयमिति हन्त स एव मूढः॥

कथावस्तु

[सम्पादयतु]

मानसिंहो राणाप्रतापस्य गृहमागच्छति पङ्किभोजनार्थं च निवेदयति । नानुमतोऽयं प्रस्तावः प्रतापेन। तिरस्कारजनितक्रोधान्धेन । मानसिंहेन सपद्येव प्रतिज्ञातम् -

यद्यमुष्य प्रतीकारं न कुर्यां वीर्यवानपि।

तदाम्बरं न यास्यामि यास्याम्यम्बरतां पुनः।।

मानसिंहस्य प्रस्थानानन्तरं प्रतापेनानुमितं यद् अकबरस्य आक्रमणमासन्न एवास्ति । प्रतिक्रियार्थं सन्नद्धोऽयं वीरान् सम्बोधयति ।

द्वितीयाङ्के महिलासम्मेलनं वर्तते । सौन्दर्यप्रतियोगितायां मुगलराज्ञ्यः सुन्दरीभ्यः पुरस्कारान् वितरयिष्यन्ति । प्रतियोगितायां पृथ्वीराजस्य पत्नी कमला सम्राजः अकबरस्य आज्ञया समागता । मार्गे मुगलोद्यानस्य पालिका कमलाम् अकबरहस्तपाशबद्धां विधातुं प्रयत्नशीलासीत् । कमला कथमपि शस्त्रसाहाय्येन गृहं परावर्तत ।

तृतीयेऽङ्के मानसिंहेन अकबरो राणाप्रतापकृतापमानविषये निवेदितः। चतुर्थेऽङ्के हल्दीघाटीस्थाने सञ्जातस्य सङ्ग्रामस्य वर्णनं विद्यते । अस्यैव गर्भाङ्के शक्तसिंहार्पित-तुरङ्ग-साहाय्येन प्रतापस्य प्राणरक्षा वर्णिता ।

पराजयानन्तरं प्रतापो मिवारशैलस्य पर्णकुटीरे सपरिवारो न्यवसत् । एकस्मिन् दिवसे वनमार्जारो तस्य कन्यकायाः करात् रोटिकां गृहीत्वा भक्षितवान् । क्षुधापीडितायाः कन्यकायाः करुण-क्रन्दनं समाकर्ण्य प्रतापस्य हृदयं द्रवीभूतम् । दुःखमेतत् सोढुम् अशक्नुवन्नसौ अकबरसन्निधौ सन्धिपत्रं प्रेषयामास । पश्चात् पृथ्वीराजस्य प्रबोधनेन सन्धितो विरतः स्वायत्तोऽभवत् ।

पश्चाद् भामाशाहामात्येन प्रतापाय अतुलधन-राशिः समर्पितः । तद्बलेन प्रतापेन महती सेना सज्जीकृत्य कमलमीरमुदयपुरं च क्रमशो जयः प्राप्तः।

षष्ठेऽङ्के देवी-दुर्ग-ग्रहणस्य चर्चा वर्तते । तत्रापि यवनैः साकं तुमुलं युद्धं समभूत् । निर्वहणे प्रताप एवाजयत् ।

नृत्यगीतादेः योजनं कवेः रोचकं संविधानं शोभते । कालीपर्वताद्धस्तादागत्य भिल्लसैनिकाः गायन्ति -

महु महु महुरं सी सीहु णिअरं पिउ पिउ चतुरं वीर।

लहु लहु चरणं वहु वहु करणं संहर जवणं धीर।।

करेहि जीवणपणं धरेहि णु पहरणं।

मारेहि जवणगणं पत्थरसमसरीर।।

तृतीयाङ्केऽकबरद्वारा सम्राजः पदस्य विडम्बना, कमलाद्वारोपेक्षा विविध-धर्मानुयायिभिः विघ्नोत्पादनं मनसि महती चिन्ता प्रदर्श्यते। अस्मिन्नङ्के मानसिंहस्य दीर्घतरं स्वगतभाषणं नास्ति नाट्योचितम् ।

चतुर्थाङ्कस्यारम्भे शक्तसिंहस्यैकोक्तिर्वर्तते । सोऽत्र मानसिंहप्रतापयोः स्थितिमाकलयन् कांक्षति -

‘यदि वयमत्र संग्रामे विजयलक्ष्मीं लप्स्यामहे तदावश्यमेव भारताद् यवनापसारणेन साम्राज्यमारोपयितुमेव यतिष्यामहे' इति।

रङ्गपीठे चेतकनामकस्य प्रतापतुरङ्गमस्य मृत्योः प्रदर्शनं संस्कृतनाट्यसाहित्ये परमाकर्षणस्य केन्द्रम्।

नाटकस्यास्य प्रथमाङ्कस्य आवश्यकतैव नासीत् । अस्मिन्नकबरस्य चरित्रस्य दूषितपक्ष एव प्रकाशितः । वस्तुतोऽस्य अङ्कस्य कथावस्तु नाट्यकथया सर्वथासम्बद्धम् । भारतीय-स्वातन्त्र्ययुद्धस्य अन्तिमचरणे हरिदासोऽगायत् -

स्व-स्वजीवनदानेन रक्षणीयैव जन्मभूः।

आदत्ते हि महद् वस्तु स्तोकत्यागेन बुद्धिमान्॥[]

भारतवर्ष हिन्दूनामेव निवासस्थानम् -

हिन्दुस्थाने यवनवसतिर्नोचिता भारतेऽस्मिन्,

नीहारौघस्थितिरिव शरव्योम्नि नक्षत्रदीप्ते।

तस्मादस्मान्निजनिजधिया यात यूयं स्वदेशान्

अस्रस्रोतः स्रवतु न खलु च्छिन्नभिन्नाच्छरीरात्।।[]

लोकोक्तीनामन्योक्तीनां च प्रयोगः प्रभविष्णुरस्ति । यथा -

अयं कल्याणकल्लोलः स्वयं सम्मुखमागतः।

दृढेन स विशालेन शिलाबन्धेन वारितः।।

सम्बद्धाः लेखाः

[सम्पादयतु]

उद्धरणानि

[सम्पादयतु]
  1. १. २४
  2. ६.१३
"https://sa.wikipedia.org/w/index.php?title=मिवारप्रतापम्&oldid=430683" इत्यस्माद् प्रतिप्राप्तम्