मुदनूरुग्रामस्य जलस्रोतसी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


मुदनूरुग्रामस्य जलस्रोतसी (Mudanuru Wells) कर्णाटकस्य गुल्बर्गामण्डले विद्यते । देवरदासिमय्यः अत्रत्यजलस्य स्रोतसं तवनिधि इति निर्दिष्टवान् अस्ति । अत्र बृहत् कूपद्वयम् अस्ति । पश्चिमदिशि यः कूपः अस्ति तं लक्ष्मेश्वरतीर्थम् इति आह्वयन्ति । अन्यः कूपः रामनाथस्य मन्दिरस्य पार्श्वे अस्ति । तं रामेश्वरतीर्थम् इति निर्दिशन्ति । कूपद्वयेऽपि जलं कदापि न्यूनं न अभवत् । तावदेव न, कूपद्वयतः सामान्यतः २०० हेक्टेर्मितभूमये जलदानं भवति । अतः देवरदासिमय्यस्य 'तवनिधि' इति आह्वाने आश्चर्यं किमपि नास्ति ।

एतस्य अन्तर्जलस्य स्रोतः कथं रूपितम् इत्येव आसक्तिदायकः अंशः । उत्तरकर्णाटके विशेषतया बिजापुर-गुल्बर्गामण्डलयोः आर्षेयकल्पस्य शिलाः सन्ति । तासाम् उपरि प्रि-केम्ब्रियन् कालस्य अल्पवयस्काः शिलाः आगताः । एताः सामान्यतः ३,२०० च.कि.मी. प्रदेशेषु प्रसृताः सन्ति । भीमानद्याः पात्रे एवम् आधिक्येन रूपितम् इति कारणेन एतत् स्थानं भीमाश्रेणी इति वदन्ति ।

एतस्याः भीमाश्रेण्याः भागद्वयं कर्तुं शक्यते । अधोस्तरे सिकताः जेडुशिलाः च सन्ति । उपरितनस्तरे सुधाशिलाः एव प्रधानतया सन्ति । एताः शहबाद् हासुगल्लु इति वदन्ति ।

उन्नतस्तरे यत्र सुधाशिलाः भवन्ति, तस्य अधोभागे जेडुशिलायाः स्तरः भवति, तादृशेषु स्थानेषु अन्तर्जलम् अधिकं भवति । सुधाशिलाः स्वनेमिद्वारा जलस्य शुष्कतां कारयन्ति । जेडुशिलायां जलसंवहनाय प्रतिकूला रचना अस्ति इति कारणेन तस्य उपरि अन्तर्जलस्य सङ्ग्रहणाय अधिकम् आनुकूल्यं भवति ।

मुदनूरुग्रामस्य कूपद्वयमपि भीमाश्रेण्याम् अस्ति । भीमाश्रेण्याः शिलाः भूसमतले वक्ररूपेण अधः गताः सन्ति । भूमेः अन्तः जलस्य स्रोतसः रूपणार्थम् अन्तः परस्परं सम्पृक्ताः तथा नेमियुक्ताः च भवन्ति । अतः एतेषु भागेषु अन्तर्जलस्य सङ्ग्रहणम् अधिकम् अस्ति ।